Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
२०६
विज्ञप्तिलेखसंग्रह
यत्राहतास्तत्त्वविदो वदान्या उदारचित्ता निवसन्ति सन्तः ।
सभ्या महेभ्या बहुदत्तवित्ताः किमून्नता जङ्गमकल्पवृक्षाः ॥ १८॥ यत्रास्तिकानां समवेक्ष्य दानं वृन्दारकानोकहपतिरेव । स्वर्गे निवासं किमु तत्र चक्रे यत्रापमानं हि सतां न वासः॥१९॥ विराजते या नगरी गरीयसी विशिष्टधम्मिष्ठजनरलङ्कृता । सुतातपादप्रबलप्रभावतोऽसुखेति दोषादिभयादवीयसी॥२०॥
स्पर्द्धा जनानां तु मिथोऽस्ति यत्र शक्तोऽहमित्युन्नतधर्मकृत्ये ।
___ भूयिष्ठसद्भूषणभूषितानां लक्ष्मीश्रितानां पुरुषोत्तमानाम् ॥ २१ ॥ चकास्ति यत्राद्भुतयौवनेन तद् यौवनं विश्वमनोहरं यत् । समीक्ष्य देवप्रमदा मदेन न्वद्यापि नायाति मनुष्यलोके ॥२२॥ यद्धर्म्यकुड्ये प्रतिरूपितानि मृगेक्षणानां वदनोत्पलानि । सौरभ्यलोभाद्बहुचञ्चरीका विलोक्य सद्मोपरि संभ्रमन्ति ॥२३॥
यत्र चौर्यविनिर्मुक्ते लोललोचनविभ्रमैः । मनांसि केवलं यूनां हरन्ति हरिणीदृशः ॥ २४ ॥
लक्ष्मीवन्तो निरता मर्यादायां गभीरतायुक्ताः । शुद्धहृदयाः सुवृत्ता नदीशवन्नागरा यत्र ॥२५॥ यत्र प्रजापालनतत्परोऽस्ति क्षितीशिता क्षत्रियवंशदीपः । सन्न्यायमार्गागतवित्तकोशो विपक्षभेदी किल रामचन्द्रः॥२६॥
मन्दा अकार्यकरणे परस्त्रीदर्शनेऽन्धकाः । मूकाश्च परदोषोक्तावसन्तुष्टा गुणग्रहे ॥ २७॥ पापेभ्यो भीरुका यत्र लोका लब्धा यशोऽर्जने । निःशकाः पङ्कसंहारे दाने व्यसनिनस्तथा ॥२८॥-यमलम् । मुक्ताफलेषु हि च्छिद्रं वीवाहे करपीडनम् । मारिः शारिषु न(नो?) लोके कुसुमेषु च बन्धनम् ॥ २९॥ दण्डश्छत्रे तथा चैत्ये खड्ने निस्त्रिंशता सृता । मुरुजेषु चपेटादि जडत्वं यत्र पुष्करे ॥३०॥-यमलम् । धनदा धनदा यत्र मानवा मानवा अपि । स्त्रियोऽपि हि सदा गौर्यः पुरुषाः पुरुषोत्तमाः ॥ ३१॥ ईश्वरा ईश्वरा एव शक्तिमन्तो यशोऽर्जने । कवयः कवयः कामं दृश्यन्ते बहवो नराः ॥३२॥
सदने सदने सन्ति कमलाः कमलास्तथा । विशिष्यते कथं तन्न पुरं स्वर्गिपुरादिह ॥ ३३॥ सौवर्णवप्रो रचनावलीढो रत्नावलीनां कपिशीर्षशोभी। यन्नास्ति कर्णाभरणं किमेष पृथ्वीवशाया जगदुत्तमायाः॥३४॥ १ मध्ये क्षितिप्रष्ठपुरावतंसे कृष्णादिकोहाख्यपुरे प्रतीते ।श्रीतातपादोदकजन्मरेणुपुण्यीकृते श्रीमति तत्र वये ॥३५॥
सश्रद्धश्राद्धसंदोहात् भूरिभूरिविभूषितात् । श्रीगुरुनाममत्रेण सौख्यसौभाग्यसंयुतात् ॥ ३६ ॥ वापीवप्रविहारादिपदार्थसार्थराजितात् । अपूर्वस्वर्गसादृश्यात् तिरवाडापुरात् ततः ॥ ३७॥
अथ समाचार:श्रीगुरुचरणद्वन्द्वपुण्डरीकरजस्कणः । हर्षोत्कर्षभराद् भूरि रोमोद्गमशरीरभाक् ॥ ३८॥
संयोजितकरकमलः सूर्यमितावर्त्तवन्दनेनैवम् । वन्दित्वा सप्रणयं सोत्कण्ठं सरणरणकं च ॥ ३९ ॥ ___धात्रीतलमिलन्मौलिनताङ्गो भक्तिभासुरः । विज्ञप्तिकां वितनुते शिष्यो विनयवर्द्धनः॥ ४० ॥ विरोचने दिग्रमणीयरामावक्त्राण्यथो मण्डयतीव रक्ते । मुदा करैः स्वस्य च कुकुमाभैरारूढपूर्वाचलशृङ्गभागे ॥४१॥ प्रहण्यमाने रविणा निशायास्तमोभरे दीधितिभिर्घनाभे। श्यामाधिनाथं हसता वशायाः सङ्गात्फलं प्राप्तमिदं त्वयेति॥४२॥ यथाऽत्र कृत्यं प्रतिवासरं तु विराजितायां बहुसभ्यमत्त्यैः । विधीयते श्रीपरिशिष्टपर्वसुवाचनं सच्चतुरैः सभायाम् ॥४३
सिद्धान्तादिकशास्त्राणां पठनं पाठनं तथा । योगोद्वहनमित्यादि धर्मकर्म मुदाऽभवत् ॥४४॥ संप्रति जायते चान्यत् तातपादप्रसादतः । पर्वापि वार्षिकं सर्वपर्वगर्वापहारकम् ॥४५॥
तत्रोपतस्थे सर्वत्र पौषधिकस्य पोषणम् । अमारिपटहोद्घोषपापसन्तापवारणम् ॥ ४६॥ मासार्द्धमासक्षपणाष्टमोद्यदष्टाहिकाषष्ठतपोऽभितप्तम् । उपासकैः सप्तदशप्रभेदैर्जिनेन्द्रसुनानविधेर्विधानम् ॥ ४७ ॥
अर्थिसार्थः कृतार्थत्वमवाप प्रार्थिताप्तितः । इभ्येभ्यः श्राद्धवर्गेभ्यः श्राद्धीभ्योऽपि तथा धनम् ॥ ४८॥ कल्पितानल्पसंकल्पपूरणे कल्पशाखिनः । वाचना कल्पसूत्रस्य नवक्षणनवक्षणैः ॥ ४९ ॥
Jain Education Intemational
www.jainelibrary.org
Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238