Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
२१३
विनयवर्द्धनगणिप्रेषिता विज्ञप्तिका समन्ततो विष्टपमण्डपोपरि विभ्राजते यद्गुणवल्लयस्तताः ।
फलन्ति नानाफलसंचयैस्तु ताः सिक्ताः प्रशंसासलिलैः सुधोज्ज्वलैः ॥ ८४ ॥ सूरीशितस्त्वद्गुणराशिभारैमहद्भिराक्रान्तसमस्तगात्रः । भोगीशितात्मीयतनूमनिद्रो यथेप्सितं चालयितुं किमेषः ।।८।। श्रीपूज्यपादैविंगतप्रमादैः सभासमक्षं जितवादिवादैः । भव्यारविन्दोत्करतीव्रपादैः खकीयशिष्योपरि सुप्रसादैः॥८६॥ श्रीतातपादैरपि तैः स्वकीयवपुःपरीवारशरीरवार्तम् । निर्विघ्नजातामलसर्वपर्वस्मयापहृद्बार्षिकपर्ववार्ता ॥ ८७॥ । शिक्षाप्रसादश्च शुभप्रवृद्धिरनेकधर्मोन्नतिकार्यसिद्धिः। इत्याद्युदन्तान् प्रवरान् समस्तान् प्रसादपत्री परिसूचयन्ती ॥८८॥
प्रसादनीया बहुमाननीया मनःप्रमोदाय शिशोः प्रसद्य ।।
___कुमुदनस्याद्भुतकौमुदीव सुमेघमालेव शिखण्डिनो हि ॥ ८९॥ - विशेषकम् । अथावधार्या प्रणतिस्त्रिसायं कृताञ्जलेमें नतमस्तकस्य । श्रीतातपादैः समये स्खशिष्यः दूरस्थितोऽप्येव सुचिन्तनीयः॥९०॥ परमगुरुविनयकरणे तत्परचित्ताः कविविनयविजयाह्वाः। विबुधवरलालकुशलाः कुशला बहुशास्त्रतत्त्वविदः॥९१ ॥ सकलगणकृत्यनिरता गणयो वरहस्तिविजयनामानः । सद्बुद्धिऋद्धिसोमा गणयो गुणरत्नरोहणमहीधराः॥९२॥ सद्भाग्योदयविजया भाग्योदयलब्धकविविजयाः । मुक्तिपुरसार्थवाहा गणयो वरमुक्तिविजयाह्वाः ॥ ९३॥ सत्यवचनसन्तुष्टा गुणपुष्टाः सत्यविजयगणयो हि । सिद्धशिलास्वच्छहृदो गणयो वरसिद्धिविजयाख्याः ॥९४॥ दर्शननिर्जितकमला गणिदर्शन विजयनामानः । गणयो रविविजयाख्याः सजनमनपद्मरविकिरणाः ॥ ९५॥ हर्षितवदना बहुयतिभक्तिकरा गणिसुहर्षविजयाह्वाः । सौम्यगुणसोमवदना जयवन्तो विजयसोमाख्याः॥१६॥ इत्यादिमुनिवराणां श्रीगुरुचरणाजयुग्मभृङ्गाणाम् । प्रणतिश्चानुप्रणतिः श्रीतातैर्निजशिशोः प्रसाद्या हि ॥ ९७॥ किं चेहत्या गणयो रविवर्द्धननामधारिणः सततम् । मुनिऋद्धिवर्द्धनाख्यो रूपादिमवर्द्धन-धनवर्द्धनको ॥९८॥ इत्यादिकाः प्रशमिनः सकलः संघश्च तातपादाब्जम् । प्रणमन्ति परमभक्त्या कृताञ्जलयोऽवनिनिहितशिरोब्जाः॥९९॥ श्रीतातपादनाम्ना नम्यन्ते प्रतिदिनं जिनाः शिशुना । शिष्यस्तन्नतिसमये श्रीतातैश्चेतसि विधेयः ॥१०॥ चातकवजलवाहं विषसूचकवन्निशाधिनाथं च । द्वन्द्वचरवदादित्यं श्रीतातं स्मरति बालोऽयम् ॥ १०१॥ 20 गजवद्विन्ध्याद्रिवनं कलकण्ठ इव सहकारमादरतः । तरुराशिरिव वसन्तं श्रीतातं स्मरति बालोऽयम् ॥ १०२॥ बिन्द्वर्धवर्णमात्रादीर्घहखविपरीतसंयुक्तम् । मौादुक्तं शिशुना श्रीतातैस्तत्तु सहनीयम् ॥ १०३ ॥
श्रीगुरुवरविज्ञप्तिः क्षीरकण्ठलिवीकृता । विजयदशमीघस्रे कुरुतामिति मङ्गलम् ॥ १०४॥
॥ संवत् १७०४ वर्षे ॥ श्रीः॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 232 233 234 235 236 237 238