________________
१८८
विज्ञप्तिलेखसंग्रह
भीतः शीतरुचिर्विवेश सहसा छायाच्छलात् पार्वणः, पाथोदुर्गमिवेक्ष्य दुर्गहतरं यस्य स्वजैत्रं यशः। प्रालेयाचलनिर्गलत्सुरसरित्कलोलमालाप्लुत-क्रीडदाजमरालमूर्तिरुचिरच्छायातिरस्कारकृत् ॥ ६॥ भूयस्तारकतारहारविकसन्मन्दारजिष्णुद्युता, स्पर्धिष्णुस्तव सूरिसिंह ! यशसा वर्धिष्णुशोभागता । मन्ये कैरविणीप्रियः समजनि प्रोद्भूतदाघज्वरः, स्वच्छायाव्यपदेशतोऽम्भसि कथं तेनान्यथा स्थीयते ॥ ६१॥
- इति यशःषोडशकम् । यस्यानन्योपमेयं स्फुटमहिमचयं विश्वभास्वत्प्रभावं, सद्धर्य वीक्ष्य लज्जाभरनिचितमनाः स्वर्गिशैलः प्रकामम् । चैतन्याभावमेष त्वरितमुपगतश्चेतसीति व्यतर्कि, स श्रीमान् सूरिराजः प्रभवतु भविनामीप्सितार्थैकसिद्ध्यै ॥ ६२ ॥
आस्वाद्याभिनवं वचोऽमृतरसं माधुर्यवयं मुदा, विश्वे विश्वजना बभूवुरमृते त्यक्तादराः सन्ततम् ।
ज्ञात्वेतीव नवखकीयमनसा पीयूषकुण्डानि किं, जग्मुर्दानवमन्दिरं प्रतिदिनं सोऽस्तु श्रिये श्रीगुरुः ॥ ६३ ॥ 1. विश्वाशेषसमीहितार्थकरणप्रध्वंशमीक्ष्येव किं, यस्यौदार्यमनन्यतुल्यमसकृत्सञ्जातभूरित्रपाः । जग्मुः स्वगिमहीरुहा अपि समे स्थानं दृशोऽगोचरं, स श्रीसूरिशिरोमणिविजयताद् विश्वत्रयीवत्सलः ॥ ६४॥
निरीक्षितेऽस्मिन् गणनातिरेकप्रोद्भूतसद्भूतगुणाम्बुराशौ ।
सदोदयान् दृष्टिपथं प्रपन्नान् , मन्यामहे सम्प्रति पूर्वसूरीन् ॥ ६५॥ यस्य प्रभोः फणिपतिः शरदिन्दुधाम, बिभाजितं गुणगणं गणनातिरेकम् ।
जिह्वासहस्रमपि बिभ्रदभून्न शक्तो, वक्तुं द्विजिह्व इति विश्रुतिमाप तस्मात् ॥ ६६ ॥ इत्थमनेकसकर्णैः संवर्णितवर्ण्यवर्णवादानाम् । ऊकेशवंशवारिधिवृद्धिविधौ शीतपादानाम् ॥ ६७॥ सच्चक्रचक्रचेतःप्रह्लादननवसहस्रपादानाम् । निरुपमबुद्धिविनिर्जितदुर्द्धरतरवादिवादानाम् ॥ ६८॥ गतसकलविषादानां खसेवकप्रत्तसुप्रसादानाम् । सजलाम्बुदनादानां श्रीमत्श्रीतातपादानाम् ॥ ६९ ॥
कोऽपि प्रसादवरलेखनवाम्बुदोऽथ, सम्प्रीणयिष्यति मदीयमनोमयूरम् । तेनाथ स खकशरीरपरिच्छदोद्यन्नीरोगतादिसदुदन्तजलाभिरामः ॥ ७० ॥ सद्यः प्रसद्य निजशिष्यमनोमयूरप्रौढप्रमोदविधये सततं प्रसाद्यः।
किञ्चोपवैणवमथ प्रणतिर्मदीया, श्रीयुक्ततातचरणैरवधारणीया ॥ ७१॥ गाम्भीयौदार्यधैर्याद्यनघगुणमणीरोहणक्ष्माधरेन्द्रान् , प्रेतत्पीयूषयूषानुकरणनिपुणप्रौढवाणीविलासान् । प्रादुर्भूतप्रभूतप्रवरतरपटुप्रोल्लसद्भि..... युक्त्या, वन्दे विश्वप्रतीक्ष्यान् भुवनजनहितान् श्रीमदाचार्यसिंहान् ॥७२॥ 2 निश्शेषवाङ्मयार्णवपारङ्गमिनः प्रशस्तमतिविभवाः । श्रीमद्धन[दि] विजया वाचककुलमौलिसन्मणयः ॥७३॥
__ जैनप्रमाणसयुक्तितर्जितानेकवादिनः। श्रीऋद्धि विजयाह्वानाः प्राज्ञाः सद्बुद्धिऋद्धयः ॥ ७४ ॥ उदयश्रीपरिरम्भणनिपुणाः श्रीउदयविजयवरविज्ञाः। शमरसभावितचित्ता विबुधाः श्रीशान्तिविजयाश्च ॥७॥ कर्पूरविजयविबुधाः सुयशःकर्पूरवासितदिगन्ताः । वैराग्यरञ्जितान्तःकरणा रामादिविजयबुधाः ॥ ७६ ॥ वाचस्पतिसममतयो मत्यादिमविजयनामवरविबुधाः । नयविजयनामधेया विपश्चितः परमनयनिपुणाः ॥७७॥ • यतिजनपोषणदक्षाः कृष्णाद्विजयाभिधानवरविज्ञाः । सुविनीतशिरोमणयो विनीतविजयाश्च विद्वांसः ॥७८॥ श्रीपूज्यचरणसेवारसिका अमरादिविजयवरसुधियः । यतिजनशिक्षादक्षा विचक्षणा वीरविजयाश्च ॥ ७९ ॥ इत्यादिसाधुसाध्वीप्रमुखाणां तातचरणभक्तानाम् । नत्यनुनती प्रसाधे श्रीमत्तातैः प्रसादपरैः ।। ८०॥ किञ्चावत्या अपि च प्राज्ञाः कनकादिविजयनामानः । गणयश्च ऋद्धिविजया गणयो मेर्वादिविजयाश्च ॥८१॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org