________________
१८२
विज्ञप्तिलेखसंग्रह कुलाद्रौ वितीर्य क्षमाभारमब्धौ शयाने हरौ जातु निश्चिन्तचेताः । अथात्रैव तन्नागरीनेत्रलीलाकटाक्षैर्भुवं यत्रितात्मेव तस्थौ ॥ ५६ ॥ - यमलम् । कचिचीनपीनांशुकैलीनदेशः स्फुरद्धामहेनाम्भरैः वर्णशैलाः । विशुद्धौषधीभिः समाक्रष्टुमिष्टः सपादोत्तरो लक्षनामा गिरिः किम् ॥ ५७ ॥
॥ इति नगरवर्णने हद्दवस्तुविशेषवर्णनाष्टकम् ॥ ४ ॥ एवं सर्वाङ्गीणप्रसमरपरभागपूरिते तत्र । श्रीमति पत्तननगरे गुरुपदकमलस्फुरत्कमले ॥ ५८॥ साम्प्रतसमयसमुत्थितनैसर्गिकभोगिभुक्तभूभागात् । श्रीस्तम्भतीर्थनगरोत्तरबन्दिरतो गुणाश्रयतः ॥ ५९॥ स्निग्धानन्दसुधाम्भोधिसवनसावनीभवन् । औत्सुक्यदिव्यवासोभिः संवीतस्फीतसञ्चरः ॥ ६ ॥ गुरुभक्तिरसस्फारवारहारविराजितः । श्रीमद्गुरुगुणग्रामपुष्पदामसमन्वितः ॥ ६१ ॥ हृल्लेखघुसृणोलेख्यविशेषकविशेषितः । अप्रमेयप्रमेयोक्तिरसताम्बूलपेशलः ॥ ६२॥ पाणिसंयोजनास्वर्णमुद्रामण्डनमण्डितः । व्यवहारसदाचारव्यवहारीभवन्मनाः ॥ ३॥ विनेयोन्नेयविज्ञेयविनयश्रीफलोद्बलः । गुईर्चिःप्रमितावर्त्तवन्दनार्होत्तरीयकः ॥ ६४॥ संश्रयस्मयसंस्कारपरीहारकृतादरः । यौगाभिप्रेतजीमूतप्रसूनैकगुणाश्रयः॥६५॥ महीतलमिलन्मौलिर्ललाटघटिताजलिः । प्रपञ्चयति विज्ञप्ति कमलाद्विजयाह्वयः ॥६६॥ यथानिमित्ताधीनात्मलाभमभ्युद्गते रवौ । पठत्सु वेदगर्भेषु वेदोद्गारमहर्मुखे ॥ ६७ ॥ उत्तालोत्कलिकाकोलाहलं कुर्वत्सु सर्वतः । कचित्तुलायकूलेभ्यः प्रचलत्सु शकुन्तिषु ॥ ६८॥ विकखरेभ्यः कोशेभ्यः सरस्सु सरसीरुहाम् । मधुव्रतेषु निर्यत्सु झङ्कारमुखरोन्मुखम् ॥ ६९॥ अन्योऽन्याजल्पाक..... पानीयाहारिकावपि । पेयपानीयमानेतुं प्रयान्तीषु सरः प्रति ॥ ७० ॥ क्वचित्सुरतसम्मान्मुक्ताहारपरिच्युताः । मुक्ताफलानां सारिकाः शयनीयनिकेतने ॥ ७१॥ बाढं गवेषयन्तीषु कान्तासु निभृतेक्षणम् । तदासीषु भ्रमन्तीषु वीक्षितुं ता इतस्ततः ॥ ७२ ॥ - यमलम् । कचिन् मङ्गलतूर्येषु नन्दत्सु नृपमन्दिरे । झल्लरीस्फारझात्कारे प्रसर्पति गृहेऽर्हताम् ॥ ७३ ॥ एवं नवनवानेकप्रातस्त्याईप्रयोजने । सञ्जायमाने पार्षग्रहृयायां प्रौढपर्षदि ॥ ७४ ॥ वाचनं पञ्चमाङ्गस्याचाराङ्गस्याप्यनुक्रमात् । अध्यापनं मुमुक्षूणामियत्येवाईकर्मणि ॥ ७५॥ वर्तमाने क्रमायातं पर्व पर्युषणाभिधम् । सर्वपळखर्वगर्वसर्वकषमतिश्रुतम् ॥ ७६ ॥ कियदिनोदितामारीपटहस्फुटघोषणैः । कियत् कुकर्मव्यापारनिवर्त्तननिवर्त्तनैः ॥ ७७ ॥ षष्ठाष्टमादिदस्तप्यतपोव्रतैरनावतैः । साधर्मिकजनश्रेणितोषणैः पुण्यपोषणैः॥ ७८॥ अर्हद्भुवनभूयिष्ठस्नानपूजाप्रवर्त्तनैः । मार्गिताधिकदानेन मार्गणश्रेणितोषणैः ॥ ७९ ॥ कल्पद्रुकल्पश्रीकल्पसूत्रनव्यन्वक्षणैः । प्रभावनाभिः श्रीखण्डापूगीश्रीफलनाणकैः ॥ ८॥ इत्यादिपर्वप्रायोग्यकृत्यैः सजितविक्रमम् । महामहसहायेन नियूढं निरपायतः ॥ ८१॥ प्रमापणपथारूढप्रत्यूहव्यूहसम्भवात् । श्रीमत्पूज्यपदाम्भोजप्रभावोदयतोऽपरम् ॥ ८२ ॥
अथ गुरुवर्णनम् - सहृदयाः सदयं हृदयं विदुः सुविहितेन्द्रतपागणधारिणम् । अवितथं कथमित्यवसीयते यदुदयाददयत्वमितीक्ष्यते ८३ असममोहमहेन्द्रमहाबलोद्भटभटाग्रिममन्मथपार्थिवम् । प्रमथनाथ इव ज्वलितः क्रुधा यदुदभून्नयनातिथितां नयन्॥८४॥
सुरपतेरपि सत्त्वमपातयन्नरपतेरपि मानमखण्डयन् । जिनपतेरपि हन्त कियदिनीमभिमतः प्रथिताक्षतविक्रमः॥८५॥ ॐ तमजितौजसमाः शिशुतावधेः प्रसभमत्तकरीन्द्र इव द्रुमम् । समुदमूलयदात्मवलेन यो रतिपतिं सदयत्वमदः कथम्॥८६॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org