Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
तपागच्छाधीशश्रीविजयसिंहसूरिं प्रति उपाध्यायश्रीकमल विजयगणिप्रेषिता
[१७] - विज्ञप्ति का
॥ ऐं नमः ॥
स्वस्तिश्रीणां निधिरनवधिस्थामधामाधिरामः, श्रीमान् पार्श्वः प्रथयतु सतां सन्ततीर्मङ्गलानाम् । यन्मूर्द्धस्था फणमणिघृणिश्रेणिरुद्द्योतयन्ती, शैवं सद्म प्रसरति तिरश्च (श्चि) त्रमेतत् प्रतीमः ॥ १ ॥ कामं कामप्रमथन कलाकौशलं त्र्यम्बकस्य, श्रीपार्श्वस्य स्फुरति शिरसि स्फायमाना फणाली | अह्नायांहोविलयनिलया दूरतो वीक्षिताऽपि, स्वाहाभुग्भिः समभिलषिता या नवा जाह्नवीव ॥ २ ॥ भर्तुर्मौलौ विलसतितरां मल्लिकामोदरम्या, स्फाराकारा रसिकहृदयाह्लादकर्त्री फणाली । यत्राश्रान्तं भुवनजनतानेत्रपुष्यन्धयौधश्चित्रं चित्रार्पित इव चिरं सुस्थिरात्माऽधितस्थौ ॥ ३ ॥ जाने स्थाने त्रिभुवनगुरोर्मूर्ध्नि दृष्ट्वा फणालीम्, हर्षोत्कर्षं खलु सुमनसः प्रापुरुचैर्हृदन्तः । स्वस्याभीष्टाधिगतमजनि प्रेप्सितार्थोपलब्धैः, के वा न स्युर्मुदितमनसः सुप्रियानुग्रहेण ॥ ४ ॥ सानो सानोरमरनगरीवासिनां भासमानाम्, फुल्लाटोपस्फुटफलवतीं किन्तु मन्दारमाला । एके जानन्त्यभिमतफलश्रेणिसम्पूरणाभिस्तामत्युक्तास्तदनु सुलभ स्वेष्टलाभा जहर्षुः ॥ ५ ॥ अन्ये जन्येतरभवभयावारपारप्रसारे, मज्जन्तस्तां सुकृतसरसाः संविदां चक्रुरन्तः । बाढं गाढग्रथितनिबिडापातपोतायमानम्, यत्तव्यानाधिगमसमयप्राप्तसंसारपाराः ॥ ६॥ कल्याणानां प्रकटयति या कोटिमा लोककानामन्तर्भूमिं बहिरपि तिरः प्राज्यसाम्राज्यलक्ष्मीः । उच्चैर्वास्तोष्पति परिचितं वैजयन्तावतंसम्, क्षेत्रं सिद्धेरपि भगवतो दीपमाला फणाली ॥ ७ ॥ यत्रो......र्दलयति तमो जीवलोकव्यवस्थम्, नालंभूष्णु प्रसृमरमहः कौमुदीकान्तबिम्बम् । ध्वस्तं दूरात् प्रवितमभितस्तत्प्रसर्पत् फणाली, रत्नावल्याः किरणततिभिः कोऽप्यहोऽर्हत्प्रभावः ॥ ८ ॥ ॥ इति फणाल्यष्टकं प्रथमम् ॥
C
Jain Education International
For Private & Personal Use Only
믿음:
स्वस्तिलतापरिशीलनकोमलमञ्जलमलयसमीरम् । प्रसृमरपरिमलमिलद लिपटलद्युतिडम्बरितशरीरम् ॥ १ ॥ प्रणमत पार्श्वजिनेन्द्रमुदारं, निर्लोठितकमठाहङ्कारं, प्रभावतीभर्तारम् || ध्रुवपदम् ॥ सहृदयहृदयमहीरुहकीरं मन्दरगिरिवरधीरम् । कलिमलपटलदवानलनीरं सागरवरगम्भीरम् ॥ २ ॥ प्रणमत० ॥ मुनिजनमानसमानसहंसं भुवनत्रितयवतंसम् । सन्ततदुरिततमोभरहं संप्रद्योतितनिजवंशम् ॥ ३ ॥ प्रणमत० ॥ अमलकमलदलमञ्जुललोचनयुगलविराजितवदनम् । बन्धुरमधुरसुधामधुराधरविद्रुममणीयितरदनम् ॥४॥ प्रणमत० ॥ 25 अवहेलित हुङ्कृतिमुखमदनं निर्मितदुर्म्मतिकदनम् । सज्जनजनकामितसम्पादनमद्भुतगुणगणसदनम् ॥५॥ प्रणमत० ॥ - बासववारवधूजनगीतं वरपरभागपरीतम् । निर्जरसुरपुरपरिवृढलोचनदशशतसन्ततपीतम् ॥ ६ ॥ प्रणमत० ॥ रजतकनकमणिमयसुरनिम्मितसमवसरण कृतवासम् । वीतरागमपि विहितविलासं केवलकमलावासम् ॥ ७ ॥ प्रणमत० ॥ धरणराज-देवीपद्मावत्यधिवासितपदपार्श्वम् । अनुगतशासनसुरवरपार्श्व स्मरत जना जिनपार्श्वम् ॥ ८ ॥ प्रणमत० ॥
॥ इति गूर्जरीरागेण एकतालेन वसन्तरागेण वा गीयते ॥
॥ इत्यष्टकं द्वितीयम् ॥
20
www.jainelibrary.org

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238