SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रथमं दृश्यम् ) (कार्पासनिर्मितायां कोमलशय्यायां हस्तोपरि वदनं संस्थाप्य पत्युरागमनं प्रतीक्षमाणा ड दीनवदना चिन्ताक्रान्ता गुणसुन्दरी उपविष्टा वर्तते । तदा द्वारे 'जय जिनेन्द्र !' इति श्रूयते) गुणसुन्दरी - जय जिनेन्द्र !, कोऽस्ति ? श्री रूपसुन्दरी - अहम् । रूपसुन्दरी । INS गुणसुन्दरी - अहो ! आगच्छ, आगच्छ । किं कुशलिनी ? IC रूपसुन्दरी - आम, आम् । किन्तु कथं त्वमेवं दीनमनस्का दृश्यसे ? गुणसुन्दरी - न किमपि । एवमेव । NS रूपसुन्दरी - न हि, सखि ! किमपि निहुषे त्वम् । सत्यं वद । ( गुणसुन्दरी - अद्य मम स्वास्थ्यं समीचीनं नास्ति । रूपसुन्दरी - अस्तु, त्वमद्य विश्राम्य । श्वरागमिष्यामि । . (सा गच्छति ।) गुणसुन्दरी - (स्वगतम्) किं करवाणि ? न कस्मिन्नपि कार्ये मनो व्यापृतं भवति । हृदये वियोगस्य तीव्रवेदनामनुभवामि । हन्त ! न कोऽप्यत्र मे आधारोऽस्ति । एतां वेदनां कस्मै निरूप्य मनोभारं न्यूनीकुर्याम् । (शयने पतति ।) (बहिः पादध्वनिः श्रूयते ।) ६ गुणसुन्दरी - कोऽस्ति ? PP शीलसुन्दरी - जय जिनेन्द्र ! Sipo गुणसुन्दरी - जय जिनेन्द्र ! अहो ! त्वम् ! आगच्छ, आगच्छ । (आसन्दमुद्दिश्य) अत्रोपविश । (सोपविशति ।) | गुणसुन्दरी - किं भो ! तव तु दर्शनमेव नास्ति । कुत्र गतवत्यासीः ? II शीलसुन्दरी - न कुत्राऽपि । अत्रैवाऽस्मि किल । ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy