________________
तपागच्छाचार्यश्रीविजयसिंहसूरि प्रति विनयवईनगणिप्रेषिता
[२३] विज्ञप्ति का -
खस्तिश्रियं श्रीजिनराट् सिषेवे शान्तीशिता पञ्चमसार्वभौमः । षट्खण्डभोक्ता पुरुषोत्तमो हि सौख्यं विधत्तां स शिवकरोऽयम् ॥१॥ यदंहिपद्मं भजति स्म...... पशुत्वतो रक्ष विभो ! मृगो माम् । इत्यात्मना विज्ञपयन्नितान्तं जीयाजिनः सर्वजनीन एषः ॥२॥ मिथोऽन्यसत्त्वोद्भवभीतिनश्यच्छरीरिमात्राभयदं यदंहिम् । विचार्य भीतो हरिणो हरेः किमगादयं लक्ष्ममिषाच्छ्रिये स्तात् ॥ ३॥ यद्वक्त्रकान्त्या विजितो मृगाङ्कः परास्यतौल्याप्तिकृते कुरङ्गम् । प्रैषीद यदंहिद्वितयेऽङ्कतः किं जगत्रयेशोऽस्तु विभूतये सः ॥४॥ खस्तिश्रियालीढमनूननाकिसंस्तूयमानं दितविश्वमानम् । श्रीपार्श्वनाथं क्षितिनाथपूज्यं सन्तः ! श्रयध्वं गुणराशिगेहम् ॥ ५॥ वामेयदेवेह तवात्मकान्त्या किमिन्द्रनीलो विजितः स्वसाम्यात् ।
पाषाणभावं भजति स्म तीव्र चिकीर्षया कामितदन्तपो हि ॥६॥ सुपार्थपार्थ स्मरताष्टकर्मीलतोग्रपार्थ हृदि पार्श्वनाथम् । यत्पादपद्मं फणभृगुणज्ञः पूर्वोपकारस्मरणादसेवीत् ॥७॥"
खस्तिश्रिये स्ताजिनवर्द्धमानः श्रीवर्द्धमानो दलितापमानः । सिद्धार्थवन्मङ्गलमालिकां यः सिद्धार्थपुत्रः कुरुते स्मृतः सन् ॥ ८॥ श्रीत्रैशलेयस्त्रिजगज्जनानामभ्यर्चनीयो जयताजिनेन्द्रः । बाल्येऽपि योऽकम्पयदुग्रतेजाः स्वर्णाचलं तत्क्षणमेव लीलया ॥९॥ आप्तत्रयीं चेतसि तां निधाय रत्नत्रयीं किं जगतस्त्रयीं किम् । ब्रह्मत्रयी कि त्रिपदी किमिष्टदृष्टित्रयीं किं जगदर्चनीयाम् ॥१०॥ खस्तिश्रियां वृद्धिरशेषसिद्धिरनुत्तरद्धिर्विपुला च बुद्धिः । यदीयसत्पादसरोजसेवनात्(?) सोऽस्तु श्रिये श्रीजिनवर्द्धमानः ॥ ११ ॥
अथ नगरवर्णनम् - यत्रार्हसां संप्रति मन्दिराणि प्राश्चत्सुधामिर्धवलीकृतानि।अभ्रंकषोच्चैश्शिखराणि भान्ति कैलाशकूटानि विभासुराणि॥१२॥ यत्राप्तगेहं जिनमूर्तियुक्तं ध्वजाञ्चलेनाह्वयतीति भव्यान् । मोक्षाग्रमार्ग जयति प्रतीतं भजध्वमेनं मरुताचलेन ॥ १३॥ यत्रोचसर्वज्ञमनोज्ञवेश्मशृङ्गे समालोक्य सुवर्णकुम्भम् । वदन्त्यहो! सर्वजनाः परस्परमसौ स्थिरीभूतरविः किमत्र ॥१४॥
सद्मानि श्रीजिनेशस्य विमानानीव नाकिनाम् । भ्राजन्ते यत्र वादित्रनिर्घोषैः कलितान्यलम् ॥१५॥ यत्रोन्नता साधुसमा विभाति द्रव्यव्ययेनास्तिकनिर्मिता हि । पापठ्यमानागमशब्दपूर्णा सद्राजधानीव सुधर्मराज्ञः॥१६॥
श्रीप्राज्यरत्नालिविनिर्मितानि विचित्रचित्रैरतिसुन्दराणि । कामं गृहाणीव सुधाशनानां विभान्ति यस्यां जिनमन्दिराणि ॥ १७ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org