Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विनयवर्द्धनगणिप्रेषिता विज्ञप्तिका चकास्ति यत्राद्भुतयौवनेन तद् यौवनं विश्वमनोहरं यत् । समीक्ष्य देवप्रमदा मदेन त्वद्यापि नायाति मनुष्यलोके ॥२३॥ प्रत्यर्थिपृथ्वीदयितान्धकारसंघातविध्वंसनचित्रभानुः। प्रीणाति यस्यां वसुधाधिनाथः प्रजाखकीयात्मजवजितारिः॥२४॥
यत्र चौर्यविनिर्मुक्ते लोललोचनविभ्रमैः । मनांसि केवलं यूनां हरन्ति हरिणीदृशः ॥ २५ ॥ लक्ष्मीवन्तो निरता मर्यादायां गभीरतायुक्ताः । शुद्धहृदयाः सुवृत्ता नदीशवन्नागरा यत्र ॥ २६ ॥ मन्दा अकार्यकरणे परस्त्रीदर्शनेऽन्धकाः । मूकाश्च परदोषोक्तावसन्तुष्टा गुणग्रहे ॥ २७॥ पापेभ्यो भीरुका यत्र लोका लुब्धा यशोजने । निःशूकाः पङ्कसंहारे दानव्यसनिनस्तथा ॥ २८ ॥ मुक्ताफलेषु हि च्छिद्रं वीवाहे करपीडनम् । मारिः शारिषु न(नो) लोके कुसुमेषु च बन्धनम् ॥ २९ ॥ दण्डश्छत्रे तथा चैये खड्ने निस्त्रिंशता सृता । मुरुजेषु चपेटादि जडत्वं यत्र पुष्करे ॥ ३०॥ कैरवानन्ददायी कः का प्रिया स्मरभूपतेः । का पुरी पावनीभूता. श्रीगुरुपादपङ्कजैः ॥ ३१ ॥
'सूरतिः' -व्यस्तसमस्तजातिः। 10 महेभ्यसभ्यद्रविणादिपूर्णे विराजमाने नृपसौल्यवृन्दैः । श्रीतातपादोदकजन्मरेणुपुण्यीकृते श्रीमति तत्र वर्षे ॥३२॥
उलसन्ति सदा यत्र प्रासादाः श्रीजिनेशितुः । शोभमानसदाकारा नानाचित्रविराजिताः ॥ ३३ ॥
यत्र सिद्धालयश्रेणिनिश्रेणिः सिद्धिसमनः । भाति सिद्धिरिवानन्ददायिनी भव्यदेहिनाम् ॥ ३४ ॥ यस्मिन् पुरे भाति विहारपक्तियोमान्तसंलमसदण्डशृङ्गा । किं दर्शयन् दण्डमिषाजनानां गीर्वाणगेहं करशाखयेव ॥३५॥
श्रीसको राजते यत्र लसद्गुणमणीखनिः । जिनेन्द्रार्चाप्रतिक्रान्तिगुरुभक्तिरतः सदा ॥ ३६॥ यत्र सर्वोऽपि वास्तव्यलोकः परमधामिकः । दृढप्रतिज्ञो निपुणो भद्रकप्रकृतिस्तथा ॥ ३७॥
श्रीवीतरागस्मरणप्रवीणसद्धामिकस्तोमविभूषिताङ्कात् । भूभामिनीभालविचित्रभूतात्तस्मान्मुदा विन्धिपुराद् विशिष्टात् ॥ ३८ ॥ सोत्कण्ठितान्तःकरणाभिरामः सन्नीतिरीत्यावनतोत्तमाङ्गः।
संयोजिताञ्चत्करकुड्मलो हि भूरेणुसञ्चित्रितभालपट्टः ॥ ३९ ॥ भक्तिव्यक्त्या कृतोत्साहः शिष्यो विनयवर्द्धनः । पतङ्गप्रमितावर्त्तवन्दनेनाभिवन्ध च ॥ ४० ॥ विज्ञप्तिकां वितनुते कामदां कामधेनुवत् । यथा सुकृतसत्कृत्यमिहापि प्रतिवासरम् ॥४१॥ प्राचीनाचलचूलायामागच्छत्यंशुमालिनि । मण्डितायां महासभ्यैर्महेभ्यः प्रौढपर्षदि ॥ ४२ ॥
श्रीमद्भगवतीसूत्रदेशना क्लेशनाशिनी । पठनं पाठनं साधोराप्तोक्तियोगवाहनम् ॥ ४३ ॥ इत्यादिकं शोभनधर्मकृत्यं जातं मुदा संप्रति जायते च । श्रीतातपादस्मरणप्रभावप्रोद्भूतपुण्योदयतस्तथा
परिपाट्या समायाते हर्षिताशेषमानवे । सर्वपर्वशिरोरत्ने श्रीमदाब्दिकपर्वणि ॥४५॥
अमारिपटहोद्घोषः कृपापोषश्च सर्वतः । तोषणं सर्वलोकानां पौषधिकस्य पोषणम् ॥ ४६॥ अष्ट्राहिकापक्षचतुर्थमासाष्टमादिकोत्कृष्टतपोविधानम् । सप्ताधिकैः स्नानविधेर्विधानं जिनेन्द्रगेहे दशभिः प्रकारैः॥४७॥ संकल्पितानल्पविकल्पपूरसंपूरणे कल्पतरूपमस्य । श्रीकल्पसूत्रस्य नवक्षणैः सन्नव्यक्षणैर्वाचनमद्भुतस्य ॥४८॥ विशेषतः सद्गुरुदेवभक्तिर्भवार्जितांहोहरणे प्रसक्तिः । वाञ्छाधिकं मार्गणमण्डलीनां द्रव्यप्रदानं निजशुद्धभावात् ॥४९॥3॥ इत्यादिसत्पर्वनिबद्धधर्मकृत्यं समग्रं समभूत् सशर्म । ....................... संसक्तसद्ध्यानकृतिप्रभावात् ॥५०॥
अथ गुरुवर्णनम्श्रीमत्तपागणमहार्णवपूर्णचन्द्र, सूरीश्वरं विजय० ॥ ५१ ॥ श्रीसूरिनायक ! तव प्रतिभोपमानं० ॥ ५२ ॥
-यावत् - पद्मा० ॥ ५८ ॥ गच्छेशो०-यावत् ॥ ६२॥ का मान्या नरनाथसंसदि भवेत् १ कः प्राणिनां धर्मतः ?, किं तिष्ठेत स्थिरमङ्गिनां? दिवि सदा के सन्ति ? किं भूधरान् ?। 33
dain Education Intermational
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238