Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 222
________________ रविवर्द्धनगणिप्रेषिता विज्ञप्तिका २०१ सूरेर्वचोऽमृतरसं सरसं निपीय विश्वे समस्तमनुजा अभवनितान्तम् । त्यक्तादराः सदमृते मनसेति मत्वा कुण्डानि तस्य नव किं बलिवेश्म जग्मुः ॥१॥ माधुर्यताजितसितां सितकान्तिशुभ्रां सूरे ! गिरं तव सुतृप्तिभृतो निपीय । मेधाविनः श्रुतिपुटैर्गणयन्ति नित्यं पेयूषमात्मनि निजे तृणतुल्यमेव ॥२॥ सूरीश ! भूरिभवसञ्चितपापपूरदुर्भेद्यसंतमसराशिविनाशकी। संसारिसत्त्वहृदयाम्बुजबोधदात्री भानुप्रभेव भवदीयसरस्वतीयम् ॥३॥ निश्शेषभव्यजनगूढपथस्थितोद्यदज्ञानदुष्टगरलं सहसाऽपहर्तुम् । वाणीमिषेण विधिना निहिता सुधेयं सूरीशितर्वदनचन्द्रमसि त्वदीये ॥४॥ नानारसस्फारपयःप्रपूर्णा संसेविता कोविदराजहंसैः । मलापही जनचित्तपद्माश्रयेव गङ्गा जयताद् गुरोगीः॥५॥ वाण्याऽभिभूता भवदीययेयं लज्जाभरात् सारसुधा सुसाधोः। प्रभो ! सुधादीधितिसाधुबिम्बमशिश्रियद् व्योग्नि विशुद्धभासा ॥६॥ सूरे ! गिरां स्वादुतयाभिभूता स्फुटं ह्रिया तेऽद्भुतया प्रणश्य । आदाय वंशस्य मुखे शलाकां सितोपला काचघटी विवेश ॥७॥ वाणीविलासांस्तव देशनायां गुरोः समाकर्ण्य समस्तभव्याः । यन्ति प्रमोदानिव नीलकण्ठा वसुन्धरायां घनगर्जिताश्च ॥ ८॥-गिरामष्टकम् । सद्धस्तिमल्लोज्वलचन्द्रशङ्खक्षीराब्धिनागाधिपतिच्छलेन । लोकत्रये श्रीगुरुराजकीर्तिः प्रोज्जम्भते श्वेतरुचिस्त्वदीया॥१॥ जगत्रयं निर्मलकान्ति सूरे ! यशस्त्वदीयं विदधद्वलक्षम् । चित्रं जनानामसितादिवर्णभेदं भिनत्ति स्म वरिष्ठशक्ति ॥२॥ स्कन्धो भवानीगुरुरंहिनाम शेषः शिखा दिक्करिणः प्रशाखाः । तद्दन्तपतिः कुसुमानि भानि सस्यं विधोमण्डलमात्मचित्ते । इति प्रतीमः प्रकटं प्रसारिभवद्यशःकल्पतरोर्मुनीश ! ॥३॥ क्षीरार्णवोलोललसढुकूला सुपुष्पदन्तोभयताडपत्रम् । स्पष्टं वहन्ती रजतोदगद्रिस्तनद्वयी पुष्करमण्डपेऽस्मिन् । सूरे ! त्वदीया नरिनर्ति कीर्तिसन्नर्तकी सुन्दररूपसम्पत् ॥४॥ कीर्तिस्त्रिमूर्तिर्भवतां त्रिलोकी गन्तुं गरिष्ठा युगपद् बभूव । सूरे ! किमेषा भुजगाधिराजकैलाशशैलेन्द्रगजच्छलेन ॥५॥ मातङ्गमुख्यो यत इन्द्रहस्ती क्षीरोदधिश्वारुकुसङ्गरङ्गः । कुरङ्गसङ्गः शशभृल्लभेत कथं गुरो ! त्वद्वरकीर्तिसाम्यम् ॥६॥ 25 दुर्वर्णके नैव न चन्द्रबिम्बे दुग्धे न हारे न सरिद्वरायाम् । नो कुन्दपुष्पे न स सूरिसिंह ! त्वत्कीर्तिकान्तौ किल शुभ्रिमा यः ॥७॥ सूरे ! त्वदीयं सुयशः खजैत्रमालोक्य दुर्जेयतरं ह्यकस्मात् । भीतो विवेशोदकदुर्गमध्यं छायाच्छलात् पार्वण इन्दुरेषः ॥ ८॥ - यशोऽष्टकम् । ॥ श्रीपूज्यलेखे १०० जातमस्ति ॥ ** - वि. म.ले. २६ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238