Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 204
________________ १८३ श्रीकमलविजयगणिप्रेषिता विज्ञप्तिका अपृथगात्मकमाजननावधेर्जनितदाळमरङ्गमभङ्गुरम् । प्रणयमेकहृदां सुहृदां मिथः प्रलयमेकलयं नयति स्म यः ॥८॥ नरकनिम्नगतेः प्रतिभूरभूदु बहुतरासुमतां सुमतान्तिकः । तमपि कोपमलोपममारयद्रयत एव कथं सदयः सकः॥८८॥ अहह ! बाहुबलिबहलीपतिर्भरतभूमिपतिं भरतेश्वरम् । युधिं विजित्य बभूव जितेन्द्रियस्तमपि यः स्म विडम्बयति स्वतः॥८९॥ तमपि मानममानभुजौजसा द्रुतमगालयदम्भ इवोल्वणम् । लवणखण्डमखण्डमहाबलः प्रभुरसौ सदयः सदयः कथम् ॥ ९॥ वितनुते सहनं वशवर्त्तिनं विदलयत्यपि दुर्जयविद्विषम् । किमपि धूर्तजनं जनयत्यसौ खरसिकं समकं प्रियवादिनम् ॥११॥ परिणता वनितात्मकमेकका प्रकुरुते कुरुतेतरवाचिका । प्रवरपौंस्रवतंसमसंशयं बलवतीव विधेरतिशायिनी ॥९२ ॥ अविरमां परमां चिरमात्रिको निकृतिमन्तयति स्म कृतान्तवत् । न गणिता गुणवत्यबलेत्यपि खयमयं कथमास दयाशयः ॥ ९३ ॥ यदुदयेन जना वधबन्धनाद्यभिभवेन भवेत्र कदर्थनम् । बहुविधं विबुधा अपि लेभिरे खजनसज्जनवैरनिबन्धनम् ॥९४॥ सकलदूषणमूलनिकेतनं निजवशीकृतविश्वसचेतनम् । बहुभवभ्रमणाय पुरातनं ननु निमित्तमनन्तममेधसाम् ॥ ९५॥ धनघरट्ट इव प्रगुणीभवन् कणगणं क्षणतस्तु पिपेष यः । तमपि लोभमदम्भमनःप्रभुः कथमथो हृदये सदयोद्धलः ॥१६॥ सकलकर्मकुटुम्बकनायकं कुसुमसायकपावकभावुकम् । तमपि मोहमहाबलमादराबलयितुं यतमानमनारतम् ॥९७॥ सुविहिताग्रिमसूरिशिरोमणिं नयनयोः पदवीमदवीयसीम् । समवतार्य विचारविदः कथं सदयता दयिता दयितं विदुः ९८ 15 ॥ इति निन्दास्तुत्या हृदयनिर्दयत्वप्रकाशकं षोडशकम् ॥ १॥ हृदयं सदयं मुनीशितुः समयज्ञैर्यदभाणि नान्यथा । हृदयालुदयालुलक्षणं स्फुटमेवात्मनि लक्ष्यते हि तत् ॥१९॥ अपरानुपतापिता स्मृता समयज्ञैर्विबुधैर्दयाज्ञया । इयमङ्गवती विजृम्भते गणभृच्चेतसि वै निसर्गात्मनि ॥१०॥ यत आईतसम्मतागमे किल जीवा द्विविधाः प्ररूपिताः । अपराश्च चरा अनेकधाऽप्युभये बादर-बादरेतराः ॥१०१॥ इह बादरता धपेक्षया प्रथिता नन्वणुभावभेदवत् । ध्रुवमेषु मुमुक्षुतावधेर्यतनाधिक्यमये यतीशितुः ॥ १०२॥ . पृथिवीजलवह्निमारुतास्तरवोऽमी स्थिरजीवराशयः। विकलाः सकलास्त्रसाः पुनः षट् सङ्ख्या इति जन्तवः समे ॥१०॥ परमेषु परेऽपि साधवः प्रयतन्ते प्रतिपालनादिषु । यदनुग्रहतो विशेषतः कथमेते प्रभवादयो...ताः॥१०४॥ अपराऽपि कृपालुता प्रभोः खलु तां पश्यत पश्यतेति भोः । अपकारिषु योपकारिता न हि सा स्याद् हृदये दयां विना १०५ परमागमतत्त्वचिन्तनप्रभवध्यानबलेन दुर्जयम् । अपि मोहममुं वशंवदं प्रविधाय प्रथमानविक्रमः ॥ १०६॥ अपराधविरोधकृत्यलं क्रुधि माने निकृतौ परिग्रहे । मृतमारणमित्युपेक्षणं कृतवान् यो भगवान्निकृन्तने ॥ १०७॥ * लययोगरसानुयोगतः स्वयमेव प्रलयं ययुश्च ते । व गतेति विभोर्दयालुता तत एतान् न कदापि निघ्नतः ॥१०८॥ परमारणमन्तरा कुतो भणिता निर्वृणता विचक्षणैः । हृदये सदये यतीशितुर्न भवेत् कार्यमकारणं क्वचित् ॥१०९॥ अबले खबलं महौजसो न च कुर्युः कचनेति नीतिवत्। समशान्तरसामृतः प्लुतः स कथं नाम विनिर्दयः प्रभुः॥११०॥ यदयं पुनरेकमन्तकं त्रिजगल्लोकविडम्बकस्मरम् । अपि मोहरिपोरनीकिनीभटकोटिघटमानडम्बरम् ॥ १११॥ अधिगत्य निहत्य कृत्यविच्छुशुभे शान्तमनाविलः..... । नयवन्निजराजलक्षणं क्षणमेकं फलवच्चकार तत् ॥११२॥ . अशठप्रतिपालनं शठाग्रिमदमनं श्रितपूर्वपोषणम्। इति राजकचिद्गी(?) माचरन् मुनिराजः सुतरां कृपापरः ॥११॥ प्रभवो हि भवन्ति भीमतानिभृताः किञ्चनकान्ततावृताः। अयमप्यधिभूतस्तपस्विनां न तथा किन्तु तपागणाधिपः ॥ ११४ ॥ ॥ इति श्रीगुरुवर्णने हृदयसदयत्ववर्णने षोडशकं द्वितीयम् ॥ २॥ दाभ्यां संयोगे निर्दयत्व-सदयत्वद्वात्रिंशिका ॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238