Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 199
________________ 13 13 १७८ 20 विज्ञप्तिलेखसंग्रह सप्रभायां सभायां श्रीभगवत्यङ्गवाचनम् । व्याख्याने श्रोतृपुरतः स्वाध्याये साम्प्रतं पुनः ॥ २९ ॥ ज्ञाताधर्मकथाङ्गस्य वाचनं पाठनं पुनः । पाठाहणां तथा योगोपधानोद्वाहनादिकम् ॥ ३० ॥ धर्मकृत्यमभूत् सर्वं पर्व पर्युषणाऽपि च । क्रमायाता सती पर्वोचितसर्वोत्सवोदधिः ॥ ३१ ॥ माडम्बरं सकुशलं साधुसन्मानिताधिकम् । श्रीपूज्यचरणोपास्तिस्तत्राजनि निबन्धनम् ॥ ३२ ॥ अपरम् - येषामशेषवैदुष्यभूषणीभृतधीमताम् । गुणाः केनापि नो मेया ज्ञार्निनाऽपि महात्मना ॥ ३३ ॥ एकतो यदि पश्यन्ति कवयो यान् स्फुरत्तमान् । जल्पेनैकेन नो तर्हि वर्णनां कर्तुमीशते ॥ ३४ ॥ अहो ! रूपमहो तेजः ! काऽप्यहो दक्षताऽद्भुता ! । अहो औदार्य चातुर्य धैर्य - गाम्भीर्य -वर्यताः ॥ ३५ ॥ नम्यता येषु लोकानां सुदृशां येषु गेयता । ध्येयता येषु धीराणां वर्ण्यता येषु धीमताम् ॥ ३६ ॥ भक्तिपीयूषधाराभिर्वर्षणं कर्त्तुमिष्यते । पुष्करावर्त्तपाथोदं रूपेण मयकाऽनिशम् ॥ ३७ ॥ धर्मक्षेत्रेषु येष्वेवं शस्यसंपत्तिहेतवे । अतिस्निग्धेन मुग्धेन रासैस्तैस्तैः प्रसृत्वरैः ॥ ३८ ॥ - युग्मम् । अस्मादृशाश्वकोराभा येषु चन्द्रेष्विवाधिकम् । दधन्ते परमानन्दमेकपाक्षिकरागिणः ॥ ३९ ॥ एकपक्षोऽपि रागोऽयं क्रमशः सर्वैर्वर्द्धते । अन्तरा यदि नैव स्युः परैर्वादलवृन्दवत् ॥ ४० ॥ भक्तिरागो घनो येषु समुल्लसति मादृशाम् । पैशुन्यकारिणो वाता यदि न स्युस्तदन्तरा ॥ ४१ ॥ यद्वा वाता अपि प्रोचैर्मेलकाः सज्जना इव । औदीच्याः केऽपि भुवने वर्षॆतेऽभ्रा यदीरिताः ॥ ४२ ॥ - युग्मम् । इत्यनेकगुणश्रेणीजन्यो रागो दिवानिशम् । राजते मादृशां येषु चक्राणां भास्करेष्विव ॥ ४३ ॥ तैः श्रीपूज्यैर्जगत्पूज्यैर्वन्दना मामकी भृशम् । धर्त्तव्या मानसेऽन्येषामपि सा स्मृतिगोचरे ॥ ४४ ॥ ढौकनीया तथा श्रीमत्पूज्यपत्कजसेविनाम् । अनुनामश्च नामश्च प्रसाद्योऽत्र व्रतस्पृशाम् ॥ ४५ ॥ 1 तथा हि विनीतविजयाह्वानाः श्रीवाचकधुरन्धराः । रविवर्द्धन विद्वांसो यशोविजयपण्डिताः ॥ ४६ ॥ गणयस्तत्त्वविजया अन्येऽप्यज्ञातसेवकाः । ये केऽपि तेषां व्रतिनां सर्वेषां पूज्यसेविनाम् ॥ ४७ ॥ अत्र च - पण्डिता धीरविजया वीरादिविजया बुधाः । पण्डिता रविविजयाः शिवादिविजयास्तथा ॥ ४८ ॥ जीतादिविजया देवविजया मुनयः पुनः । जिनादिविजया लालपुरे च गणिपुङ्गवाः ॥ ४९ ॥ कमलाद्विजयाह्वानाः सधर्मविजयाभिधाः । एतेषां मुनिरूपाणां नतिर्धार्या महत्तमैः ॥ ५० ॥ अत्रोचितं प्रसाद्यं च कृत्यं कृत्यविदुत्तरैः । श्रीमतोऽनघसङ्घस्यावधार्या वन्दना पुनः ॥ ५१ ॥ कार्त्तिकस्य सिते पक्षे सप्तम्यां सोमवासरे । प्रेम्णा विज्ञप्तिलेखोऽयं लिखितो रातु मङ्गलम् ॥ ५२ ॥ ॥ इति शुभम् ॥ पूज्याराध्यभट्टारकसभासरोजराजीराजीविनीजीवितेश्वरभट्टारकश्री १००८ श्रीविजयप्रभसूरीश्वर चरणसरोरुहाणामियं विज्ञप्तिः । श्रीजीर्णदुर्गमहानगरे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238