________________
२०४
विज्ञप्तिलेखसंग्रह दीर्घान् हन्ति ? बलात् प्रमोदकरणे कः पङ्कजानां स्मृतः १, कुम्भो मङ्गलमातनोति पथिकप्रस्थानके कीदृशः १॥६३॥
प्रश्नाधक्षरसंग्रहाद् भवति यो वाचंयमाधीश्वरः,
उद्यत्स्वीयकुलाम्बराम्बरमणि श्रीगौतमस्खामिनम् । लब्ध्या श्रीविजयादिसेनगणभृत्पट्टाब्धिरात्रीश्वरं, तं श्रीपूर्वकमादरेण । भविनां सौभाग्यदं संस्तुवे ॥
भविका भावाद्भजध्वं जनाः!॥६४॥ कीदृशाः पुद्गला जैने ? का शम्भोः प्राणवल्लभा ? । को वैरी पञ्चबाणस्य प्रश्नाधक्षरसंग्रहात् ॥
श्रीविजयदेवसूरेः सा माता या भवेदहो ॥६५॥ 'रूपाई'- षट्पदी । महाव्रती भवेत् कस्तु ? कोऽप्सराप्राणवल्लभः । कीदृग् मेरुश्च को निष्ठः प्रश्नाद्यक्षरसंग्रहात् ॥
श्रीविजयदेवसूरेः स पिता यो भवेदहो ॥६६॥ 'साहस्थिरों' - षट्पदी । प्रशस्ता साधुधर्मे का ? सार्वभौमश्रियां नव । के सन्ति भुवि कीदृक्षा विजयदेवसूरयः ॥ ६७॥
कृपानिधयः' -व्यस्तसमस्तजातिः । किं श्रवणप्रियं ? मार्गे का दुष्टा ? का प्रिया हरेः १ । कृपणास्येऽक्षरं किं १ का नराणां वल्लभाः कलौ ? ॥
श्रीमन्तः कीदृशाः सन्ति ? विजयदेवसूरयः ॥६८॥- 'गम्भीरमानसाः' । । विदितो यशसा सारनमाया जनता विभो! । भो वितानजयामानरसासा शयतो दिवि ॥ ६९ ॥ - क्याराबन्धः । शीलेन विद्या विभवेन पूर्व भाग्येन ये सूरिंगणा अभूवन् । सूरीश्वरश्रीविजयादिदेवदृष्टे त्वयि प्रष्ठगुणेन दृष्टाः ॥७॥
विजय देवताधीश ! विजय देवसंस्तुत ! । विजय देवसूरीन्द्र ! विजय 'देवपाठक ! ॥ ७१॥
अगण्यपुण्यपुण्याढ्यो भाग्यसौभाग्यभासुरः । श्रीसृरिभूरिसूरीशः प्रसन्नीभवताच्छिशौ ॥ ७२ ॥ तैस्तातपादैर्विगतप्रमादैः प्रगल्भपाथोजसहस्रपादैः । सवारिजीमूतसदृक्षनादैः स्वकीयशिष्योपरि सुप्रसादैः ॥ ७३ ॥ ० श्रीपूज्यपादैर्निजकीयकायपरिच्छदारोग्यनिवेदिनी मे । प्रसादपत्री स्खशिशोः प्रसद्य प्रसादनीया प्रभुभिः प्रकृष्टैः॥७४॥ अथावधार्या प्रणतिस्त्रिसन्ध्यं कृताञ्जलेमें नतमस्तकस्य । तथा परेषां मुनिसत्तमानां प्रसादनीया सततं प्रसन्नैः ॥७५॥
॥ इति विज्ञप्तिका ॥
१ देवपाठक: गुरु: एतावता स्वं गुरुः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org