________________
१८४
विज्ञप्तिलेखसंग्रह इत्यनेकप्रकारैस्तैः तैावर्णितैर्बुधैः । अभङ्गभाग्यसौभाग्यवैराग्यगुणगुम्फितैः ॥ ११५॥
औदार्यधैर्यगाम्भीर्यशौर्यस्थैर्यार्जवोर्जितैः । तैः श्रीसूरिवरैः सौववपुःपाटवसूचकः ॥ ११६॥ लेखोल्लेख इवोलेख्यहृलेखः सुखपोषकः । प्रेष्यः प्रेष्याणवे पूर्णहृदयानन्दसम्पदे ॥ ११७ ॥ यथा प्रथाविशेषाय समवायतदागमः । भवेदभिभवे नारिवर्गभ्यस्त्यज्यते जनः॥११८॥ सौख्यं सौहित्यमह्नाय हृदयास्थानिकामलम् । अलङ्करोति तल्लेखलेखागमनतः खलु ॥ ११९ ॥ अवधार्या हृदाधार्यैः श्रीआचार्यैर्नतिर्मम । त्रिसायं मयि कार्या च कृपामृतभृता सुदृक् ॥ १२०॥ तथा तत्रत्यसत्याराजसुन्दरधीमताम् । येषां श्रीगुरुसेवायां साम्प्रतं निभृतं मनः ॥ १२१ ॥ श्रीगुरुक्रमसेवायां रेवायामिव हस्तिनाम् । श्रीहस्तिविजयाख्यानां सत्सौख्यानां मनीषिणाम् ॥ १२२ ॥ विदुषां ऋद्धिसोमानां परकार्यविधायिनाम् । श्रीमद्गुरुपदाम्भोजभ्रमरायितचेतसाम् ॥ १२३ ॥ ऋजुखभावसजुषां सत्याद्विजयधीमताम् । दर्शनाद्विजयाह्वानां सुधियां खच्छचेतसाम् ॥१२४॥ न्यायन्याय्यकविव्यक्तशक्तिसंसक्तसंविदाम् । उदयाद्विजयाभिख्यसङ्ख्यावढ्या(?)तवज्रिणाम् ॥ १२५॥ श्रीमुक्तिविजयव्यक्तवतंसानां यशस्विनाम् । हर्षाबिजयसंज्ञानां पण्डितानां सुमेधसाम् ॥ १२६ ॥ रवेर्विजयसंज्ञानां प्राज्ञानां पीनमेधसाम् । सिद्ध्यादिविजयाख्यानां गणीनां गुणशालिनाम् ॥१२७॥ सद्रङ्गगङ्गविजयमुनीनामधिकौजसाम् । वीराद्विजयनाम्नां च धाम्नां सद्गुणसम्पदाम् ॥ १२८॥ कुशलाद्विजयाह्वानां प्रह्वानां गुरुसेवने । कमलाद्विजयानां च देवाद्विजयसंज्ञिनाम् ॥ १२९ ॥ विजयात्सोमनाम्नां च व्रतमाजां महात्मनाम् । कर्पूरविजय-प्रेमविजयाख्यव्रतस्पृशाम् ॥ १३० ॥ साधोर्विजयसाधूनां पुण्याद्विजयसंज्ञिनाम् । देवादिविजयानां च मतेर्विजयसंज्ञिनाम् ॥१३॥ इत्यादिसर्वसाधूनां साध्वीनां च यथाक्रमम् । प्रसाद्याऽनुनतिस्तत्र भवद्भिर्नतवत्सलैः ॥ १३२ ॥ तथा चात्र स्थिता विद्वद्धन्यादिविजयाह्वयाः । गणयो हर्षविजयाः कर्णाद्विजयनामकाः ॥१३३ भोजादिविजयाबाना दयादिविजयाभिधाः । गणयश्च तथा देवात् जयाद्विजयसंज्ञकाः ॥१३४॥ जिनात्सत्यान्मते नो विजयाद्या मुमुक्षवः । तथा वीरर्षिःडाहर्षि-साध्वीप्रभृतयोऽमि च ॥१३५॥ पण्डितशुभादिविजयाः तच्छिष्याश्चन्द्रविजयगणयोऽत्र । वार्द्धक्यवयोप्युग्रतपश्चरणगुणसजुषः॥१३६॥ नमन्ति नित्यं भूलग्नभाला बाला इव ध्रुवम् । श्रीमत्प्रभुपदाम्भोजमम्भोजमिव षट्पदाः॥१३७ ॥ अत्रत्योऽपि पवित्रात्मा सङ्घोऽप्यनघभक्तितः। नमीति प्रभोः पादपद्ममन्वहमादरात् ॥ १३८॥ यथा कोक इवालोकं भावनीयं समीहते । तथा प्रभुमुखाम्भोजदर्शनं दूरगोऽप्यहम् ॥१३९ ॥ कुर्वे गुरुगुणोद्घोषमन्तःसभमदम्भहृत् । मोदन्ते स्म तदा सभ्यास्तद्वक्तुं वाक्पतिः प्रभुः ॥ १४०॥ तथा तथा प्रथाकर्तुर्गुणोत्कर्षः प्रवर्द्धते । प्रासादकारकस्येवोन्नतकार्यविधायिनः ॥ १४१॥ वलमानं कृपापत्रं प्रसाद्यं हितवत्सलैः । अर्हद्वन्दनवेलायां स्मारणीयोऽहमन्वहम् ॥ १४२ ॥ कियानुदन्तः प्रज्ञानां विज्ञेयः पत्रवाचनात् । अश्वयुक्पूर्णपूर्णायां पूर्णा पत्रीति मङ्गलम् ॥ १४३॥
॥ इति भद्रम् । शुभं भवतु ॥ ॥ स्तम्भतीर्थात् उ० श्रीकमलविजयग० पं० रविविजयलिखितम् ॥ ॥ ब्रह्माण्डाखण्डमण्डलशुक्तिसम्पुटस्फुटविमलमुक्ताफलायमानआचार्यवर्य
... विजयसिंहसूरिपदपङ्कजानां विज्ञप्तिलेखः॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org