Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
तपोगणपतिश्रीविजयप्रभसूरिं प्रति पं० लाभविजयप्रेषितो
[१४] -- विज्ञप्ति लेखः । -
॥ श्रीमद्दामाजानिजन्मा जयति जयति ॥ वाग्देव्यै नमः । श्रीसद्गुरवे नमः ॥ खस्तिश्रीवनिताकटाक्षलहरीसञ्चारिसच्छङ्खपुर्नारीकण्ठविहारिहारिविलसद्धारोपमानः प्रभुः । । श्रीमत्पार्धजिनो बभस्ति सकले विश्वत्रये भास्करो, भव्याम्भोजविभासने शिवकरः श्रीआश्वसेनिर्जिनः ॥१॥
वस्तीन्दिरालिङ्गितचारुदेहः, समस्तगोपालकुलावतंसः । वशीकृतो येन महोरगेनः, श्रीपार्थराड् वः स जिनः श्रियेऽस्तु ॥ २॥ वाग्देवतायां जनको जनानां, सुखंकरः सृष्टिकरः स्वयंभूः । श्रीपार्श्वराट् शंखपुराधिराजो, ददातु सौख्यान्यखिलानि वो नः ॥३॥ शंभुः शिवेशः फणिसेवितोऽसौ, गणाधिनाथाभिनतांहिपद्मः । कन्दर्पदर्पापहको ददातु, वो नः श्रियं शङ्खपुरेशपार्थः ॥ ४ ॥ शङ्खादिपुर्नायकपार्श्वदेवो, देवासपुर्या कृतसन्निवासः ।।
पूतीकृतं येन जगत्रयं स रातु श्रियं सर्वगुणाभिरामः ॥५॥ हाँ ॥ खस्ति रमां स जिनो मम दद्याद्, यत्पदकोकनदं समुपास्ते ।
अङ्कतया हरिणोऽम्बककान्त्या, निर्जित एष ततो जिनशान्तेः ॥६॥ लोचनकान्तितयापि मृगाक्ष्यो, मां जिनराज ! जयन्ति नितान्तम् । वक्तुमितीव मृगः पदसेवामातनुते किल किं मृगकेतोः ॥ ७॥ जिनवरेश ! कुरङ्ग इति प्रभो मदभिधानमिदं प्रवदन्ति यत् । अपनय त्वमितीव वदत्ययं, हरिणको हि यदीयपदम्बुजे ॥ ८॥ यदा जितः स्त्रीनयनैः पृथिव्यां, गत्वा खमिन्दुं किल संश्रितोऽहम् । तदा प्रभृत्येव वदन्ति लोका, मदीयसङ्गात् सकलङ्कमेतम् ॥ ९॥ अतः परं नाथ ! व्रजामि कुत्र, दीनो वराको बहुलजितश्च ।
इतीव विज्ञप्तिमसौ तनोति, मृगो यदीयांहिकजदयेऽरम् ॥१०॥ ही ॥ वस्तीन्दिरा सुन्दरमन्दिरं सद्धरेन्द्रदेवेन्द्रनतक्रमाब्जः।
चतुर्मुखः सौख्यकरः स देवो, ददातु सौख्यं मुनिसुव्रताख्यः ॥११॥ सकलसेवकलोकसमीहितफलसमर्पणनाकितरूपमम् । यदमलांहिकजद्वयमुत्तमं जयति कूर्मवरान्वितमन्वहम् ॥ १२॥
चरणद्वितयं किल यस्य विभोर्भुवनत्रयसिद्धिमतिप्रवराम् ।
प्रददाति यदेतदिदं न किमु नितरामपि चित्रकरं सुधियाम् ॥ १३ ॥ यदीयपत्पद्ममुपेत्य कूर्ममिषान्मुरद्विद् किमितीव वक्ति। भवार्णवात्तारयसि त्वमीश ! सर्वांस्ततो मामपि तारयख ॥१४॥ 3यक्रमाम्बुजगन्धरसौघमत्ति(?) नाकिमनुजालिगणोऽरम् । यस्य पत्पयसि तस्य सुसेवां कुर्वते मुनिजनद्विजराजाः॥१५॥
खस्तिश्रियं यच्छतु वामवामासूनुर्मनूनद्युतिभासमानः। सुधाझरो भद्रकरः स पार्थ उक्केशपाटे कृतसन्निवासः ॥१६॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238