Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 230
________________ तपागणाधीशश्रीविजयसिंहसूरि प्रति पं० विनयवर्द्धनगणिप्रेषिता [२४] - विज्ञप्ति का। स्वस्तिश्रियाश्रितपदं विपदन्तकारी, भव्या भजध्वमिह तं महितं यथार्थः । तार्तीयिको जिनवरो नवरोगहर्ता, श्रीशंभवो विभवदो भवदोषभेदी ॥१॥ खस्तिश्रियो गृह इहेतिजितारिपुत्रश्चित्रं स्वयं जिनपतिस्तनुते जितारिः । जीयाजगज्जनसमीहितसिद्धिकर्ता, भर्ता प्रशस्तजगतां स च विश्वपूज्यः ॥ २॥ खस्तिश्रीः खस्तिसंपृक्तः स्वस्तीव खस्तिकारकः । ददातु खस्ति सर्वेषां शंभवार्हन्त आदरात् ॥ ३॥ अश्वोऽभजद् यस्य पदाब्जयुग्मं सल्लक्षणं लक्षणकैतवाद्धि । खजातिसौभाग्यकृतेऽवदातो ददातु सौख्यं स जिनो जनानाम् ॥ ४ ॥ त्रैलोक्यनाथं समवेक्ष्य वज्री भीतोऽग्रतोऽयं तुरगं खरीशः। प्रैषीद् यदंह्रिद्वितयेऽङ्कतः किं सोऽस्तु श्रिये श्रीजिनशंभवोत्र ॥५॥ तायो विचार्येति दिवानिशं मे समागमत् सूर्यविमानतः किम् ? । अत्राटनं यच्चरणेऽङ्कदम्भात् स्थिरे प्रशान्ते स जिनो मुदेऽस्तु ॥ ६ ॥ मुक्त्यङ्गनायाः करपीडनाय किं मण्डनाऽलक्तकसद्रसेन । सुशोणिमा भाति यदंहियुग्मे कृता जिनेशो भवताच्छिवाय॥७॥ पादद्वये यस्य नखा दशैव वन्दारदिगमत्त्येमुखेक्षणाय। किं दर्पणा भान्ति विशेषदीपाश्छिन्द्याजिनोऽसौख्यमसौ जनानाम् ॥ ८॥ पादद्वयी यस्य समीहितार्थदात्री भवाब्धि भविनां तरीतुम् । नौरेव साक्षात् कमनी चकास्ति सेनाङ्गजो जन्तुसुखाय भूयात् ॥ ९॥ यदंहिपद्म समवेक्ष्य पद्मा नरेन्द्रपूज्यं सततं विकासि । विमुच्य पद्म निजमन्दिरं द्रागशिश्रियत् सोऽस्तु जिनो विभूत्यै॥१० पद्माकरे यत्पदपद्मकान्त्या गत्वा जितं पद्म महातपांसि । तेपे श्रियं प्राप्तुमुदर्कदृष्ट्या जैनांहयस्तेऽसुमतां प्रसन्नाः ॥११॥ श्रीशम्भवार्हन्तनिशाकरं तं प्रणामगङ्गाधरभालपट्टे । संस्थाप्य भक्त्या त्रिजगजनानां मनोऽरविन्दानि प्रकाशयन्तम् ॥१२ ___ अथ पुरवर्णनम् - यत्रोन्नतानि प्रवराणि तीर्थकृतां गृहाणि प्रभया विभान्ति । मन्ये विमानानि सनिर्जराणां विचित्रचित्रेण विचित्रितानि ॥१३॥ यच्चैत्यशृङ्गे कलधौतकुम्भः प्रष्ठप्रतिष्ठां प्रकटीकरोति । किं फेनपिण्डः पतितोऽभ्रमार्गखिन्नार्कता? न ततोऽवदातः॥१४॥ यच्चैत्यशृङ्गस्थितहेमकुम्भं समीक्ष्य रामास्तनकुम्भयुग्मम् । नंष्ट्वा प्रविष्टं त्रपयाऽसितास्यं विधाय किं कञ्चलिकान्तराले ॥१५ यचैत्यशृङ्गोत्तमकेतुपाचँ कुम्भः स्थितो नु प्रकटप्रतिष्ठाम् । धत्ते दिवि स्वर्गिसरित्प्रतीरे किं श्वेतकुम्भो हि भृतो विमुक्तः ॥ १६ ॥ अभंकषा शंसति सत्पताका यच्चैत्यशृङ्गोपरि चञ्चलेति। आगत्य भव्याः शिवसार्थवाहं प्रासादसंस्थं जिनपं भजध्वम् ॥१७॥ यच्चैत्यमध्येऽद्भुतरूपकान्ति पाञ्चालिकां वीक्ष्य युवेति वक्ति । विद्याधरी तीर्थकरार्चनायाऽऽयाता स्वयं किं किल पुष्पहस्ता॥१८॥ वि० म.ले. २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238