SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ DDDDDDDDDDDDDDDDDDDDDD ___ कदापि न करणीयम् । गहिते प्रवर्तनेन समाजे कुटुम्बे चाऽप्यप्रियो भवति । १२. व्ययमायोचितं कुर्वन् - आयं विचार्य तदनुरूपमेव व्ययं कुर्यात्, येन मनस्तापो न ) स्यात् । विवेको हि सर्वत्राऽऽवश्यकः । "प्रावारकप्रमाणमेव पादप्रसारणं कर्तव्यम्" (C) इत्येषोक्तिरपि प्रसिद्धाऽस्ति । तथा व्यवह”व सुखी भवति । १३. वेषं वित्तानुसारतः - स्वकीयार्थव्यवस्थानुरूप एव वेषः परिधातव्यः । 'वित्तानुसारतः' el इत्यस्य तात्पर्य न केवलं धनस्य न्यूनाधिकतायामस्ति किन्तु मर्यादायामप्यस्ति । वेषो कि यथा वित्तं द्योतयति तथा चित्तमपि द्योतयति । एष कुलीनः संस्कारी वा, अस्य का विचाराः कीदृशाः - इत्यस्य निर्णयो वेषेणाऽपि कर्तुं शक्यते । वेषो बहुमूल्योऽल्पमूल्यो वा स्यात् किन्तूबॅटो वा मर्यादाया उपहासको वा यथा न स्यात् तथा सावधानेन भवितव्यम् । १४. अष्टभिर्धीगुणैर्युक्तः - शुश्रूषते- श्रोतुमिच्छति, प्रतिपृच्छति - पुनः पृच्छति, शृणोति, गृह्णाति- श्रुत्वा गृह्णाति, ईहते- गृहीत्वा पर्यालोचनं करोति, अपोहते - निश्चिनोति, धारयति - निश्चितं चाऽर्थं सदैव चेतसि धारयति, करोति-श्रुतानुरूपं सदनुष्ठानं करोति- इत्येवंरूपो जनोऽष्टभिर्धीगुणैर्युक्तः कथ्यते । १५. शृण्वानो धर्ममन्वहम् - धर्मकथां स नित्यं शृणुयात् । धर्मश्रवणेन सदसद्विवेको हेयोपादेयविवेकः कर्तव्याकर्तव्यविवेकश्च जागृतो भवति । श्रवणसंयोगाभावे सद्वाचनमपि (e) कुर्यात् । सच्छ्रवणेन सद्वाचनेन च सत्संस्कारा दृढा भवन्ति । १६. अजीर्णे भोजनत्यागी - अजीर्णे सति भोजनस्य त्यागो विधेयः । भोजनस्य हेतुः ) शरीरस्वास्थ्यमस्ति । लोकेऽप्येवमुच्यते - 'जीवनाय भोजनमस्ति, न भोजनाय जीवनम्' इति । प्रथमं तावद् विवेकनैव वर्तितव्यम्, अजीर्णं यथा स्यात्तथा न कि भोक्तव्यम् । एवं सत्यपि यद्यजीर्णं स्यात्तर्युत्तममपि भोजनं त्यक्तव्यमेव । "अजीर्णे व भोजनं विषम्" - इति ध्येयम् । काले भोक्ता च साम्यतः - भोजनवेलायामेव भोजनं करणीयम्, न यदा तदा वा। युवावस्थायां यो जागरुकतया विवेकेन वा न वर्तते स वृद्धावस्थायां दुःखी भवति । शरीरमेव तं पीडयति । न केवलं काले भोक्तव्यमपि तु साम्यतोऽपि । जिह्वालौल्यमनसृत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy