Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 209
________________ १८८ विज्ञप्तिलेखसंग्रह भीतः शीतरुचिर्विवेश सहसा छायाच्छलात् पार्वणः, पाथोदुर्गमिवेक्ष्य दुर्गहतरं यस्य स्वजैत्रं यशः। प्रालेयाचलनिर्गलत्सुरसरित्कलोलमालाप्लुत-क्रीडदाजमरालमूर्तिरुचिरच्छायातिरस्कारकृत् ॥ ६॥ भूयस्तारकतारहारविकसन्मन्दारजिष्णुद्युता, स्पर्धिष्णुस्तव सूरिसिंह ! यशसा वर्धिष्णुशोभागता । मन्ये कैरविणीप्रियः समजनि प्रोद्भूतदाघज्वरः, स्वच्छायाव्यपदेशतोऽम्भसि कथं तेनान्यथा स्थीयते ॥ ६१॥ - इति यशःषोडशकम् । यस्यानन्योपमेयं स्फुटमहिमचयं विश्वभास्वत्प्रभावं, सद्धर्य वीक्ष्य लज्जाभरनिचितमनाः स्वर्गिशैलः प्रकामम् । चैतन्याभावमेष त्वरितमुपगतश्चेतसीति व्यतर्कि, स श्रीमान् सूरिराजः प्रभवतु भविनामीप्सितार्थैकसिद्ध्यै ॥ ६२ ॥ आस्वाद्याभिनवं वचोऽमृतरसं माधुर्यवयं मुदा, विश्वे विश्वजना बभूवुरमृते त्यक्तादराः सन्ततम् । ज्ञात्वेतीव नवखकीयमनसा पीयूषकुण्डानि किं, जग्मुर्दानवमन्दिरं प्रतिदिनं सोऽस्तु श्रिये श्रीगुरुः ॥ ६३ ॥ 1. विश्वाशेषसमीहितार्थकरणप्रध्वंशमीक्ष्येव किं, यस्यौदार्यमनन्यतुल्यमसकृत्सञ्जातभूरित्रपाः । जग्मुः स्वगिमहीरुहा अपि समे स्थानं दृशोऽगोचरं, स श्रीसूरिशिरोमणिविजयताद् विश्वत्रयीवत्सलः ॥ ६४॥ निरीक्षितेऽस्मिन् गणनातिरेकप्रोद्भूतसद्भूतगुणाम्बुराशौ । सदोदयान् दृष्टिपथं प्रपन्नान् , मन्यामहे सम्प्रति पूर्वसूरीन् ॥ ६५॥ यस्य प्रभोः फणिपतिः शरदिन्दुधाम, बिभाजितं गुणगणं गणनातिरेकम् । जिह्वासहस्रमपि बिभ्रदभून्न शक्तो, वक्तुं द्विजिह्व इति विश्रुतिमाप तस्मात् ॥ ६६ ॥ इत्थमनेकसकर्णैः संवर्णितवर्ण्यवर्णवादानाम् । ऊकेशवंशवारिधिवृद्धिविधौ शीतपादानाम् ॥ ६७॥ सच्चक्रचक्रचेतःप्रह्लादननवसहस्रपादानाम् । निरुपमबुद्धिविनिर्जितदुर्द्धरतरवादिवादानाम् ॥ ६८॥ गतसकलविषादानां खसेवकप्रत्तसुप्रसादानाम् । सजलाम्बुदनादानां श्रीमत्श्रीतातपादानाम् ॥ ६९ ॥ कोऽपि प्रसादवरलेखनवाम्बुदोऽथ, सम्प्रीणयिष्यति मदीयमनोमयूरम् । तेनाथ स खकशरीरपरिच्छदोद्यन्नीरोगतादिसदुदन्तजलाभिरामः ॥ ७० ॥ सद्यः प्रसद्य निजशिष्यमनोमयूरप्रौढप्रमोदविधये सततं प्रसाद्यः। किञ्चोपवैणवमथ प्रणतिर्मदीया, श्रीयुक्ततातचरणैरवधारणीया ॥ ७१॥ गाम्भीयौदार्यधैर्याद्यनघगुणमणीरोहणक्ष्माधरेन्द्रान् , प्रेतत्पीयूषयूषानुकरणनिपुणप्रौढवाणीविलासान् । प्रादुर्भूतप्रभूतप्रवरतरपटुप्रोल्लसद्भि..... युक्त्या, वन्दे विश्वप्रतीक्ष्यान् भुवनजनहितान् श्रीमदाचार्यसिंहान् ॥७२॥ 2 निश्शेषवाङ्मयार्णवपारङ्गमिनः प्रशस्तमतिविभवाः । श्रीमद्धन[दि] विजया वाचककुलमौलिसन्मणयः ॥७३॥ __ जैनप्रमाणसयुक्तितर्जितानेकवादिनः। श्रीऋद्धि विजयाह्वानाः प्राज्ञाः सद्बुद्धिऋद्धयः ॥ ७४ ॥ उदयश्रीपरिरम्भणनिपुणाः श्रीउदयविजयवरविज्ञाः। शमरसभावितचित्ता विबुधाः श्रीशान्तिविजयाश्च ॥७॥ कर्पूरविजयविबुधाः सुयशःकर्पूरवासितदिगन्ताः । वैराग्यरञ्जितान्तःकरणा रामादिविजयबुधाः ॥ ७६ ॥ वाचस्पतिसममतयो मत्यादिमविजयनामवरविबुधाः । नयविजयनामधेया विपश्चितः परमनयनिपुणाः ॥७७॥ • यतिजनपोषणदक्षाः कृष्णाद्विजयाभिधानवरविज्ञाः । सुविनीतशिरोमणयो विनीतविजयाश्च विद्वांसः ॥७८॥ श्रीपूज्यचरणसेवारसिका अमरादिविजयवरसुधियः । यतिजनशिक्षादक्षा विचक्षणा वीरविजयाश्च ॥ ७९ ॥ इत्यादिसाधुसाध्वीप्रमुखाणां तातचरणभक्तानाम् । नत्यनुनती प्रसाधे श्रीमत्तातैः प्रसादपरैः ।। ८०॥ किञ्चावत्या अपि च प्राज्ञाः कनकादिविजयनामानः । गणयश्च ऋद्धिविजया गणयो मेर्वादिविजयाश्च ॥८१॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238