________________
तपागच्छाधीश श्रीविजयसिंहसूरिं प्रति पं० लावण्यविजयगणिप्रेषिता
[१८] - विज्ञप्ति का
॥ ऐं नमः ॥
स्वस्तिश्रीः श्रयणीयमंहिकमलं श्रान्तेव यस्याश्रयात्, त्रैलोक्ये किमितस्ततो भ्रमणतो जङ्घालितां बिभ्रती । चाञ्चल्यं परिचीयमानमनिशं सन्त्यज्य सुस्थैर्यतः, स श्रीपार्श्वजिनस्तनोंतु सुतरां श्रेयांसि भूयांसि वः ॥ १ ॥ · स्वस्तीन्दिरा संश्रयति स्म यस्य प्रभोः पदद्वन्द्व ममर्त्यपूज्यम् । त्यक्त्वा नितान्तं मधुपैः प्रकृत्या मलीमसैश्चुम्बितमम्बुजन्म ॥ २ ॥ स्वस्तिश्रियो यत्पदपुण्डरीकं भेजुर्यथा सिन्धुपतिं श्रवन्त्यः । सस्तादभीष्टाय विशिष्टमूर्त्तिर्भूयिष्ठकीर्तिः परमेष्ठिनाथः ॥ ३ ॥ स्वस्तिश्रिया संश्रितपादपद्मः पद्मां स पार्श्वः सततं वितीर्यात् । राजेव यो राजति नव्यभव्यचकोरचक्रप्रमदप्रदाता ॥ ४ ॥ स्वस्तिश्रियाश्रितपदाम्बुरुहं यदीयं नेदीयसीं शिवरमां समुपासितं सत् ।
विश्वत्रयी तनुभृतां वितनोति सद्यः, सोऽस्तु श्रिये जिनपतिस्त्रिजगत्प्रतीक्ष्यः ॥ ५॥ सन्नम्रसङ्क्रन्दन कोटिकोटीकिरीटसंटङ्किमणिप्रभाभिः । मितदुभयं (?) लहरीभिरेव, लेभे यदंद्वियमद्वितीयम् ॥ ६ ॥ यद्भूधने पूर्णघने विनीले, हरेर्धनुर्भूयमियतिं भूयः । किमीरितं नैकविधेन्द्रमौलिमणिप्रभाभिः पदपद्मयुग्मम् ॥ ७ ॥ ॥ यदंहिपद्मद्वितयं चकास्ति, प्रवालबालारुहपाटलश्रि । नमत्सुपर्वाधिपसुन्दरीणां किं सङ्क्रमात् कुङ्कुमरागकान्तेः ॥ ८ ॥ यस्य प्रभोः पादतलप्रभायाः, सिन्दूरपूरद्युतिंपाटलायाः । व्याजाद् ध्रुवं सद्गुण..., प्रवालवल्लीव तटान्तलग्ना ॥ ९ ॥ स्वकीयगत्या विजितैः प्रसह्य, स्तम्बेरमैढकनिकी कृतेव । सिन्दूरलक्ष्मीः किमु सन्धिहेतोर्विभ्राजते शोणरुचिर्यदंहयोः ॥ १० ॥ सुव्यक्तभक्तिप्रणमत्समग्र - सुपर्व - सौवर्णकिरीटकोटौ ।
-
माणिक्यलीलां बिभरां बभूवुर्नखा यदनयोः स्फुटरागयुक्ताः ॥ ११ ॥ नभोमणिर्यस्य विभोः सपर्यां, चरीकरीति प्रमुदा नितान्तम् । विधृत्य शङ्के दशमूर्तिभावं, नखच्छलेन प्रकटप्रभावम् ॥ १२ ॥
- तं श्रीमन्तमनन्तसद्गुणमणिप्राग्भाररत्नाकरम् हप्यद्दर्पक भूरिदर्पदमनप्रोन्मत्तगङ्गाधरम् ।
कल्याणद्रुमसिञ्चने जलधरं कारुण्यपुण्याकरम्, श्रीमत्पार्श्वजिनं प्रणामपदवीमानीय विश्वेश्वरम् ॥ १३ ॥ ॥ इति श्रीदेववर्णनं सम्पूर्णम् ॥
I
भूभामिनीकण्ठतटे वितेने, स्वयम्भुवा गुर्जरतारहारः । तत्रेदमत्यद्भुतनायकस्य, बिभर्ति तौल्यं नगरं गरीयः ॥ १४॥ स्वर्लोक - भूलोकगतानि नूनं, भवन्तु भूयांसि पुरोत्तमानि ।
शश्वद् यदस्योपमितिं बिभर्त्तिं, श्रुतं न तत् कापि निरीक्षितं च ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
10
20
विश्वम्भराप्रौढवधूविशालभालस्थलीशा यिललामतुल्यम् । निःशेषविश्वाद्भुतऋद्धिरम्यं, विराजते यन्नगरं नितान्तम् ॥१६॥ *
वि० म० ले० २४
25
www.jainelibrary.org