Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विज्ञप्तिलेखसंग्रह
श्रियमुच्चपदाभिलाषिणीमधिगम्य प्रियमेलकः प्रभुः । इह तामभियोज्य जिष्णुना प्रणतेन स्वयमास कामदः॥१॥ कलिकालकरालकजलैर्विदधुर्य नयनाञ्जनं जनाः । खलु भावदृशां निमीलनं, समवापुस्तत एव तेजसा ॥२॥ तदमुष्य विशिष्य भेषजं प्रणतिः श्रीप्रभुपादपद्मयोः। अलमस्त्युपचारकर्मणेऽत्रामुत्रापि च नित्यशर्मणे ॥३॥-युग्मम् । कमनीयतया कनीयसीमपि चक्रुः प्रभुपर्युपासनम् । प्रभवेद् भविनां भवे भवे यदमीषां शिवसम्पदे हि सा॥४॥ न रविन शशी न मङ्गलो न बुधो नापि गुरुन चोशनाः । न शनिर्न तमः पराभवं कुरुते यस्य सखोरगध्वजः ॥५॥ बहुधा विविधावलेपनैः किमु धावन्ति मुधा सुधाशयाः । विबुधा अबुधा अपक्ष्यिते यदियं निर्भरनेत्रयोःप्रभोः॥६॥ कुशली किल सैष लभ्यतेऽतः प्रणयात् परिरभ्यते भृशम् । वपुषा वचसा च चेतसा पदपद्मस्तव चिन्तनं प्रभोः ॥७॥ सुररत्नघटादयो घटामुपटीकन्त इतः परां परे । अधरीकृतदेवपादपा विजयन्ते पदरेणवः प्रभोः ॥ ८॥
॥ इत्यष्टकम् ॥ " एवं जीरापल्लीपार्थजिनं वृजिनकन्दकुलपार्श्वम् । श्रितधरणाधिपपार्थ प्रणयनरात्() प्रणिपनीपत्य ॥ २५ ॥
अथ नगरवर्णनम् - यत्रानंलिहरत्नसौधशिखरे नक्षत्रतारोत्करः, खिन्नः खिन्न इव व्रजन् प्रविरलीभूतः खतः संस्थितः। अभ्रे बम्भ्रमणक्लमव्यपगमं निर्मातुकान्तिप्रियः, [सत्यं सत्पदवीमवाप्य सुखितो देदीप्यते वा न कः ॥ २६ ॥ यत्रो मणिकुट्टिमे मृगदृशः क्रीडन्ति हर्ये मिथो, मुग्धाः स्वप्रतिबिम्बतोऽपरधिया द्रुह्यन्ति मुह्यन्त्यपि । जानन्त्यो विनिवारयन्ति चतुराः सख्यः समेता हि ता, अन्योऽन्यार्पितहस्ततालमितरैर्हस्यन्त उत्प्रेक्षकैः ॥२७॥ क्वापि प्रोषितभर्तृका चटुलहक् खं रूपमालोकयत्यादशोयितरत्नभित्तिवलये प्राप्ता मणीमन्दिरम् । किं रूपं किमु यौवनं विरमणं ध्यायन्त्यगान्मूर्च्छनां, हा हा हे ! ति वचो मिलत्सखिजनैरुन्मृज्य सम्बाध्यते ॥२८॥ यत्र वर्मणिगईहृन्मणिमया वासाश्रयानुग्रहा, वाणिज्याब्धिपथप्रवासजनितायासं विनापीश्वराः। अन्येषां कृतविस्मयाः समभवन्निःसञ्जयलक्ष्मीजुषः, सानन्दा अपरेन्दिरार्जनकृते मन्दादरा नागराः ॥२९॥ यत्र स्फाटिकरत्नकोटिघटितप्रासाददम्भादगात्राके शङ्करसङ्करोत्तरशिराः(१) कैलाशशैलः किमु । . ईशानं परमेश्वरं शिवमिह श्रीकण्ठमुत्कण्ठया, विज्ञायोपगतं महाव्रतिपतिं श्रीवामदेवं गुरुम् ॥ ३० ॥ यत्रोत्तुङ्गमहेन्द्रनीलभवनश्रेणीवलभ्यां स्थितः, फुल्लत्फुल्लदलावलीकवलनाचन्द्राङ्कशायी मृगः । प्राप्तस्तुन्दिलतां ततः स्थगयति क्वापि क्षणे कौमुदीकान्तं तेन सितेतरः किमभवत् पक्षो वलक्षोऽपरः१ ॥३१॥
कुत्राप्युद्दलचन्द्रकान्तरचितप्रासादपतेः क्षरत्-पीयूषप्रसरत्प्रवाहनिवहे स्नानं वितेनुर्जनाः । 2 आयासेन विनापि चत्वरपथे नैदाघदाघार्दिता, नक्तं पूर्णकुमुद्वतीवरयितुः स्फीतोदये कौतुकात् ॥३२॥ - युग्मम्।
यत्रार्कोपलकोटिक्लप्सनिलयव्यूहः सहस्रद्युतौ, मध्याह्ने परितः स्फुरत्यभिनमः पास्फाति यद्युद्घनः । हालाजिह्वजटालपिण्ड इव तद् दृष्ट्वेति भर्तुर्भुवो, मूतः किं प्रबलः प्रतापनिवहः सम्भाव्यतेऽभ्यागतैः ॥ ३३॥
॥ इति नगरवर्णने सौधाष्टकम् ॥ जिनभवनवितानोत्तुङ्गशृङ्गावनद्धा, कनकमणिमयोद्यकिङ्किणीकाणरम्या । श्रियमिव दशदिग्भ्यस्तूर्णमाकारयन्ती, नवनवपवमानप्रेरिता वैजयन्ती ॥ ३४ ॥ त्वमसि परिणतैकश्रीदमस्मि प्रभूतोपचितधनदयुक्तं चैकसद्देवराजम् । अहमिह बहलेन्द्रं चैककैरावताढ्यं, बहुभिरिभवरेन्द्रर्भासमानं तथाहम् ॥ ३५॥ त्वमसि मम पुरः किं लेखकोलेख्यहर्ष, सुरपुरमिति तर्जन्येव यत् सन्ततर्ज । जिननिलयसमीरप्रेरणेतस्ततः सत्, प्रसरणगुणवल्गद्वैजयन्त्या मिषेण ॥ ३६ ॥-युग्मम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238