SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ तद्वारेण च महत्पुण्यमुपार्ज्यते एव । स उवाच- तेन किम् ? प्रभो ! भवद्भिस्तु हस्तगतं सुखं तत्साधनं, गृहं, परिवारवात्सल्यं चैवं सर्वमपि संसारं विहाय बहुकष्टभृतो मार्ग : स्वीकृतः । सर्वमपि कष्टं, विषह्य प्रभुभक्तिर्लोककल्याणमात्मकल्याणं चैव क्रियते । अहं तु तत्किमपि कर्तुमसमर्थः । अतो भवादृशां पुण्यजनानां स्वल्पसेवाया व्याजेन काञ्चित् प्रभुभक्तिं करोमि । एवं दशनिमेषपर्यन्तं वार्तालाप: प्रचलितः । तदा तस्य मनोभावनां चित्तशुद्धिं च ज्ञात्वा मे * मानसेऽतीव प्रसत्तिः संजाता, तथा तत्क्षणं विहारपरिश्रमोऽपि गलितः । तदैव "प्रभो ! गृहमागम्यताम्, आहारादिकं गृहीत्वाऽस्मान् लाभान्वितान् करोतु भवान्" इत्युक्तं तेन । "न किमप्यावश्यकम् । केवलं जलमेव पर्याप्तम्" इत्युवाचाऽहम् । स अवोचत् कथम् ? निर्दोषाहार एवाऽत्र प्राप्स्यते । मनसि ग्लानिमनुभवता मयोक्तम्- बहिस्त आहारादिकं गृहीत्वा श्रावक आगमिष्यति । यतोऽत्र सर्वाऽपि व्यवस्थाऽस्तीति न ज्ञातमस्माभिरिति । एतदाकयैव वज्राघात इव स स्तब्धो मूढश्च जात: क्षणं तु वातावरणेऽपि ★ स्तब्धता गम्भीरता च प्रसृता । पश्चात् सखेदं स जगाद - किं गृहमत्र नाऽस्ति ? किं वयमत्र, न स्मः ? किं वयमपूपादिकं न दद्याम ? येनैवं कृतम् । प्रभो ! अस्माकं गृहे मिष्टान्नादिकं नाऽस्ति, किन्तु तक्रमपूपो दुग्धं चाऽस्त्येव । अस्माकं गृहे यदस्ति तद् भवद्भ्योऽपि दद्याम ।. हन्त ! अस्मादृशा हतभागिनः पापिन: के सन्ति ? हा, हा, एतत्वस्माकं दुर्भाग्यं * महत्पापोदयश्चाऽस्ति, येनाऽस्माकं सदने आगता अपि पवित्रसाधुजना मद्गृहस्याऽन्नकणमपि न स्वीकुर्वन्ति, इत्युक्तवतः तस्य मुखोपर्यकथनीयाऽदर्शनीया च ग्लानिः प्रसृता, देहः स्तब्धो `जातः, नयने जलबिन्दुभृते जाते । सर्वेऽपि मूका इव संजाताः । तदोपस्थितानां सर्वेषामपि कौटुम्बिकजनानां नेत्राणि बाष्पार्द्राणि जातानि । तद् दृष्ट्वा मे हृदयेऽतीव खेद उत्पन्नः । 'अस्माकं साधुजनानामपि नयनान्यार्द्राणि जातानि । तदा तेषां शुद्धभावनाभिरभिभूतोऽहं' जात: 'किं कथयानि, किं करवाणि चे 'ति चिन्तितवानहम् သင်တို့နှင့်သင်တို့ Jain Education International ဆ သားစာ " तदा पुनः स आह- 'प्रभो ! 'अत्र नाऽऽगन्तव्यम्" इति दूरभाषद्वारेण तस्मै २४ For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy