________________
लावण्यविजयप्रेषिता विज्ञप्तिका
श्रीश्रावकप्रतिक्रान्तिसूत्रसद्वृत्तिवाचनम् । प्रश्रुताध्यापनं योगोपधानादिकवाहनम् ॥ ३८ ॥ नन्दिमण्डनमानन्दिपाक्षिकापारणानि च । इत्यादि सौकृतं कृत्यं निष्प्रत्यूहं प्रवर्तते ॥ ३९ ॥ तथा क्रमागते सर्वपर्वगर्वापहारिणि । श्रीमत्पर्युषणापर्वण्यतुच्छोत्सवहारिणि ॥४०॥ श्रीमदहेत्सप्तदशभेदपूजाप्रवतेनम् । सक्षणः क्षणनवकैः कल्पसूत्रानुवाचनम् ॥४१॥ साधर्मिकजनाकं[]पोषणं पुण्यजोषणम् । भूरिवित्तप्रदानेनानेकयाचकतोषणम् ॥४२॥ इत्यादिधर्मकर्माणि सशर्माणि महामहः । निरपायमजायन्त सञ्जायन्तेऽधुनापि च ॥४३॥ सर्वार्थसाधनव्यग्रभाग्यातिशयशालिनाम् । श्रीमतां तातपादानां प्रसादोदयतोऽपरम् ॥४४॥
अथ श्रीगुरुराजवर्णनम् - श्रीवर्द्धमानेशपदप्रतिष्ठः, सद्धैर्यगाम्भीर्यगुणैरिष्ठः। जीयाचिरं देवकृतांहिसेवः, सूरीश्वरः श्रीविजयादिदेवः॥४५॥
शरत्सुधादीधितिजिष्णुशङ्खजिष्णुद्युतिर्विष्णुपदीमिषेण । क्षीराब्धिवीचीचयचारुरोचिः, कीर्तिस्त्रिलोक्यां स्फुरति त्वदीया ॥४६॥ दिशो दशापि प्रसरधशोभिः, श्रीमद्गुरुर्दाग् विशदीप्रकुर्वन् । श्यामत्व-शुभ्रत्वमवं जनानां, बिभेद मेदस्वितरां विरोधम् ॥४७॥ भवद्यशःकल्पमहीरुहस्स, प्रशस्यमूलं भुजगाधिराजः । स्कन्धश्च गौरीगुरुरेष शैलः, शाखाः समग्राः खलु दिग्गजेन्द्राः ॥४८॥ तेषां च दन्तावलयः प्रशाखाः, सुगन्धिफुल्लत्कुसुमान्युडूनि ।
फलं विधोमण्डलमद्भुतश्रि, स्वचेतसीति प्रकटं प्रतीमः ॥४९॥-युग्मम् । क्षीराब्धिरङ्गत्तरलातितुङ्गतरङ्गमालाविलसद्दुकूला । सम्पूर्णशीतद्युतिसप्तसप्तीभाजिष्णुताडङ्कयुगं वहन्ती ॥ ५० ॥
विशुद्धकैलासतुषारशैलपोत्तुङ्गपीनस्तनरम्यरोचिः।
कीर्तिनरीनर्ति गुरो ! त्वदीया, सन्नर्तकीवाम्बरमण्डपेऽस्मिन् ॥५१॥-युग्मम् । . जगत्रयीं गन्तुमनास्त्वदीयकीर्तिस्त्रिधा मूर्त्तिरभूत् किमेषा । सुधाशनानेकपशैवशैलशेषोरगेन्द्रच्छलतो मुनीश ! ॥५२॥
त्वत्कीर्तिकान्ता किल भूरि बद्धादराऽपि वृद्धा भुवनप्रसिद्धा ।। विशिष्य सवान् विषयान्नितान्तं, सम्बोभुजीति स्फुटमद्भुतं तत् ॥ ५३ ॥ ऐरावतः स्प्रष्टुमनर्ह एव, मातङ्गभावं न जहाति जातु । दुग्धोदधेः सन्निधिरेव नाहः, कुसङ्गरङ्गं स विभर्ति यस्मात् ॥ ५४॥ न तुष्टिपुष्टिं शशभृद् विधत्ते, कुरङ्गसङ्गः किल येन दभ्रे । इत्यादयो दोषविशेषभाजः, कथं लभेयुस्तव कीर्तिसाम्यम् ॥ ५५॥-युग्मम् । स नैव पीयूषमयूखबिम्बे, न कुन्दवृन्देऽपि न पुण्डरीके ।
कर्पूरपूरेऽपि च नैव नैव, स्निग्धेषु दुग्धेषु न दुग्धसिन्धौ ॥५६॥ पद्मेशयस्याधि न पाञ्चजन्ये, नोचैःश्रवःश्वेतगजेश्वरेषु । हिमाद्रिकन्याहरशैलहंसे, डिण्डीरपिण्डे धुनदीषु नैव ॥५७॥ .
श्रीखण्डखण्डे न च चारुहारे, मन्दारतारास्वपि जातु नैव ।
अदभ्रशुभ्रेऽपि न शारदाभ्रे, या शुमिमा त्वद्यशसः समूहे ॥ ५८॥-त्रिभिर्विशेषकम् । पत्कीर्तिः शशिमौलिमौलिविगलद्गगातरङ्गोज्वल-पालेयाचलकन्यकोत्कुचतटीसण्टविहाराकृतिः। प्रोद्यत्पार्वणशारदेन्दुविशदा विश्वत्रयं व्यानशे, शेषाहिस्फुटिकाचलाभ्रमुपतिव्याजेन जानीमहे ॥ ५९ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org