________________
श्रीकमलविजयगणिप्रेषिता विज्ञप्तिका
१८९ गुरुपदपरिचर्याकारिणां कीर्तिकन्या, वियति विचरयिष्यत्याशशाङ्कस्य बिम्बम् । जिनभवनपताका प्रेरिता वातपूरैस्तत इयमिदमीयं मार्गमादौ प्रमाष्टिं ॥ ३७॥ त्रिभुवनगुरुसद्मस्फायमानोत्तमाङ्गे, किल धवलदुकूलाङ्गायती वैजयन्ती । त्रिदिवसरिंदिवाभान्मूर्ध्निभर्तुर्भवान्याः, किरणनिकरनीरस्फाररङ्गत्तरङ्गा ॥ ३८॥ परमियमसुमन्तं दूरतः प्रेक्षिताऽपि, प्रसभदुरितही द्राक् पवित्रीकरोति । सलिलसवनकर्तुः सा तु बाह्याङ्गमेवाशुचितनुमलकेशाकीर्णमध्या पुनाति ॥ ३९ ॥ तरुणजिनविहारोत्तंसपौत्रोत्तमस्य, प्रवरतरवराङ्गस्येव चूलापताका। ललितमरकतोर्मचकीभूतवर्णा, विनतविवृतमध्यप्रान्तमूला प्रलम्बा ॥ ४०॥ जिनपतिगृहशीर्षस्थाणुसौवर्णकुम्भाऽऽ-कृतिरिह किमु पूषा तिष्ठति स्मोपरोधात् । रविरथहयराज्या वैजयन्त्या लता या, निभृतमसितुलिष्णा निश्चलाया अनन्ते ॥४१॥ .
॥ इति नगरवर्णने जिनसद्मशृङ्गसङ्गिपताकावर्णनाष्टकम् ॥२॥ स्पृहयन्ति न के न केलये प्रवरं तत्पुरमीप्सिताप्तये । विपणौ बत यत्र लभ्यते पतिता मौक्तिकरत्नसन्ततिः ॥४२॥
_____ कथमिति चेदुच्यतेकचिदिभ्यकुमारिकाजनो मणिमुक्ताफलभूषणोदलः । रमते प्रतिचत्वरं मिथो हठहलीसकबालकेलिभिः ॥ ४३॥ रभसात् त्रुटिता पतेदपि श्लथबन्धा मणिमौक्तिकावलिः। निपुणा अपि नो गवेषयन्त्यपरास्ताः पृथुपः पूरिताः॥४४॥" समये समवाप्यते न कैः पथि गच्छद्भिरथापणान्तरा । किरणैस्तरुणारुणस्य सा धुतिदीप्ता प्रकटीकृताऽभितः ॥४५॥ रमणायतनं पितुर्ग्रहात् कृतभूषा कचिदिभ्यवल्लभा । विपणेः पथि तामपातयत् किल यान्ती सहसा स्मरातुरा ॥४६॥ अथवा कुतुकावलोकने रसिका काऽपि पणाङ्गना । कचिद् बहुमण्डनमण्डिता स्थिता विपणेवमनि लोकसङ्कुले ॥४७॥
हृदयं हृदयेन दल्यते बहुसम्मवशाच्चतुःपथे।
मणिमौक्तिककञ्चुकाच्युतां तामन्तःक्षिति साऽभ्यपातयत् ॥४८॥ - यमलम् । । यदि वा व्यवहारिणां कराद् व्यवसाये मणिमौक्तिकार्पणे। मनसोऽनुपयोगतश्च्युता पतिता सा सहसा निशामुखे ॥४९॥
॥ इति नगरवर्णने विपणिपथवर्णनाष्टकम् ॥ ३ ॥ पुरे यत्र चित्रापणश्रेणिशोभां निभाल्याध्वगा दरदेशादपेताः। विकल्पैनरल्पैः प्रजल्पन्ति कल्पा मिथोऽन्योऽन्यहस्तार्पितोत्तालतालम् ॥ ५० ॥ क्वचिद्यत्र कर्पूरपूरोपरिष्ठाद् द्विरेफोत्करोऽङ्गारभूयं बिभर्ति ।
निलीनं स्फुरत्सौरमास्वादलुब्धो भ्रमन् रौति नामेति कर्तुं वृथैव ॥ ५१॥ क्वचित् कृष्णकस्तूरिकाराशिसंस्थं, निलीनं न जानन्ति कालालिचक्रम् । अपि ग्राहका दायकास्तुल्यमूल्यं, तदप्यश्नुते किं नवा साधुसङ्गात् ॥ ५२॥ क्वचित् कान्तकाश्मीरजप्राज्यपुञ्ज, विलोक्यात्र लोकाः प्रजल्पन्त्यमीषाम् । अजयं हि काश्मीरदेशाधिपेन, प्रभूतं दरीदृश्यते नागराणाम् ॥ ५३॥ क्वचिजात्यसञ्चन्दनैः पूर्यमाणापणश्रेणिमालोक्य मन्दादराः स्युः । नरा नन्दने चन्दनद्रौ तदद्रौ यतो निष्ठितार्था भवन्ति स्म ते तैः ॥ ५४॥ कचित्तारहारोल्करो मौक्तिकानां, भ्रमं वासुकेः प्रेक्षकाणां प्रदत्ते । समेतस्स भोगावतीग-सर्वकषं यत्पुर विक्षितुं स्वीयदृष्टया ॥ ५५ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org