________________
१८३
श्रीकमलविजयगणिप्रेषिता विज्ञप्तिका अपृथगात्मकमाजननावधेर्जनितदाळमरङ्गमभङ्गुरम् । प्रणयमेकहृदां सुहृदां मिथः प्रलयमेकलयं नयति स्म यः ॥८॥ नरकनिम्नगतेः प्रतिभूरभूदु बहुतरासुमतां सुमतान्तिकः । तमपि कोपमलोपममारयद्रयत एव कथं सदयः सकः॥८८॥
अहह ! बाहुबलिबहलीपतिर्भरतभूमिपतिं भरतेश्वरम् । युधिं विजित्य बभूव जितेन्द्रियस्तमपि यः स्म विडम्बयति स्वतः॥८९॥ तमपि मानममानभुजौजसा द्रुतमगालयदम्भ इवोल्वणम् ।
लवणखण्डमखण्डमहाबलः प्रभुरसौ सदयः सदयः कथम् ॥ ९॥ वितनुते सहनं वशवर्त्तिनं विदलयत्यपि दुर्जयविद्विषम् । किमपि धूर्तजनं जनयत्यसौ खरसिकं समकं प्रियवादिनम् ॥११॥ परिणता वनितात्मकमेकका प्रकुरुते कुरुतेतरवाचिका । प्रवरपौंस्रवतंसमसंशयं बलवतीव विधेरतिशायिनी ॥९२ ॥
अविरमां परमां चिरमात्रिको निकृतिमन्तयति स्म कृतान्तवत् ।
न गणिता गुणवत्यबलेत्यपि खयमयं कथमास दयाशयः ॥ ९३ ॥ यदुदयेन जना वधबन्धनाद्यभिभवेन भवेत्र कदर्थनम् । बहुविधं विबुधा अपि लेभिरे खजनसज्जनवैरनिबन्धनम् ॥९४॥ सकलदूषणमूलनिकेतनं निजवशीकृतविश्वसचेतनम् । बहुभवभ्रमणाय पुरातनं ननु निमित्तमनन्तममेधसाम् ॥ ९५॥ धनघरट्ट इव प्रगुणीभवन् कणगणं क्षणतस्तु पिपेष यः । तमपि लोभमदम्भमनःप्रभुः कथमथो हृदये सदयोद्धलः ॥१६॥ सकलकर्मकुटुम्बकनायकं कुसुमसायकपावकभावुकम् । तमपि मोहमहाबलमादराबलयितुं यतमानमनारतम् ॥९७॥ सुविहिताग्रिमसूरिशिरोमणिं नयनयोः पदवीमदवीयसीम् । समवतार्य विचारविदः कथं सदयता दयिता दयितं विदुः ९८ 15
॥ इति निन्दास्तुत्या हृदयनिर्दयत्वप्रकाशकं षोडशकम् ॥ १॥ हृदयं सदयं मुनीशितुः समयज्ञैर्यदभाणि नान्यथा । हृदयालुदयालुलक्षणं स्फुटमेवात्मनि लक्ष्यते हि तत् ॥१९॥ अपरानुपतापिता स्मृता समयज्ञैर्विबुधैर्दयाज्ञया । इयमङ्गवती विजृम्भते गणभृच्चेतसि वै निसर्गात्मनि ॥१०॥ यत आईतसम्मतागमे किल जीवा द्विविधाः प्ररूपिताः । अपराश्च चरा अनेकधाऽप्युभये बादर-बादरेतराः ॥१०१॥ इह बादरता धपेक्षया प्रथिता नन्वणुभावभेदवत् । ध्रुवमेषु मुमुक्षुतावधेर्यतनाधिक्यमये यतीशितुः ॥ १०२॥ . पृथिवीजलवह्निमारुतास्तरवोऽमी स्थिरजीवराशयः। विकलाः सकलास्त्रसाः पुनः षट् सङ्ख्या इति जन्तवः समे ॥१०॥ परमेषु परेऽपि साधवः प्रयतन्ते प्रतिपालनादिषु । यदनुग्रहतो विशेषतः कथमेते प्रभवादयो...ताः॥१०४॥ अपराऽपि कृपालुता प्रभोः खलु तां पश्यत पश्यतेति भोः । अपकारिषु योपकारिता न हि सा स्याद् हृदये दयां विना १०५ परमागमतत्त्वचिन्तनप्रभवध्यानबलेन दुर्जयम् । अपि मोहममुं वशंवदं प्रविधाय प्रथमानविक्रमः ॥ १०६॥ अपराधविरोधकृत्यलं क्रुधि माने निकृतौ परिग्रहे । मृतमारणमित्युपेक्षणं कृतवान् यो भगवान्निकृन्तने ॥ १०७॥ * लययोगरसानुयोगतः स्वयमेव प्रलयं ययुश्च ते । व गतेति विभोर्दयालुता तत एतान् न कदापि निघ्नतः ॥१०८॥ परमारणमन्तरा कुतो भणिता निर्वृणता विचक्षणैः । हृदये सदये यतीशितुर्न भवेत् कार्यमकारणं क्वचित् ॥१०९॥ अबले खबलं महौजसो न च कुर्युः कचनेति नीतिवत्। समशान्तरसामृतः प्लुतः स कथं नाम विनिर्दयः प्रभुः॥११०॥ यदयं पुनरेकमन्तकं त्रिजगल्लोकविडम्बकस्मरम् । अपि मोहरिपोरनीकिनीभटकोटिघटमानडम्बरम् ॥ १११॥ अधिगत्य निहत्य कृत्यविच्छुशुभे शान्तमनाविलः..... । नयवन्निजराजलक्षणं क्षणमेकं फलवच्चकार तत् ॥११२॥ . अशठप्रतिपालनं शठाग्रिमदमनं श्रितपूर्वपोषणम्। इति राजकचिद्गी(?) माचरन् मुनिराजः सुतरां कृपापरः ॥११॥
प्रभवो हि भवन्ति भीमतानिभृताः किञ्चनकान्ततावृताः।
अयमप्यधिभूतस्तपस्विनां न तथा किन्तु तपागणाधिपः ॥ ११४ ॥ ॥ इति श्रीगुरुवर्णने हृदयसदयत्ववर्णने षोडशकं द्वितीयम् ॥ २॥ दाभ्यां संयोगे निर्दयत्व-सदयत्वद्वात्रिंशिका ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org