________________
15
30
विज्ञप्तिलेखसंग्रह
आकस्मिकं विस्मयमादधानां श्रियं समुद्वीक्ष्य पुरस्य यस्य । मन्ये समुत्पन्नमनःप्रभूतातङ्का पयोधौ विशति स्म लङ्का ॥ १७ ॥ दिने दिने यत् सुषमां समीक्षितुं, व्याजं विधृत्यारुणसारथेश्चिरम् । पुरी हरेर्विस्मयदर्शनोत्सुका, बिभर्त्ति किं दर्पणमद्भुतद्युतिम् ॥ १८ ॥ भोगावती भुवनभूषणमद्भुतश्रि, बिभ्रत् पुरन्दरपुरी रुचिरोपमत्वम् । संवीक्ष्य राजनगरं परमर्द्धिपूर्ण, तूर्णं पलाय्य बलिसद्मं विवेश मन्ये ॥ १९ ॥ यस्मिन् विभाति त्रिजगत्प्रभूणां, प्रासादपतिर्विमला विशाला । • भास्वत्सुधा दीप्तििभराभिरामा, जगज्जनानन्दिविचित्रचित्रा ॥ २० ॥ चतुष्पथे यत्र विचित्रचित्रैः, किमीरिता राजति हट्टपतिः । अगण्यपण्यैः परिपूर्णमध्या, गवाक्षलक्षैः किल वीक्षणीया ॥ २१ ॥ सम्यक्त्वमूलाक्कमितव्रतानि, सम्यग् दधानाः श्रुतसावधानाः । जीवादितत्त्वैकविचारदक्षाः, सुश्रावका यत्र वसन्त्यनेके ॥ २२ ॥ श्राद्धी ततः कल्पलतेव यत्र, भाति प्रसर्पच्छुभशीलमूला । दानोल्लसत्स्फारफलाभियुक्ता, सौभाग्यसद्वासनवासिताङ्गा ॥ २३ ॥ विमानमभ्युन्नतमभ्युपेतमुपाश्रयस्य व्यपदेशतः किम् । श्रीमद्गुरुं वन्दितुमीप्सितार्थसार्थप्रदानप्रवणाभ्युपायम् ॥२४॥
१८६
उपाश्रये यत्र विभाति शश्वद् वितानमाला वरवर्ण्यवर्ण्य । छिद्रैर्विमुक्ता चतुरन्तयुक्ता, काव्यावली किं कविभिर्निबद्धा ॥ २५ ॥ जलार्थ मायात नितम्बिनीनामुन्निद्रवक्त्राम्बुजराजमाने । कूलङ्कषा स्वच्छजले यथेच्छं यस्योपकण्ठे करिणां शतानि ॥ २६ ॥ कुर्वन्ति केलिं कलशैर्वृतानि, समुन्नताम्भोधरसन्निभानि । उच्चैस्तराणीव समागतानि, किमञ्जनाद्रेः शिखराणि साक्षात् १ ॥ २७ ॥
श्रीमज्जैन विहारहारिवसुधाऽऽदर्शे निवेशे श्रियां, श्रीमत्तातपदारविन्दरजसा पावित्र्यमाबिभ्रति । नम्रानेकविवेकिलोकविहितश्रीजैनधर्मोत्सवे, विख्याते भुवि तत्र राजनगरे राजन्वति श्रीमति ॥ २८ ॥ ॥ इति श्रीनगरवर्णनम् ॥
Jain Education International
त्रैलोक्यलक्ष्मीललनाविलास निवासभूताद् धनधान्यपूर्णात् ।
प्रभावक श्रावकराजमानात्, पुरोत्तमाद् योधपुराभिधानात् ॥ २९ ॥
सानन्दं सोल्लासं सोत्कण्ठमकुण्ठभक्तिसंयुक्तम् । सप्रणयं रणरणकप्रपूर्णमुद्युक्तिसुव्यक्तम् ॥ ३० ॥ हर्षोत्कर्ष विशेषो । विनयावनतशिरस्कं प्रमोदमेदुरितचेतस्कम् ॥ ३१ ॥ भालस्थल संस्थापित योजित करकमलय मलकुड्मलकः । श्रीतातपादचरणाम्भोरुहमधुपायितवान्तः ॥ ३२ ॥ पङ्कजपाणिप्रमितावर्तैरभिवन्द्य विधिवदादरतः । विज्ञप्तिपत्रमुपदीकुरुते लावण्य विजयशिशुः ॥ ३३ ॥ यथाकृत्यमिह प्राचीपुरन्ध्रीतिलकायिते । भास्करे तत्करोत्फुल्लकमले कमलाकरे ॥ ३४ ॥ प्रध्वंसप्रतियोगित्वं प्राप्तेऽशेषतमोभरे । परखहरणादिभ्यो विनिवृत्तनिशाचरे ॥ ३५ ॥ बालातपकाले यच्छासिक्तचराचरे । वियोगविगमात्यन्ततुष्टे द्वन्द्वचरे वरे ॥ ३६ ॥ मागधोद्गीतमाङ्गल्यगीतनिर्निद्रनागरे । प्रभातावसरे श्रीमत् सभ्यशोभितसंसदि ॥ ३७ ॥
For Private & Personal Use Only
www.jainelibrary.org