Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 219
________________ 5 20 विज्ञप्तिलेखसंग्रह यद्वीर्यतत्रस्त इव स्वचित्ते रत्नाचलः किं विजहार दूरम् । स्थानं सुगुप्तं मनुजैरदृश्यं श्रीमत्तपागच्छपतिः स जीयात् ॥ ७३ ॥ उदारतां यस्य निरीक्ष्य वीक्ष्यापन्ना इवानन्दिनिभावमन्याम् । ययुर्दशापि त्रिदिवं सुरद्रुमाः श्रीमत्तपागच्छपतिः स जीयात् ॥ ७४ ॥ यद्बुद्धिसंभारपराभिभूतः पलायितः सर्वसुपर्वसूरिः । शून्येऽन्तरिक्षे भ्रमतीव बाढं श्रीमत्तपागच्छपतिः स जीयात् ॥७५॥ निर्घौतकैलाशसधर्मधामा प्रकाशते यस्य यशः शशाङ्कः । विश्वेऽत्र विध्वस्ततमो वितानः श्रीमत्तपागच्छपतिः स जीयात् ॥ ७६ ॥ एवमनेकविवेकिभिरनिशं संस्तूयमानपादानाम् । भुवनत्रितयप्रसन्ननिर्मलतरवर्णवादानाम् ॥ ७७ ॥ सजलाम्बुदनादानां विनिर्जितानेकवादिवादानाम् । निरतिचारचरित्राचरणध्वस्तप्रमादानाम् ॥ ७८ ॥ 10 गतसकलविषादानां सर्वत्र प्राप्तविजयवादानाम् । जितमारोन्मादानां श्रीमत् श्रीतातपादानाम् ॥ ७९ ॥ कोऽपि प्रसादलेशः सौववपुः पाटवादिवाचालः । आनन्दयिष्यति शिशुः स्वान्तमधो भानुरिव कमलम् ॥ ८० ॥ तेन प्रसद्य सद्यः प्रसादनीयः प्रसन्नवदनैः सः । प्रतिसार्थं शिशुमानप्रमोदसंपत्तयेऽभ्यधिकम् ॥ ८१ ॥ किंच शिशोरुपवैणवमवधार्या वन्दना जगद्वन्यैः । श्रीमद्वीर जिनेश्वरपट्टोदयभूधरादित्यैः ॥ ८२ ॥ स्वप्रतिभासन्तर्जितधिषणाः श्रीलाल कुशल गणिविबुधाः । श्रीतातचरणसेवारसिकाः श्रीहस्तिविजयाख्याः ॥८३॥ 1s अनुपमबुद्धिनिधाना गणयः श्रीऋद्धिसोमनामानः । गजविजयाभिवगणयो गणयः पुनरुदयविजयाश्च ॥ ८४ ॥ मुक्तिविजयगणयो गणिगुणविजयश्चापि जीतविजयगणिः । सिद्धिविजयगणिनामा सत्यविजयनामगणयश्च ॥ ८५ ॥ इत्यादिसाधुसाध्वीप्रमुखाणां तातचरणभक्तानाम् । नत्यनुनती प्रसाद्ये श्रीमत्तातैः प्रसादपरैः ॥ ८६ ॥ किंचात्रत्या अपि च गणयः कनकादिविजयनामानः । कमलादिविजयगणयो जयविजय गणयश्च ॥ ८७ ॥ भाविगणिर्जस विजयो मुनी तथाणंद विजय-गुणविजयौ । ज्ञानविजयगणिनामा लक्ष्मीविजयस्तथा च मुनिः ॥ ८८ ॥ श्रीविजय - धीरविजयौ मुनी तथा ऋद्धिविजय- मेरुविजयौ च । मानविजय-मतिविजयौ रविविजय- दयाविजयगणी ॥ ८९ ॥ लब्धिविजयगणिनामा सुवृद्धि-नय-मुक्ति-भक्तिविजयाश्च । रङ्गविजय - नेमिविजयाऽऽणन्द विजय- कुशल विजयाद्याः ॥ ९० ॥ महिमाश्रीवरगणिनी सौभाग्यश्रीस्तथा च वरसाध्वी । राजश्रीत्यभिधाना सुमतिश्रीर्नाम साध्वी च ॥ ९१ ॥ इत्येवं यति-यतिनीसमुदायोऽत्रत्यसकलसंघश्च । श्रीतातचरणचरणाम्बुरुहयुगं नंनमीतितमाम् ॥ ९२ ॥ 30 श्रीतातपादनाम्ना श्रीजिनपतयः सदा प्रणम्यन्ते । शिशुरपि तन्नतिसमये श्रीतातैश्चेतसि विधेयः ॥ ९३ ॥ अकृशकृपारसकोशैः श्रीतातैः सर्वदा गतविषादैः । हितशिक्षणादि सर्वं कृत्यभरं च प्रसाद्यं मे ॥ ९४ ॥ यत्किंचिदिह क्षूणं लिखितं रभसेन भवति तत्सर्वम् । क्षन्तव्यं श्रीयुक्तैस्तातपदैः शमरसाम्बुधिभिः ॥ ९५ ॥ कोशीकृत करकमलो भूमितलन्यस्त मस्तकः सततम् । शिष्याणुकनकविजयो विशेषतो नमति सद्भक्त्या ॥ ९६ ॥ आश्विनस्य सिते पक्षे पूर्णिमास्यां लसत्तिथौ । मया सद्भक्तचित्तेन लेखोऽलेखीति मङ्गलम् ॥ ९७ ॥ 25 १९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238