________________
पूर्णम् पाणिनि वैयाकरणम्
डॉ. आचार्यरामकिशोरमिश्रः
___२९५/१४, पट्टीरामपुरम् खेकड़ा (बागपत) उत्तरप्रदेश:-२०११०१
अष्टाध्यायीरचनाकारम्, वैयाकरणकण्ठकृतिहारम्, दाक्षीपुत्रं व्रज तं शरणम्,
प्रणम पाणिनिं वैयाकरणम् ॥१॥ गुरुपवर्षप्रसादयितारम्, योऽकृत संस्कृतस्य चोद्धारम्, भाषानियमसूत्रनिर्झरणम्,
प्रणम पाणिनि वैयाकरणम् ॥२॥ • जनके नाऽज्ञातेन हि जातम्, . मातुम्निा भुवि विख्यातम्,
शाकल्य-स्फोटायन-भरणम्,
प्रणम पाणिनिं वैयाकरणम् ॥३॥ 'इको यणचि' इह प्रत्याहारैः,
यः सूत्रयति हि विविधप्रकारैः । • सुध्युपास्य-मध्वरि-संस्मरणम्,
प्रणम पाणिनिं वैयाकरणम् ॥४॥
Jain Education International
६ For Private & Personal Use Only
www.jainelibrary.org