Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विज्ञप्तिमहालेख
मुक्तस्य श्रीशासनानुरागसुभगंभावुकस्य ठ० साधारसुश्रावकस्य महाग्रहरसनिघ्ना ऐषमशचतुर्मासीमिहैवावास्थिष्महि । -
[जिनोदयसूरिप्रदत्तसमागतविज्ञप्तिपत्रप्रत्युत्तरम् ।] -इत्यादीनि पैतषपीयूषरसायनायमानानि स्वरूपाणि तानि कथं प्रत्युत वर्णयामः, कथं श्रीमदाराध्यानां ठ० श्रीराजदेवसुश्रावकस्य च भाग्यभङ्गी वाचि संभावयामः; तस्या । एव दुर्लभत्वात् । यतःदृष्ट्वा श्रीभवतामनहतगतिं सौभाग्यभाग्यश्रियं, श्रुत्वा मत्रिदलीयवंशसुमणेः श्रीराजदेवस्य च । तां तां तीर्थसमुन्नतिं विरचितां स्फारीभवद्विस्मया, बुद्धिर्बालवशेन सङ्गमगता वाचं न नो यच्छति ॥४४॥
लिखामश्च किम् , यतःचेद् वैडूर्यमयी नभःस्थलतता क्वाप्याप्यते पट्टिका, गम्भीरः खटिकाम्बुभाजनमसौ क्षीराम्बुराशिभवेत् । शक्त्या वज्रमयं विधाय कलमं देवः स्वयम्भूर्यदि, प्रारब्धालिखितुं तदा व्यतिकरोऽसौ लिख्यते चेत् कियान् ॥४५॥
परं केवलं सपरिवारैरस्माभिः श्रीचतुर्विधप्रत्यक्षं व्याख्यापयद्भिः श्रुतिपुरैः श्रावंश्रावं, मधुरवचनैः स्तावं-स्तावं, चमत्कृतचित्तैः शिरो धावं-धावं, लिखितं लोचनैर्दर्श-दर्श, हृदयाशयेन स्पर्श-स्पर्श, प्रणिधानेन स्मारं-स्मारं, हर्षिते हृदि धारं-धारं, विशिष्टचेष्टाभिर्भारं-भारं, किंबहुना सर्वेन्द्रियगोचरं कारं-कारं, वारं-वारं जन्मपावनपराः सुकृतभराः । श्रेणिकृताः। विशेषतः "श्रीपूज्यानां सपरिच्छदानां कृते सर्वाणि श्रीतीर्थाणि नमसितानि" इत्यक्षरपरम्परावलोकनेन घनसुधारसासारेण संसिक्ताः । अहो! उत्तमानां किमपि जगदु
यम्, यन्नवीनपुण्यवस्तुव्यापारे दवीयोभिरपि नेदीयोभिरिव सम्बन्धिसमुचितस्थाने लहनकविस्मारणं न कृतम्।
अस्माभिरपि वाङ्मनसाभ्यां पुलकितवपुषा च तीर्थनमस्यां विरचयद्भिर्बहु मानित- 20 मिति । पठनीयं गुणनीयं गुप्तिसमितिभ्यां श्रीखरतरवरतररीत्या च प्रवर्तनीयम् ॥ ७ ॥
[अथ जिनोदयसूरिलिखितं स्वकीयधर्मप्रवृत्त्यादिवर्णनम् । ] ६१२. वयमत्र प्रातः पर्षदि पार्षद्यानां पुरतः प्रस्तावोचितं सदुपदेशं प्रदिशन्तो, मध्याह्ने पं० ज्ञानकलशमुनेः श्रीजैनागमवाचनां प्रयच्छन्तः, तं विद्वांसं निकषा च मेरुनन्दनमुनिज्ञाननन्दनमुनि-सागरचन्द्रमुनित्रयं साहित्य-लक्षणादिशास्त्राणि भाणयन्तः, सपरिवाराः । श्रीदेवगुरुप्रसादेन विजयारोग्यभाजो वर्तामहे ।
तथाऽस्माभिः श्रीनागपुरपुरस्थैः श्रीमदाराध्यानां पार्श्वे लघीयो लिखितद्वितयं प्रजिये। ___ तथा तदनन्तरं सविस्तरं वारत्रयं श्रीफलवर्द्धिकामहातीर्थमरुत्पथप्रसाधनदिनेश्वरं महाप्रभावविभूतिमहेश्वरं श्रीपार्श्वनाथतीर्थेश्वरं सारं नमिकर्मीकृतवन्तः।। पुनर्नागपुरे महामहोत्सवपूर्वमपूर्व सामोहणसुश्रावककारितं मालारोपणं विहितवन्तः।"
Jain Education International
www.jainelibrary.org
Education Intermational
For Private & Personal Use Only
For Private & Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238