Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
तपोगच्छाधीशश्रीविजयसेनसूरिं प्रति महोपाध्यायकीर्तिविजयप्रेषिता [११] -विज्ञप्ति पत्रिका -
॥ ऐं नमः ॥ श्रीविजयसेनसूरिगुरुभ्यो नमः ॥ खस्तिश्रीभजते भवार्णवभयं हर्तुं क्षमाधीश्वरम् , श्रीपार्श्व प्रवरप्रियङ्गुसदृशं ज्योतिःप्रकर्ष मुदा । आबाल्याजिनपेन येन कृपया निष्काश्य सत्स्वेच्छया, भोगीन्द्रं ज्वलनात् शठेशकमठो दूरीकृतोऽज्ञानवान् ॥१॥ 5 स्वस्तिश्रीसहितं फणीन्द्रमहितं पद्मावतीसेवितम् , निःशेषाङ्गिजनेप्सितार्थकरणे चिन्तामणीसन्निभम् । पार्श्व पार्श्वपति प्रणौमि परमप्रीत्या पदं सम्पदाम् , किं कल्याणमयं स्वकीयरुचिरक्षेत्रप्रभापेशलम् ॥२॥ स्वस्तिश्रीः सुरराजराजिरचितार्चासञ्चयं सच्छ्रियम् , भूमीनायकमश्वसेनतनयं सुश्रेयसे शिश्रिये । खीयं प्राणपतिं जनार्दनमिति ज्ञात्वा च हित्वा द्रुतम् , संसाराश्रितजन्तुजातकरुणाप्रारब्धचित्तोदयम् ॥३॥ खस्तिश्रीनिकरं समस्तभविकश्रेयस्करं सत्करम् , लावण्यैकसरोवरं भजत भो ! पार्थ जिनाधीश्वरम् । . आधिव्याधिहरं हिरण्यसदृशक्षेत्रप्रभाभाखरम् , भास्वत्कान्तिभरं मनोज्ञपयसा सन्तर्जितो मे वरम् ॥४॥ स्वस्तिश्रीर्वरवारिवाहतनुभाप्राग्भारसंशोभितम् , सेवासक्तमनाः सना श्रयति यं श्रीपार्श्वपार्श्वेश्वरम् । मत्वात्मीयपतिं जडाश्रयमिति त्यक्त्वा च शर्मेच्छया, सर्वोत्कृष्टगुणाश्रयं शिववधूकण्ठैकहारोपमम् ॥ ५॥
खस्तिश्रियाश्रितमनोज्ञपदारविन्द, सौवर्णवर्णवरकोमलकायकान्तम् । सल्लोचनद्वयपराजिततारपद्म, श्रीमारुदेवमनिशं भज भूरि भूत्यै ॥ ६॥ स्वस्तिश्रिया कलितमक्षुलदेहरूपं, श्रीनाभिभूमिरमणीरमणाङ्गजातम् ।।
सेवे सदा सकलवान्छितशर्ममर्मसम्पादनैकसुरभूरुहरूपरूपम् ॥ ७॥ खस्तिश्रीसहितस्य यस्य वृषभश्चिह्नच्छलात् सेवते, विज्ञप्तिं करणाय पत्कजमिति कारुण्यपुण्याम्बुधे !। तिर्यक्त्वं मम दुःस्थितस्य सहसा दूरीकुरु त्वं प्रभो !, विश्वे विश्वजनबजेप्सितमहानन्दौघसम्पादकः ॥ ८॥
खस्तिश्रीवृषभादितीर्थपगणं संशोभमानप्रभम् , श्रीमन्तं प्रणिपत्य भक्तिवशतः संयोज्य हस्तद्वयम् । निःशेषातिशयाभिरामतटिनीप्राणाधिराजेश्वरम् , प्राज्याल्हादविवर्धनैकरजनीप्राणप्रियं नायकम् ॥९॥
श्रीगौड-चौडादिकदेशमुख्यम् , समस्तलक्ष्मीललनानिवेशः।
तिरस्कृतानेकसुरादिदेशः, श्रीगूर्जरो भाति वरप्रदेशः ॥ १० ॥ तत्रैकदेशे वररायदेशः, सद्धर्मपक्षककृतप्रवेशः । निराकृतानेकनिशाचरेशः, सन्यायकक्षीकृतसर्वदेशः ॥११॥ विराजते यत्र पुरं प्रधानमिलाभिधानं कमलानिधानम् । विशालवापीवनवप्रविप्रविहारविद्वज्जनशोभमानम् ॥ १२ ॥ 25
यस्मिन् पुरे राजति काननाली, कास्मीरजन्माप्रसुवृक्षराजी ।
राजादनश्रीफलचारुताली-प्रियङ्गुपुन्नागलताकराली ॥ १३॥ सन्नागवल्लीततमंडपाड्या, रम्भातिरम्भालवलीलतायाः । कदम्बकैश्चम्पकपुष्पजाति-सत्केतकीमालतिकाभिरामैः॥१४॥ विराजते यत्र विचित्रपद्मपद्माकरः कोमलपूरितान्तः । सहस्रपत्रैः शतपत्रपूरैः, सदष्टपत्रैश्च विराजमानः ॥१५॥ यथा सरो मानसनामधेयं, सद्राजहंसैः प्रविराजमानम् । अनेकचक्रावलिचातकैश्च, पारापतैः खञ्जनयामलैश्च ॥१६॥ 30 विराजते यत्र पुरे जिनानां, प्रासादपतिः प्रवरप्रभाभिः । प्रोत्तुङ्गदण्डाग्रशिरःप्रदेशध्वजप्रभापूरितदेहदेशाः ॥१७॥
Jain Education Intemational
n Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238