Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
15
उच्चैस्तरो राजति यस्य वप्रः कैलाशशैलश्रियमादधानः । क्षीराम्बुधिक्षीरतुषाररोचिर्डिण्डीरपिण्डैकसवर्णवर्णः ॥२४॥ 10 कूलङ्कषा यन्नगरोपकण्ठे नित्यावहा निर्मलनीरपूरा । स्तम्बेरमस्तोममनोज्ञलीला विभ्राजमाना वहते निकामम् ॥ २५ ॥ संसारनीरेश्वरमग्नजन्तुश्रेणीसमुद्धारकृतिप्रवीणः । उपाश्रयः पोत इव प्रकामं चकास्ति यस्मिन्नगरे विशालः ॥ २६ ॥ धनीश्वरा यत्र वसन्ति श्राद्धाः पुरंदर श्री गृहिकोपमानाः । रूपश्रिया न्यत्कृतमाररूपाः सर्वाङ्गसद्भूषणभूषिताङ्गाः ॥२७॥ औदार्य-संतर्जित-देववृक्षाः सुश्रावकौघा विलसन्ति यत्र । जीवादिसत्तत्त्वविदः समग्रा लक्ष्मीभृता देवगुरुप्रभक्ताः ॥२८॥ वनानि यत्र प्रथयन्ति विश्वत्रयीमनस्तोषमनन्यतुल्यम् । सञ्चम्पकाशोकरसालसालाद्यनेकसद्वृक्षसुशोभितानि ॥ २९ ॥ अत्यच्छसन्नीरभरैः प्रपूर्णा यस्मिन् पुरे भान्ति सुपुष्करिण्यः । सद्रत्ननीलोत्पलपुण्डरीकसंपूरिताः सर्वजनप्रियाश्च ॥ ३० ॥ यत्पूः समीपस्थितवाहिनीतटे, नानाविधा वल्गुविलासलीलाः । कुर्वन्त्यनेका अपि सत्पुरन्ध्यः, संपूर्णपीयूषमयूखवक्त्राः ॥ ३१ ॥ यत्र स्त्रियः सन्ति सुराङ्गनावत्, प्रोत्तुङ्गपीनस्तनशस्तविग्रहाः । माधुर्य सौन्दर्य सुरूपलक्ष्मीलावण्यसत्त्वादिगुणाभिरामाः ॥ ३२ ॥ श्राद्धीततिः कल्पलतेव यत्राभाति प्रसर्पच्छुभशीलमूलाः । दानोल्लसत्स्फारफलाभियुक्ताः, सौभाग्यसद्वासनवासिताङ्गाः ॥ ३३ ॥ श्रीयुक्ततातचरणक्रमपङ्कजन्मयुग्न्यासरेणुघनसारभराभिरामे ।
20
25
20
35
१९६
विज्ञप्तिलेखसंग्रह
..........
... विश्वविश्वा ।
प्रासादराजी विरराज ज्योतिर्भरैः • यस्मिन् पुरे तीर्थकृतां नितान्तसन्तप्तचामीकरचारुकुम्भा ॥ २० ॥ यद्रष्टुकामः किमयं हिमाचलः प्रासादमालाच्छलतः समागतः । निर्माय रूपं बहुधाऽऽत्मनीनं सम्भावयामीति हृदि स्वकीये ॥ २१ ॥ सद्वैजयन्त्यो जिनसद्मसंस्थाः कम्पायमानाः किमतीव यत्र । वदन्ति लोकानवधूय यूयं प्रमादमेनं जिनपं भजध्वन् ॥ २२ ॥ यच्चैत्यसंस्थातपनीयकुम्भश्रेणिं विलोक्येति वितर्कयन्ति । लोकाः स्वरूपं विविधं विधाय सेवार्थमागात् किमयं सुमेरुः १ ॥ २३ ॥
Jain Education International
श्रीपत्तनाभिधपुरे प्रथिते पृथिव्यां सर्वाङ्गसुन्दरतरे सकलातिरम्ये ॥ ३४ ॥ श्रीमत्तातपदन्यासरजःकर्पूरपाविते । श्रीपत्तनाभिधपुरे तत्र श्रीमति सुन्दरे ॥ ३५ ॥ ॥ इति नगरवर्णनम् ॥
श्रीमत्तातपदाम्भोजसक्तश्रावकशोभितात् । श्रीमद्वर्गवटीनामपुरात् कृषिषु सादरात् ॥ ३६ ॥ अमन्दामन्दसन्दोह मेदुरीकृतमानसः । प्रभूतप्रणयप्रादुर्भावसत्पुलकाङ्कितः ॥ ३७ ॥ सुव्यक्तभक्तिसंयुक्तः सोल्लासहृदयाम्बुजः । सरणद्रणकोऽकुण्ठोत्कण्ठोद्रेकसमाकुलः ॥ ३८ ॥ विनयावनभत्काययष्टिर्भून्यस्तमस्तकः । भालस्थलसंयोजित करयुग्मकुशेशयः ॥ ३९ ॥ प्रमेयप्रमितावर्त्तवदनेनाभिवन्द्य च । लावण्यविजयः शिष्यो विज्ञप्तिं तनुतेतमाम् ॥ ४० ॥ यथाप्रयोजनं चात्र प्रोत्तुङ्गोदय भूभृतः । शिरःकोटीरतिप्रोद्यत्पद्मिनीप्राणवल्लभे ॥ ४१ ॥ ध्वस्तान्धतमसव्यूहे विस्तृतातपकुङ्कुमे । कोकाद्यनेकजीवानां हर्षोत्कर्षप्रदायके ॥ ४२ ॥ प्रवृत्तगीतगानादिमाङ्गल्यध्वनिसुन्दरे । पाथोरुहवनत्रात विबोधनकरे वरे ॥ ४३ ॥ प्रातःकाले च संजाते प्रभाशुम्रितभूतले । महेभ्यसभ्यसन्दोहशोभितायां सुपर्षदि ॥ ४४ ॥ श्रीश्रावकप्रतिक्रान्तिसूत्रवृत्तेः प्रवाचनम् । प्रस्तुतशास्त्राध्ययनाध्यापने च विशेषतः ॥ ४५ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238