SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ षष्ठं दृश्यम् (लघुग्रमोऽस्ति । मृत्तिकया निर्मितानि कानिचिद् गृहाणि सन्ति । सर्वत्र शान्तिर्दृश्यते । तत्राऽद्यतनसुखसाधनशून्यमन्धकारेण व्याप्तमेकं गृहमस्ति । तस्मिन् गृहे खिन्नचित्तवती 'गुणसुन्दरीतस्ततोऽटति । बहिः शकटयानस्य 'कीचूड् कीचूड्' इति ध्वनिः श्रूयते । वदनमूर्ध्वकृत्य पश्यति । शीलां निरीक्ष्य सा सोत्साहं सन्मुखं गतवती । ) शीला स्वास्थ्यं समीचीनं वर्तते न वा ? सुन्द आमाम्, प्रथमं 'तस्य का वार्ता' इति वद । (साश्चर्यं तस्य कस्य ? (सोपालम्भं) त्वं जानत्यपि पीडितां मां कथमितोऽपि पीडयसि ? सत्वरं वद, का वार्ता ? - शीला गुणसुन्दरी शीला Jain Education International (विहस्य स्यूतात् पत्रं निष्कास्य) गृह्णातु । ( गुणसुन्दरी सहर्षं गृहीत्वा प्रथमं पत्रं पुनः पुनः चुम्बति । पत्रं पठति ।) प्रियतमे ! त्वं कुशलिनी वर्तस्व इति कामये । यथा जलं विना मीनो विलुण्ठति तथाऽहमपि त्वां विना प्रतिक्षणं विलुण्ठामि । तव वियोगेऽहमतीव दुःख्यस्मि । सदैव मन्मानसे तव प्रियदर्शिनी प्रतिकृतिरेव नृत्यते । सर्वास्वपि स्त्रीषु तवैव मनोहरं दर्शनं भवति । मनोराज्ञि ! श्रीरामस्तु हनुमतो हृद्येव विराजते स्म, किन्तु त्वं तु मे देहस्य प्रतिरोम विराजते । तत एव कदाचित्तु न केवलं स्वप्नदशायाम्, अपि तु जागृतावस्थायामपि सहसैव 'गुणसुन्दरी गुणसुन्दरी' इति रटनं भवति । त्वां विना क्षणमपि युगायते । त्वां विना मिष्टान्नमपि विषायते । (तदा सा कोमलहस्ताभ्यां पत्रं किञ्चिद् विमर्दय चुम्बयित्वा चोरसि बाढं लगयति । तस्या नयनयोरजस्रमश्रुधारा प्रवहति । मम प्रियतमो मय्येतावन्तं स्नेहं करोति ! मां प्रतिक्षणं वाञ्छति ! अहो ! मे जीवनं सफलं जातम् । ६२ For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy