Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 216
________________ तपागच्छपतिभट्टारकश्रीविजयप्रभसूरि प्रति पं० लावण्यविजयमणिप्रेषिता [२०] - विज्ञप्ति का । - खस्तिश्रीः कमनीयमंहिकमलं कल्याणकारस्करोत्कन्दोत्कन्दलनैकनव्यदकमुझख्यप्रभावाङ्कितम् । देवेन्द्रा दिविषद्गणैः परिवृताः सर्वेऽपि सेवां व्यधुर्यस्य श्रीत्रिजगप्रमोस्स दिशतात् श्रेयो युगादीश्वरः ॥१॥ स्वस्तिश्रीः प्रथमप्रभोः पदपयोजन्मद्वयीमद्वया, ........"मचलखभावमतुलं संत्यज्य सुस्थैर्यतः। । भव्याम्भोजवनप्रबोधतरणेः श्रीनाभिपृथ्वीपतिप्रोद्दामान्वयवाहिनीपतिपयःपूरत्रियामापतेः ॥२॥ खस्तिश्रीव्रततीव पादपवरं गौरीव भूतेश्वरं, दाशार्ह कमलेव सत्कुलवधूः स्वप्राणनाथं यथा । नीतिायधुरंधरं वसुमतीनाथं यथा संश्रयेत्, भर्तुर्यस्य पदाम्बुजं श्रितवती हर्षप्रकर्षात् तथा ॥३॥ खस्ति क्षीरनिधेः सुतां तनुमतां स श्रीयुगादीश्वरः, कल्याणगुमवारिदो वितनुतां विश्वत्रयीवत्सलः । यस्य प्रौढपदाम्बुजन्मयुगलं त्रैलोक्यलक्ष्मीगृहं, सेवन्ते वककल्मषक्षयक्रते सन्तः समग्रा अपि॥४॥ खस्तिश्रीः सकलत्रिलोकतिलकं श्रीनाभिभूपोद्भवं, भव्यालीपरिचिन्तिते हितविधौ सत्कामकुम्भप्रभम् । संसारार्णवनीरपूरनिपतजन्तुव्रजोत्तारकं, सद्योगीन्द्रमनःसरोजविलसद्भुङ्ग सदैवाभजत् ॥५॥ स्वस्तिश्रियं कलयतात् कलितो गुणौधैः, श्रीनाभिभूपतिभवो भवभीतिहर्ता । सद्भावनाकमलिनीविपिनावबोधोद्गच्छत्सहस्रकिरणः प्रथमप्रभुर्वः ॥ ६॥ खस्तिश्रियामद्भुतवासगेहं, संतप्तसुवर्णसवर्णदेहम् । श्रीमद्भुरीणध्वजतीर्थनार्थ, ध्यायामि सन्नम्रसुराधिनाथम् ॥७॥ खस्तीन्दिरा यत्पदपुण्डरीकं, भेजे मुदैवाभ्युदयैकगेहम् । मन्ये किमु स्वीयपतिं पुराणमन्वसूचि जगदर्चनीयम् (१)॥८॥ श्रयमंहियुग्मं, यस्य प्रभोलक्ष्ममिषान्महोक्षः। संसेवयामास पशुस्वभावप्रस्फोटनायेव किमु प्रकामम् ॥९॥ खस्तीन्दिरामन्दिरमंह्रिपा, संकल्पकल्पद्रुममाश्रयामः । आननवास्तोष्पतिमौलिरत्नप्राश्चत्प्रभाक्षीरभराभिधौतम् ॥१०॥ खस्तिश्रियामावसथं यदीयक्रमाब्जमङ्कच्छलतो महोक्षः । किमु प्रधानत्वमवाप्तुकामः समाश्रयामास पशुव्रजेषु ॥११॥ यदास्यसंपूर्णसुधामयूखं निरन्तरं द्योतकरं निरीक्ष्य । स्वतोऽधिकं क्षुण्ण इव खचित्ते निशापतियोमपथं जगाम ॥१२॥ 20 यदीयवक्त्राभिनवेन्दुनेव पराभिभूतः सततोदयेन । विभावरीशः सततं कलङ्की किमष्टमूर्तेः शरणं चकार ॥१३॥ इक्ष्वाकुवंशमकराकरपूर्णचन्द्रो दद्यादनल्पकमलामृषभो जिनो वः । __पद्मेशयक्रमकुशेशययुग्मनिर्यद्गङ्गाम्बुपावितसुपर्णसवर्णवर्णः ॥१४॥ यद्पमालोक्य पयोधिपुत्रीपुत्रः पवित्रं त्रिजगत्प्रकृष्टम् । भव्यावलीनेत्रसुधाजनाभममूर्तिमत्त्वं किमवाप नूनम् ॥१५॥ प्रथमतीर्थकरः करुणाकरः कलयतात् कमलाममलामलम् । मदनवारण-वारण-केशरी सकलकल्पितकल्पतरूपमम्॥१६॥ 25 श्रीमन्तमेनं सकलश्रियाढ्यं नाभेयतीर्थेश्वरसप्तसप्तिम् । निर्माय निर्मायप्रणामोदयत्कृत्मात्तृ(?)च्छिखराधिरूढम् ॥१७॥ ॥ इति देववर्णनम् ॥ सर्वाङ्गलक्ष्मीललनाविलासं स्थानं जगन्नेत्रसुधासमानम् । मनोरमं पत्तननामधेयं विभ्राजते सर्वपुरप्रधानम् ॥१८॥ यस्मिन् विभाति त्रिजगत्प्रभूणां प्रासादपतिर्विमला विशाला । भास्वत्सुधादीप्तिभराभिरामा लोकाम्बकानन्दिविचित्रचित्रा ॥१९॥ १ प्रद्युम्नः काम इत्यर्थः। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238