Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 202
________________ श्रीकमलविजयगणिप्रेषिता विज्ञप्तिका १८९ गुरुपदपरिचर्याकारिणां कीर्तिकन्या, वियति विचरयिष्यत्याशशाङ्कस्य बिम्बम् । जिनभवनपताका प्रेरिता वातपूरैस्तत इयमिदमीयं मार्गमादौ प्रमाष्टिं ॥ ३७॥ त्रिभुवनगुरुसद्मस्फायमानोत्तमाङ्गे, किल धवलदुकूलाङ्गायती वैजयन्ती । त्रिदिवसरिंदिवाभान्मूर्ध्निभर्तुर्भवान्याः, किरणनिकरनीरस्फाररङ्गत्तरङ्गा ॥ ३८॥ परमियमसुमन्तं दूरतः प्रेक्षिताऽपि, प्रसभदुरितही द्राक् पवित्रीकरोति । सलिलसवनकर्तुः सा तु बाह्याङ्गमेवाशुचितनुमलकेशाकीर्णमध्या पुनाति ॥ ३९ ॥ तरुणजिनविहारोत्तंसपौत्रोत्तमस्य, प्रवरतरवराङ्गस्येव चूलापताका। ललितमरकतोर्मचकीभूतवर्णा, विनतविवृतमध्यप्रान्तमूला प्रलम्बा ॥ ४०॥ जिनपतिगृहशीर्षस्थाणुसौवर्णकुम्भाऽऽ-कृतिरिह किमु पूषा तिष्ठति स्मोपरोधात् । रविरथहयराज्या वैजयन्त्या लता या, निभृतमसितुलिष्णा निश्चलाया अनन्ते ॥४१॥ . ॥ इति नगरवर्णने जिनसद्मशृङ्गसङ्गिपताकावर्णनाष्टकम् ॥२॥ स्पृहयन्ति न के न केलये प्रवरं तत्पुरमीप्सिताप्तये । विपणौ बत यत्र लभ्यते पतिता मौक्तिकरत्नसन्ततिः ॥४२॥ _____ कथमिति चेदुच्यतेकचिदिभ्यकुमारिकाजनो मणिमुक्ताफलभूषणोदलः । रमते प्रतिचत्वरं मिथो हठहलीसकबालकेलिभिः ॥ ४३॥ रभसात् त्रुटिता पतेदपि श्लथबन्धा मणिमौक्तिकावलिः। निपुणा अपि नो गवेषयन्त्यपरास्ताः पृथुपः पूरिताः॥४४॥" समये समवाप्यते न कैः पथि गच्छद्भिरथापणान्तरा । किरणैस्तरुणारुणस्य सा धुतिदीप्ता प्रकटीकृताऽभितः ॥४५॥ रमणायतनं पितुर्ग्रहात् कृतभूषा कचिदिभ्यवल्लभा । विपणेः पथि तामपातयत् किल यान्ती सहसा स्मरातुरा ॥४६॥ अथवा कुतुकावलोकने रसिका काऽपि पणाङ्गना । कचिद् बहुमण्डनमण्डिता स्थिता विपणेवमनि लोकसङ्कुले ॥४७॥ हृदयं हृदयेन दल्यते बहुसम्मवशाच्चतुःपथे। मणिमौक्तिककञ्चुकाच्युतां तामन्तःक्षिति साऽभ्यपातयत् ॥४८॥ - यमलम् । । यदि वा व्यवहारिणां कराद् व्यवसाये मणिमौक्तिकार्पणे। मनसोऽनुपयोगतश्च्युता पतिता सा सहसा निशामुखे ॥४९॥ ॥ इति नगरवर्णने विपणिपथवर्णनाष्टकम् ॥ ३ ॥ पुरे यत्र चित्रापणश्रेणिशोभां निभाल्याध्वगा दरदेशादपेताः। विकल्पैनरल्पैः प्रजल्पन्ति कल्पा मिथोऽन्योऽन्यहस्तार्पितोत्तालतालम् ॥ ५० ॥ क्वचिद्यत्र कर्पूरपूरोपरिष्ठाद् द्विरेफोत्करोऽङ्गारभूयं बिभर्ति । निलीनं स्फुरत्सौरमास्वादलुब्धो भ्रमन् रौति नामेति कर्तुं वृथैव ॥ ५१॥ क्वचित् कृष्णकस्तूरिकाराशिसंस्थं, निलीनं न जानन्ति कालालिचक्रम् । अपि ग्राहका दायकास्तुल्यमूल्यं, तदप्यश्नुते किं नवा साधुसङ्गात् ॥ ५२॥ क्वचित् कान्तकाश्मीरजप्राज्यपुञ्ज, विलोक्यात्र लोकाः प्रजल्पन्त्यमीषाम् । अजयं हि काश्मीरदेशाधिपेन, प्रभूतं दरीदृश्यते नागराणाम् ॥ ५३॥ क्वचिजात्यसञ्चन्दनैः पूर्यमाणापणश्रेणिमालोक्य मन्दादराः स्युः । नरा नन्दने चन्दनद्रौ तदद्रौ यतो निष्ठितार्था भवन्ति स्म ते तैः ॥ ५४॥ कचित्तारहारोल्करो मौक्तिकानां, भ्रमं वासुकेः प्रेक्षकाणां प्रदत्ते । समेतस्स भोगावतीग-सर्वकषं यत्पुर विक्षितुं स्वीयदृष्टया ॥ ५५ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238