Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 225
________________ २०४ विज्ञप्तिलेखसंग्रह दीर्घान् हन्ति ? बलात् प्रमोदकरणे कः पङ्कजानां स्मृतः १, कुम्भो मङ्गलमातनोति पथिकप्रस्थानके कीदृशः १॥६३॥ प्रश्नाधक्षरसंग्रहाद् भवति यो वाचंयमाधीश्वरः, उद्यत्स्वीयकुलाम्बराम्बरमणि श्रीगौतमस्खामिनम् । लब्ध्या श्रीविजयादिसेनगणभृत्पट्टाब्धिरात्रीश्वरं, तं श्रीपूर्वकमादरेण । भविनां सौभाग्यदं संस्तुवे ॥ भविका भावाद्भजध्वं जनाः!॥६४॥ कीदृशाः पुद्गला जैने ? का शम्भोः प्राणवल्लभा ? । को वैरी पञ्चबाणस्य प्रश्नाधक्षरसंग्रहात् ॥ श्रीविजयदेवसूरेः सा माता या भवेदहो ॥६५॥ 'रूपाई'- षट्पदी । महाव्रती भवेत् कस्तु ? कोऽप्सराप्राणवल्लभः । कीदृग् मेरुश्च को निष्ठः प्रश्नाद्यक्षरसंग्रहात् ॥ श्रीविजयदेवसूरेः स पिता यो भवेदहो ॥६६॥ 'साहस्थिरों' - षट्पदी । प्रशस्ता साधुधर्मे का ? सार्वभौमश्रियां नव । के सन्ति भुवि कीदृक्षा विजयदेवसूरयः ॥ ६७॥ कृपानिधयः' -व्यस्तसमस्तजातिः । किं श्रवणप्रियं ? मार्गे का दुष्टा ? का प्रिया हरेः १ । कृपणास्येऽक्षरं किं १ का नराणां वल्लभाः कलौ ? ॥ श्रीमन्तः कीदृशाः सन्ति ? विजयदेवसूरयः ॥६८॥- 'गम्भीरमानसाः' । । विदितो यशसा सारनमाया जनता विभो! । भो वितानजयामानरसासा शयतो दिवि ॥ ६९ ॥ - क्याराबन्धः । शीलेन विद्या विभवेन पूर्व भाग्येन ये सूरिंगणा अभूवन् । सूरीश्वरश्रीविजयादिदेवदृष्टे त्वयि प्रष्ठगुणेन दृष्टाः ॥७॥ विजय देवताधीश ! विजय देवसंस्तुत ! । विजय देवसूरीन्द्र ! विजय 'देवपाठक ! ॥ ७१॥ अगण्यपुण्यपुण्याढ्यो भाग्यसौभाग्यभासुरः । श्रीसृरिभूरिसूरीशः प्रसन्नीभवताच्छिशौ ॥ ७२ ॥ तैस्तातपादैर्विगतप्रमादैः प्रगल्भपाथोजसहस्रपादैः । सवारिजीमूतसदृक्षनादैः स्वकीयशिष्योपरि सुप्रसादैः ॥ ७३ ॥ ० श्रीपूज्यपादैर्निजकीयकायपरिच्छदारोग्यनिवेदिनी मे । प्रसादपत्री स्खशिशोः प्रसद्य प्रसादनीया प्रभुभिः प्रकृष्टैः॥७४॥ अथावधार्या प्रणतिस्त्रिसन्ध्यं कृताञ्जलेमें नतमस्तकस्य । तथा परेषां मुनिसत्तमानां प्रसादनीया सततं प्रसन्नैः ॥७५॥ ॥ इति विज्ञप्तिका ॥ १ देवपाठक: गुरु: एतावता स्वं गुरुः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238