________________
कथा
दैवविलसितम्र
मुनिकल्याणकीर्तिविजयः ।
इह किल जम्बूद्वीपे भारते क्षेत्रे षट् खण्डाः सन्ति । तत्र दक्षिणार्धभरतस्य 3 मध्यखण्डे धरित्रीवरवणिन्या कर्णाभरणमिव, सकलैः पुरगुणैः समाकीर्णं, सौन्दर्येण चा
ऽलकायमानं क्षितिप्रतिष्ठितं नाम नगरमस्ति । तच्च समस्तसामन्तनृपप्रणतपदकमल: का प्रबलपराक्रमपराजितप्रत्यर्थिपार्थिवमण्डलः प्रजापालनैकरसिको वीरसेनो नाम राजा शास्ति की
स्म । तस्य च सकलगुणगणाधारभूता निर्मलाखण्डशीलकलिता धारिणी नाम महाराज्ञी आसीत् । पुण्यफलमप्रत्यूहतयाऽनुभवतोस्तयोः कालो गच्छति स्म ।
अन्यदा रात्रौ वासभवने महाघे शयनीये सुखनिर्भरं प्रसुप्ता धारिणी पुरतो चलन्तं , सुरेन्द्रं स्वप्ने दृष्ट्वा सहसा प्रतिबुद्धा । तत उज्जृम्भमाणभुजयुगला प्रोन्मीलितनयना च सा राजानं जागरयित्वा तत् कथितवती । स्वप्नं श्रुत्वा किञ्चिद् विचिन्त्य च तेन उक्तम् - "प्रिये ! स्वप्नोऽयं सूचयति यत् तवैकः पराक्रमी सौन्दर्यशाली च पुत्रो भविष्यति । किन्तु त्वया । दृष्टः सुरेन्द्रश्चलन्नासीत् । अतोऽयं पुत्रोऽपि ते चलप्रकृतिको भविष्यति ।' साऽपि तदङ्गीकृत्य हृष्टमानसा सञ्जाता । तद्दिनाच्चाऽऽरभ्य प्रवर्धमानं गर्भं सम्यक्तया पालयति स्म । यथाकालं राज्ञा संपूर्यमाणदोहदा सा कालमासे प्रवररूपादिगुणकलितं सुन्दरं शिशुं प्रसूते स्म । चेटीभिर्वर्धापितो नृपो महोत्सवपूर्वकं वर्धापनकं कारयित्वा नामदिने सम्प्राप्ते स्वप्नानुसारं का तन्नाम 'देवराज' इति स्थापितवान् । सोऽपि शिशुः स्वमात्रा पाल्यमानोऽनुदिनं प्रवर्धते स्म।
अथाऽन्यदा कदाचित् रात्रौ शुभशयनीये निद्रायमाणा राज्ञी पुनरपि स्वप्नमेकं - ददर्श । तत्र सा शङ्खतलविमलधवलमाभूषणविभूषितं सुपुष्टशरीरं सुन्दरमेकं वृषभं स्वमुखे
प्रविशन्तं दृष्ट्वा विबुद्धा । शुभसङ्केतसूचकमिदं स्वप्नमिति हृष्टा, अपूर्वः कोऽपि लाभो कर - भवितेति तुष्टा, स्वाम्यपि ज्ञात्वैतत् प्रसन्नो भविष्यतीत्यानन्दिता विकसल्लोचनकपोलयुगला च । V सा राजानं प्रतिबोध्य यथातथं कथितवती । नृपोऽपि तच्छ्रुत्वाऽऽह्लादितोऽकथयत्- 'यतस्त्वया ।
३२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org