Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
तपागच्छाधिपतिश्रीविजयदेवसूरि प्रति पं० विनयवईनगणिप्रेषिता
[२२] - विज्ञप्ति का -
खस्तिभियो यान्ति सदाऽतिपुष्टिं यदीयविश्वाद्भुतनामजापात् । जीमूतराशेरिव वल्लिमाला सोऽस्तु श्रिये श्रीजिनशान्तिनाथः ॥१॥ स्वस्तिश्रियो यं जिनसार्वभौममशिश्रियन् विश्वविभूतिगेहम् । शान्ताशिवः सज्जनशान्तये स्तात स शान्तिकर्ता जिनशान्तिनाथः॥२॥ भ्राजिष्णुशोभाभरभासमानं मोहान्धकारोत्करभानुकल्पम् ।
पादाम्बुजं यस्य विराजतेऽलं श्रीशान्तिनाथः शिवशर्मणे सः॥३॥ पार्श्वः पार्श्वमहापार्थो विश्वविश्वेश्वरो जिनः । कर्मवल्लीछिदा पार्श्वः पायात् संसारतो जनान् ॥४॥ शीर्षे सप्त स्फटा यस्य छत्राणि भान्ति सप्त किम् । श्रेयसे भूयसे भूयात् सप्तभयजयाजिनः ॥ ५॥ वामेयकेवलादर्शसंक्रान्तविष्टप! प्रभो!। अमेयगुणरत्नानां रत्नाकर ! चिरं जय ॥६॥ शीर्षसर्पमणिज्योतिर्नीलरत्नसमप्रभः । विद्युद्विद्युत्सपानीयधाराधर इवोन्नतः ॥७॥ - युग्मम् । स्वस्तिश्रीवर्द्धमानोऽस्तु वर्द्धमानो जिनेश्वरः । यशोवृद्ध्यै वर्द्धमानो न वर्द्धमानराजितः ॥ ८॥ स्वस्तिश्रीसंश्रितो देयात् सौख्यसौभाग्यसंपदम् । महावीरो महावीरो दुष्टदौर्भाग्यपर्वते ॥९॥ महावीरजिनाधीशो महावीरपराक्रमः । कुलाम्बरमहावीरो महावीरवरस्वरः ॥१०॥ ज्ञातनन्दन ! सर्वत्रप्रज्ञातनन्दनश्चिरम् । विज्ञातनन्दनाथेन सुज्ञातनन्दनः प्रभो ! ॥११॥-युग्मम् । त्रैशलेयो जिनो जीयादनल्पकल्पितार्थदः । बाल्येऽप्यकम्पयन्मेकै लीलया यो बलान्वितः॥१२॥ तान् प्रणम्य जिनाधीशान् सुरासुरनतक्रमान् । चन्द्रोज्वलयशोवातान् सर्वसंपत्तिकारकान् ॥ १३ ॥
अथ पुरवणेनम्विराजते यत्र जिनाश्रयाली संसारसिन्धाविव पोतपतिः ।
निर्वाणसौधाश्रयणाय जाने प्रोत्तुङ्गनिःश्रेणिरकारि भव्यैः ॥ १४ ॥ प्रासादा जिनराजस्य द्योतन्ते यत्र भूतले । दातारः कल्पितार्थस्य मन्दारा इव नन्दने ॥१५॥
जिनालयाः स्फाटिकसाश्मबद्धा भूमण्डले यत्र विभान्ति रम्याः ।
राजिस्थिताः सज्जनवर्णनीयाः सुवृत्तताशालिन उच्चतुङ्गाः ॥ १६ ॥ समानि श्रीजिनेशस्य विमानानीव नाकिनाम् । भ्राजन्ते यत्र वादित्रनिर्घोषैः कलितान्यलम् ॥ १७ ॥
श्रीमन्जिनवरेन्द्रस्य प्रासादाः सादभेदिनः । यशःस्तम्भा इवाभान्ति कारकाणां महानृणाम् ॥१८॥ विराजते या नगरी विशाला विचित्रवर्णा लसदर्थयुक्ता । निषेविता साधुजनैः प्रकामं विशुद्धसिद्धान्तपदावलीव ॥१९॥ यत्रोन्नता साधुसमा विभाति द्रव्यव्ययेनास्तिकनिर्मिता हि । पापठ्यमानागमशब्दपूर्णा सद्राजधानीव सुधर्मराज्ञः ॥२०॥
यत्राहतास्तत्त्वविदो वदान्या उदारचित्ता निवसन्ति सन्तः । सभ्या महेभ्या बहुदत्तवित्ताः किमून्नता जङ्गमकल्पवृक्षाः ॥ २१॥ स्पर्द्धा जनानां तु मिथोऽस्ति यत्र शक्तोऽहमित्युन्नतधर्मकृत्ये । भूयिष्ठसद्भूषणभूषितानां लक्ष्मीश्रितानां पुरुषोत्तमानाम् ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238