Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विनयवर्द्धनगणिप्रेषिता विज्ञप्तिका
२०७ नवप्रभावना खण्डपुटपूगीफलादिकैः । साधर्मिकाणां वात्सल्यं पक्वान्नैर्विविधैः सह ॥ ५० ॥ इत्यादिसत्पर्वनिबद्धधर्मकृत्यं समग्रं समभूत् सशर्म । श्रीतातपादांहिसरोजयुग्मसंसक्तसद्ध्यानकृतिप्रभावात् ॥५१॥
अथ श्रीविराजमानतपागच्छाधिराजश्रीविजयसिंहसूरीश्वरवर्णनम् - श्रीविजयदेवसूरिपट्टाम्भोधिनिशाकरम् । श्रीविजयसिंहसूरि स्तविकर्मी करोम्यहम् ॥ ५२ ॥
सदोन्नतिः श्रीतपागच्छपूर्वाचलोच्चचूलाग्रसहस्रधामा । भव्यारविन्दान् कुरुते स्मितास्यो जीयात् स सूरिविजयादिसिंहः ॥ ५३॥ पारम्परीणाम्यगणाधिपानां धर्मोपदेशो दुरितं समग्रम् । दीदांसते शोभुशुभो हि येषां जीयात् स सूरिविजयादिसिंहः ॥५४॥ त्वदास्यवाक्सारसुधां निपीय चन्द्रामृतं यद्विबुधा मुधाधुः । तदूर्द्धचञ्चच्छितिलक्ष्मदम्भाच्छेवालवल्ली समभूत् ततः किम् ? ॥ ५५ ॥ तपोगणेशस्य समीक्ष्य वक्त्रं किं वा न वाहं विमलप्रभावः। परीक्षितुं स्पष्टमितीन्दुरकव्याजेन हस्ते मुकुरो(रं) व्यधात् किम् ? ॥ ५६ ॥ वाचंयमाधीश ! तवासमानदेदीप्यमानास्यरुचं निशम्य ।
गात्रे निशायां निशितामुवाह चन्द्रोऽङ्कदम्भादसुखोदयात् किम् ? ॥ ५७ ॥ विनिर्ममे वा विधिना त्वदास्यं सुधां सुधांशोः किमु मध्यगां द्राक् । प्रगृह्य सम्यक्कथमन्यथेदं कलङ्करन्ध्र शशिनः प्रभो ! स्यात् १ ॥ ५८॥ त्वद्वक्त्रशोमां समवेक्ष्य राजाऽतिविस्मितः स्माटति किं न वास्ति । तद्वस्तु यत्सन्निभतां क्षमायां किमतीतीक्षितुमीश ! शङ्के ॥ ५९ ॥
धाताऽवधार्यासमदीधितीन्दुत्वद्वक्त्रयोः सन्निभतां खचित्ते ।
बिम्बे किमिन्दोरुपलक्षितुं चेद् वक्त्रेऽङ्कदम्भादुपलक्षणं हि ॥ ६० ॥ पदि प्रमोदेन निशेशबिम्बं नालीकयुग्मं वहति प्रसन्नम् । तदैति शिष्टां कथमप्यतुच्छनेत्रद्वयं त्वद्वदनोपमां च ॥६१॥
प्रामोति चन्द्रः सहयोगिभावं तवाननस्य प्रतिमासभिन्नः । संपूर्णमूर्ति विषमैस्तपोभिः कुहूष्वदृश्येन कृशां विधी(धा)य ॥ ६२॥
॥इति मुखाष्टकम् ॥ संविस्तरन् यस्य यशोनदीशो भूमण्डलं वा विमलीकरोति । बिभ्राजते यत्र हिमांशुबिम्ब श्वेतावदातोत्पलवन्नितान्तम् ॥ ६३ ॥ तपागणाधीशयशस्कलापपवित्रतां प्राप्तुमिव प्रचण्डः ।
सुराद्विपः स्वाति तवातिकान्तः सदा सिताङ्गोऽपि लिलिम्प नद्याम् ॥६४॥ यद्यशःक्षीरपाथोधौ शशाङ्ककरसुन्दरे । भ्रमराधनसंकाशमाकाशं शैवलायते ॥ ५ ॥ राजते यद्यशोराशि[] शशाङ्क इव पावनः । प्रीणयन् लोकसंदोहान् समुह्योतितविष्टपः ॥६६॥ यत्कीर्त्तिव्रततेोममण्डपे तारकन्ति हि । विस्तृतायाः प्रसूनानि चन्द्रबिम्बायते फलम् ॥ ६७ ॥ यत्कीर्त्या धवलीभूतं विष्टपत्रितयं यदा । तदादि शेषदिग्दन्त्यादयो जाताः सिताः ननु ॥ ६८॥
यत्कीर्तिर्वजिभिस्तेन चरन्ती गगनाङ्गणे । व पिता सितै रत्नैरुपेतं तारकैर्नभः ॥ ६९ ॥ कुलवधूरिव या परमा सती सकलदक्षजनैरिह मन्यते । पणवधूरिव साऽपि निरङ्कुशा चरति कीर्तिवधूर्नु यदीयका ॥७॥
॥ इति यशोऽष्टकम् ॥
25
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238