Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 231
________________ २१० विज्ञप्तिलेखसंग्रह चैलेऽहतां यत्र पुरोऽलिनीलां नित्यं जना मेघघटां वदन्ति । सश्रद्धश्राद्धैः कृतकाकतुण्डधूपोत्थधूमैगंगनानगैस्तु ॥१९॥ श्रीपूज्यपादान् प्रति नन्तुमात्मभक्त्याऽऽगतानेकजनावलीढम् । यत्राद्भुतं साधुगृहं चकास्ति पोतं तरीतुं किमदो भवाब्धिम् ॥ २०॥ श्रीपूज्यपादाश्रितमार्हतानां मुक्त्यर्थिनां साधुगृहं समीक्ष्य । यत्र प्रबुद्धाः प्रवदन्ति किन्तु सर्वार्थसिद्धाख्यमिदं विमानम् ॥ २१ ॥ श्रद्धाभुजां चेद्धि भवेन्मणीनां चैतन्यमन्यच्च सुरद्रुमाणाम् । तदा क्रयातां कथमप्यम् यत् श्रद्धावतां दानसमानभावे॥२२ यदास्तिकानां समवेक्ष्य दानं सुराजनी देवकरालिकाली। चक्रे निवासं दिवि लजितेव यत्रापमानं हि सतां न वासः ॥ २३ ॥ यत्रार्हता धर्मरता विरक्ता द्विसन्ध्यमावश्यककारकाः किम् । श्रीपञ्चमाङ्गोक्तसदास्तिकानां समानभावं प्रगता विभान्ति ॥ २४ ॥ ___ यत्रास्तिका देवगुरुप्रणीतधर्मानुरक्तोभयपक्षशुद्धाः। शीलेन सीताऽर्थितदानदात्री पद्मावतारा किमुदारचित्ता ? ॥२५॥ विराजते या नगरी विशाला विचित्रवर्णा लसदर्थयुक्ता। निषेविता साधुजनैः प्रकामं विशुद्धसिद्धान्तपदावलीव ॥ २६ ॥ प्रत्यर्थिपृथ्वीदयितान्धकारसंघातविध्वंसनचित्रभानुः। प्रीणाति यस्यां वसुधाधिनाथः प्रजां स्वकीयात्मजवजितारिः ॥२७॥ विभान्ति यस्यामलसेक्षणागणाः स्वरूपसंतर्जितनिर्जराङ्गनाः । उदारगत्या जितहंसबालिका मुखारविन्दाधरितेन्दुमण्डलाः॥२८॥ यत्राङ्गनां वीक्ष्य सुराङ्गनाभिः परस्परं भेदकमिच्छतीभिः । संपूजितो नाभिरुहः स्वभक्त्या तदा निमेषा विदधे प्रजास्ताः ॥ २९ ॥ कल्याणराजत्कलशोपशोभिता रोचिष्णुरत्नैः प्रतिबद्धभूतलाः । अभ्रंकषा उत्तमशिल्पिनिर्मिताः स्फारस्फुरत्स्तम्भशतोपयुक्ताः ॥ ३० ॥ जगत्रयश्रीसुविलासगेहा विभान्ति यस्यां नरवृन्दगेहाः । सदा विहायोभ्रमणोत्थखेदात् खगा इवैते किमधोऽवतीर्णाः ॥ ३१ ॥-यमलम् । नक्षत्रमालाप्रतियातना हि निर्मात्यलं मुग्धवधूजनानाम् । विचित्रपुष्पप्रकरस्य बुद्धिं गेहाङ्गणे यत्र सुरत्नबद्धे ॥ ३२॥ यद्धय॑कुड्ये प्रतिरूपितानि मृगेक्षणानां वदनोत्पलानि । सौरभ्यलोभाद्बहुचञ्चरीका विलोक्य सोपरि संभ्रमन्ति ॥३३॥ यद्धर्म्यदीप्यन्मणिबद्धचन्द्रशालाप्रदेशे प्रतिबिम्बितं च । हारं स्वहस्तं सहसा क्षिपन्तं लातुं प्रियं स्वीयप्रिया जहास ॥ ३४ ॥ विभाति यस्यां कमनीयसालो रत्नोत्कराणां कपिशीर्षशोभी। प्रशस्यजाम्बूनदबद्धभित्तिः क्षमाङ्गनायाः करभूषणं किम् ? ॥ ३५ ॥ चकास्ति यस्यां परिखावहन्ती विस्तीर्णसालप्रतिरूपमन्तः । मणिज्वलन्निर्मलनीरपूर्णा किं कङ्कणीभूतसरिद्वरेव ॥३६॥ 30 राजते वाटिका यत्र पुष्पराजिविराजिनी । पौष्यायातयुवश्रेणी यथा नगरनायिका ॥ ३७॥ विभासते यत्र वनं कदम्बमालूरमाकन्दफलादिराजितम् । अनल्पजीवासमसौख्यकारि सचन्दनं खं किमधोऽवतीर्णन ३८ अथ विशेषतः काव्यम् - छिद्रं तु मुक्ताफलके विवाहे छत्रेषु दण्डः करपीडनं च । निस्त्रिं(स्तूं)शताऽसौ चिकुरेषु बन्धो लोकेषु नासीन्मुदितेषु यत्र ॥ ३९ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238