Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 205
________________ १८४ विज्ञप्तिलेखसंग्रह इत्यनेकप्रकारैस्तैः तैावर्णितैर्बुधैः । अभङ्गभाग्यसौभाग्यवैराग्यगुणगुम्फितैः ॥ ११५॥ औदार्यधैर्यगाम्भीर्यशौर्यस्थैर्यार्जवोर्जितैः । तैः श्रीसूरिवरैः सौववपुःपाटवसूचकः ॥ ११६॥ लेखोल्लेख इवोलेख्यहृलेखः सुखपोषकः । प्रेष्यः प्रेष्याणवे पूर्णहृदयानन्दसम्पदे ॥ ११७ ॥ यथा प्रथाविशेषाय समवायतदागमः । भवेदभिभवे नारिवर्गभ्यस्त्यज्यते जनः॥११८॥ सौख्यं सौहित्यमह्नाय हृदयास्थानिकामलम् । अलङ्करोति तल्लेखलेखागमनतः खलु ॥ ११९ ॥ अवधार्या हृदाधार्यैः श्रीआचार्यैर्नतिर्मम । त्रिसायं मयि कार्या च कृपामृतभृता सुदृक् ॥ १२०॥ तथा तत्रत्यसत्याराजसुन्दरधीमताम् । येषां श्रीगुरुसेवायां साम्प्रतं निभृतं मनः ॥ १२१ ॥ श्रीगुरुक्रमसेवायां रेवायामिव हस्तिनाम् । श्रीहस्तिविजयाख्यानां सत्सौख्यानां मनीषिणाम् ॥ १२२ ॥ विदुषां ऋद्धिसोमानां परकार्यविधायिनाम् । श्रीमद्गुरुपदाम्भोजभ्रमरायितचेतसाम् ॥ १२३ ॥ ऋजुखभावसजुषां सत्याद्विजयधीमताम् । दर्शनाद्विजयाह्वानां सुधियां खच्छचेतसाम् ॥१२४॥ न्यायन्याय्यकविव्यक्तशक्तिसंसक्तसंविदाम् । उदयाद्विजयाभिख्यसङ्ख्यावढ्या(?)तवज्रिणाम् ॥ १२५॥ श्रीमुक्तिविजयव्यक्तवतंसानां यशस्विनाम् । हर्षाबिजयसंज्ञानां पण्डितानां सुमेधसाम् ॥ १२६ ॥ रवेर्विजयसंज्ञानां प्राज्ञानां पीनमेधसाम् । सिद्ध्यादिविजयाख्यानां गणीनां गुणशालिनाम् ॥१२७॥ सद्रङ्गगङ्गविजयमुनीनामधिकौजसाम् । वीराद्विजयनाम्नां च धाम्नां सद्गुणसम्पदाम् ॥ १२८॥ कुशलाद्विजयाह्वानां प्रह्वानां गुरुसेवने । कमलाद्विजयानां च देवाद्विजयसंज्ञिनाम् ॥ १२९ ॥ विजयात्सोमनाम्नां च व्रतमाजां महात्मनाम् । कर्पूरविजय-प्रेमविजयाख्यव्रतस्पृशाम् ॥ १३० ॥ साधोर्विजयसाधूनां पुण्याद्विजयसंज्ञिनाम् । देवादिविजयानां च मतेर्विजयसंज्ञिनाम् ॥१३॥ इत्यादिसर्वसाधूनां साध्वीनां च यथाक्रमम् । प्रसाद्याऽनुनतिस्तत्र भवद्भिर्नतवत्सलैः ॥ १३२ ॥ तथा चात्र स्थिता विद्वद्धन्यादिविजयाह्वयाः । गणयो हर्षविजयाः कर्णाद्विजयनामकाः ॥१३३ भोजादिविजयाबाना दयादिविजयाभिधाः । गणयश्च तथा देवात् जयाद्विजयसंज्ञकाः ॥१३४॥ जिनात्सत्यान्मते नो विजयाद्या मुमुक्षवः । तथा वीरर्षिःडाहर्षि-साध्वीप्रभृतयोऽमि च ॥१३५॥ पण्डितशुभादिविजयाः तच्छिष्याश्चन्द्रविजयगणयोऽत्र । वार्द्धक्यवयोप्युग्रतपश्चरणगुणसजुषः॥१३६॥ नमन्ति नित्यं भूलग्नभाला बाला इव ध्रुवम् । श्रीमत्प्रभुपदाम्भोजमम्भोजमिव षट्पदाः॥१३७ ॥ अत्रत्योऽपि पवित्रात्मा सङ्घोऽप्यनघभक्तितः। नमीति प्रभोः पादपद्ममन्वहमादरात् ॥ १३८॥ यथा कोक इवालोकं भावनीयं समीहते । तथा प्रभुमुखाम्भोजदर्शनं दूरगोऽप्यहम् ॥१३९ ॥ कुर्वे गुरुगुणोद्घोषमन्तःसभमदम्भहृत् । मोदन्ते स्म तदा सभ्यास्तद्वक्तुं वाक्पतिः प्रभुः ॥ १४०॥ तथा तथा प्रथाकर्तुर्गुणोत्कर्षः प्रवर्द्धते । प्रासादकारकस्येवोन्नतकार्यविधायिनः ॥ १४१॥ वलमानं कृपापत्रं प्रसाद्यं हितवत्सलैः । अर्हद्वन्दनवेलायां स्मारणीयोऽहमन्वहम् ॥ १४२ ॥ कियानुदन्तः प्रज्ञानां विज्ञेयः पत्रवाचनात् । अश्वयुक्पूर्णपूर्णायां पूर्णा पत्रीति मङ्गलम् ॥ १४३॥ ॥ इति भद्रम् । शुभं भवतु ॥ ॥ स्तम्भतीर्थात् उ० श्रीकमलविजयग० पं० रविविजयलिखितम् ॥ ॥ ब्रह्माण्डाखण्डमण्डलशुक्तिसम्पुटस्फुटविमलमुक्ताफलायमानआचार्यवर्य ... विजयसिंहसूरिपदपङ्कजानां विज्ञप्तिलेखः॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238