Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
लावण्यविजयप्रेषिता विज्ञप्तिका
१८९
लब्धिविजयाश्चगणयो दयादिविजयश्च मुक्तिविजयगणिः । भक्तिविजयगणिनामा नयादिविजय-हर्षविजयगणी ॥ ८२॥ मनयश्च धीरविजया मनी तथा सत्यविजय-सखविजयो। क्षेमविजयमुनिनामा तेजविजयोदयविजयमुनी ॥ ८३ ॥ सौभाग्यश्रीः साध्वी, साध्वीवृद्धा तथा च राजश्रीः ।
सुमतिश्रीरितिं साध्वी, कनकश्रीनाम साध्वी च ॥ ८४ ॥ इत्येवं यति-यतिनीसमुदायोऽत्रत्यसकलसङ्घश्व । श्रीतातचरणचरणाम्बुजरुहयुगं नमीति मुदा ॥ ८५ ॥ किञ्च शिशूचितकृत्यं प्रसादनीयं प्रसादमाधाय । पार्वणशशधरसुन्दरवदनैः श्रीतातचरणवरैः ॥ ८६ ॥ श्रीतातचरणनाम्नाऽत्रत्याः श्रीजिनवराः प्रणम्यन्ते । तन्नतिसमये तातैः शिशुलेशश्चेतसि विधेयः ॥ ८७ ॥ लेखं लिखता मयका यदि क्षुण्णं लिपीकृतं भवति । तत् सर्वं क्षन्तव्यं श्रीमत्तातैः प्रसादपरैः ॥ ८८॥ कोशीकृतकरकमलो भूमितलन्यस्तमस्तकः सततम् । शिष्याणुमेरुविजयो विशेषतो नमति सद्भक्त्या ॥ ८९ ॥
विज्ञप्तिपत्री विलसत्कनीयं श्रीतातपाणिग्रहणाभिलाषा ।
विशुद्धवर्णादियुताऽस्ति तस्मात् फलान्विता स्याच तथाऽवधार्यम् ॥ ९ ॥ मार्गशीर्षसिते पक्षे पूर्णिमायां लसत्तिथौ । मया सद्भक्तियुक्तेन लेखोऽलेखीति मङ्गलम् ॥ ९१ ॥
। योधपुरनगरात् पं० लावण्यविजयगणिप्रेषितो विज्ञप्सिलेखः॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238