Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 212
________________ श्रीआगमसुन्दरगणिलिखिता विज्ञप्तिका लक्ष्मोपधेर्यदतिसुन्दरपादसङ्गं, लब्ध्वाऽपि वीक्ष्य भुवनत्रयकुक्षिगानाम् । पुजैदृशां कुमुदितं विधुमाशु पश्यैः, सौभाग्यभाग्यचणमीहितदः स वः स्तात् ॥१५॥ दम्भं विधाय न विधुः किमु लाञ्छनस्य, सेवां व्यधत्त भुवि जेतुमनाः स्वशत्रुम् । यत्पादपङ्कजयुगस्य विधुतुदन्तं, हन्यात्तमां स तमसां वितमावितानम् ॥१६॥ संसारजीवननिधौ परपोतदंह्रियुग्मं विधाय किमु लाञ्छनदम्भमिन्दुः । भेजे यदीयमिह तत्परपारलिप्सुः, श्रेयांसि वः प्रदिशतात् स सदा जिनेन्द्रः ॥ १७ ॥ सा सौम्यता न किमधारितमां यदङ्गसङ्गेन्दुना समजनाम्बकमोदिनीयम् । पादावुपास्य जगतीह सदङ्कदम्भाज्जीमूततात् स भवतां भविकवतत्याम् ॥१८॥ लक्ष्मच्छलादियदयोगिवधूविघातसञ्जातपातकभरैमलिनप्रतीकः । नो तजिहासुरिह किं यदगांह्रियुग्ममङ्गीकरोति शयितोऽस्तु स वोऽथ हन्ता ॥ १९॥ भक्त्या नमत्रिदशदैत्यनराधिपानां, मौलौ यदंहिजलजन्मरजःकणौधः । रम्ये परागतितमां तदुपास्तिमाप्य, लक्ष्मच्छलात् प्रतिदिनैककलाविवृद्धेः ॥ २० ॥ किं नाधरद्विजपतिः स्वविमानमुच्चैः, प्रोल्लालसद्रुचिरकान्तिकलापलीढः । श्रेयोजुषो रुचिमुषस्तपनस्य धन्यं मन्योऽस्तु वो जिनपतिः सततं शिवाय ॥ २१॥ यत्पादपङ्कजयुगस्य सुसङ्गमाप्य, नाभूदुडुप्रमुखसंहतिभिः सदा किम् । सेव्योऽङ्कदम्भत इहेन्दुरतुच्छकान्तिर्नेनेतु केतुवितति क्षयति स वोऽर्हन् ॥ २२ ॥ सुस्मेरनीरजननाङ्कगतत्रिरेखाशोभां विधुर्जरिहरीति यदंहियुग्मे । लिं लक्ष्मगः स्म नमदिन्द्रकमौलिचुम्बी, हीरांशुलीढ इह वोऽसुखहानये स्तात् ॥ २३ ॥ यत्पादसङ्गममवाप्य किमङ्कदम्भान्नो ध्रीयते स्म विधुनाऽपि सुधाकरत्वम् । अन्यानवाप्यममलं सुजगत्प्रतीतं, कन्दर्पदर्पमिदयं भवतात् स वोऽहँन् ॥ २४ ॥ जर्गढि लाञ्छनमिषाद् विधुरंह्रियुग्मं, यस्येत्यवेत्य जगतीत उदारमन्यत् । श्रेयःपदं स्म न मनोरमभाः स नाथं, नाथः स वः सकलमाधिमपाक्रियात्तम् ॥ २५॥ कृतं ब्रह्मभूपालपुत्रं पवित्रं, प्रणं नेमिनाथं सनाथं प्रभाभिः । सदा तं यदंहिद्वयं देवदेवो, मुदा बाभजत्युल्लसन्मानसाब्जः ॥ २६ ॥ यत्पादपाथोजरजःकणान्मुदा, मूर्ध्नि स्वकीये कृतिनः कृतादराः । शेषामिवेन्द्राः सुरदैत्यभूस्पृशां, स श्रेयसे वो मुनिसुव्रतो जिनः ॥ २७ ॥ एतान् जिनान् प्रणतिमखुलपङ्कजाङ्के, राजत्तमोऽद्वलसितच्छदकान्तकान्तिम् । संबिभ्रतो लसदनन्तमुदा विधाय, नम्रीभवजनमनीषितदानदक्षान् ॥ २८॥ ___ अथ नगरवर्णनम्श्रीमति श्रीमते भ्राजते धोरणी, तत्र सार्वोकसां जीर्णदुर्गे भृशम् । मुष्णती मञ्जलव्योमयानश्रियं, व्योमचुम्ब्युच्चचूलाश्रिया शालिनी ॥ २९ ॥ श्रीजीर्णदुर्गनगरं नकरं पुरोगं, देदीप्यते भृशमनेकधनीश्वराढ्यम् । श्रीपूज्यपूज्यचरणामलसद्विकाशि, पाथोजरेणुसुरभीकृतभूमिभागम् ॥ ३०॥ श्रीमत्तीर्थकृतां सुखोत्करकृतां भास्वत्तराभाभृतां, यत्र श्रीमति भाखति प्रियसुधाश्वेतीकृते विश्रुते । प्रासादद्वयमक्षुलोचशिखरे शश्वजगच्छेखरे, राजद्रकलशायते दिनपतिर्दीप्यत्प्रतापोधतः ॥ ३१ ॥ Jain Education Intemational For Private & Personal Use Only ation Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238