________________
13
13
१७८
20
विज्ञप्तिलेखसंग्रह
सप्रभायां सभायां श्रीभगवत्यङ्गवाचनम् । व्याख्याने श्रोतृपुरतः स्वाध्याये साम्प्रतं पुनः ॥ २९ ॥ ज्ञाताधर्मकथाङ्गस्य वाचनं पाठनं पुनः । पाठाहणां तथा योगोपधानोद्वाहनादिकम् ॥ ३० ॥ धर्मकृत्यमभूत् सर्वं पर्व पर्युषणाऽपि च । क्रमायाता सती पर्वोचितसर्वोत्सवोदधिः ॥ ३१ ॥ माडम्बरं सकुशलं साधुसन्मानिताधिकम् । श्रीपूज्यचरणोपास्तिस्तत्राजनि निबन्धनम् ॥ ३२ ॥ अपरम् -
येषामशेषवैदुष्यभूषणीभृतधीमताम् । गुणाः केनापि नो मेया ज्ञार्निनाऽपि महात्मना ॥ ३३ ॥ एकतो यदि पश्यन्ति कवयो यान् स्फुरत्तमान् । जल्पेनैकेन नो तर्हि वर्णनां कर्तुमीशते ॥ ३४ ॥ अहो ! रूपमहो तेजः ! काऽप्यहो दक्षताऽद्भुता ! । अहो औदार्य चातुर्य धैर्य - गाम्भीर्य -वर्यताः ॥ ३५ ॥ नम्यता येषु लोकानां सुदृशां येषु गेयता । ध्येयता येषु धीराणां वर्ण्यता येषु धीमताम् ॥ ३६ ॥ भक्तिपीयूषधाराभिर्वर्षणं कर्त्तुमिष्यते । पुष्करावर्त्तपाथोदं रूपेण मयकाऽनिशम् ॥ ३७ ॥ धर्मक्षेत्रेषु येष्वेवं शस्यसंपत्तिहेतवे । अतिस्निग्धेन मुग्धेन रासैस्तैस्तैः प्रसृत्वरैः ॥ ३८ ॥ - युग्मम् । अस्मादृशाश्वकोराभा येषु चन्द्रेष्विवाधिकम् । दधन्ते परमानन्दमेकपाक्षिकरागिणः ॥ ३९ ॥ एकपक्षोऽपि रागोऽयं क्रमशः सर्वैर्वर्द्धते । अन्तरा यदि नैव स्युः परैर्वादलवृन्दवत् ॥ ४० ॥ भक्तिरागो घनो येषु समुल्लसति मादृशाम् । पैशुन्यकारिणो वाता यदि न स्युस्तदन्तरा ॥ ४१ ॥ यद्वा वाता अपि प्रोचैर्मेलकाः सज्जना इव । औदीच्याः केऽपि भुवने वर्षॆतेऽभ्रा यदीरिताः ॥ ४२ ॥ - युग्मम् । इत्यनेकगुणश्रेणीजन्यो रागो दिवानिशम् । राजते मादृशां येषु चक्राणां भास्करेष्विव ॥ ४३ ॥ तैः श्रीपूज्यैर्जगत्पूज्यैर्वन्दना मामकी भृशम् । धर्त्तव्या मानसेऽन्येषामपि सा स्मृतिगोचरे ॥ ४४ ॥ ढौकनीया तथा श्रीमत्पूज्यपत्कजसेविनाम् । अनुनामश्च नामश्च प्रसाद्योऽत्र व्रतस्पृशाम् ॥ ४५ ॥
1
तथा हि
विनीतविजयाह्वानाः श्रीवाचकधुरन्धराः । रविवर्द्धन विद्वांसो यशोविजयपण्डिताः ॥ ४६ ॥ गणयस्तत्त्वविजया अन्येऽप्यज्ञातसेवकाः । ये केऽपि तेषां व्रतिनां सर्वेषां पूज्यसेविनाम् ॥ ४७ ॥
अत्र च -
पण्डिता धीरविजया वीरादिविजया बुधाः । पण्डिता रविविजयाः शिवादिविजयास्तथा ॥ ४८ ॥ जीतादिविजया देवविजया मुनयः पुनः । जिनादिविजया लालपुरे च गणिपुङ्गवाः ॥ ४९ ॥ कमलाद्विजयाह्वानाः सधर्मविजयाभिधाः । एतेषां मुनिरूपाणां नतिर्धार्या महत्तमैः ॥ ५० ॥ अत्रोचितं प्रसाद्यं च कृत्यं कृत्यविदुत्तरैः । श्रीमतोऽनघसङ्घस्यावधार्या वन्दना पुनः ॥ ५१ ॥ कार्त्तिकस्य सिते पक्षे सप्तम्यां सोमवासरे । प्रेम्णा विज्ञप्तिलेखोऽयं लिखितो रातु मङ्गलम् ॥ ५२ ॥
॥ इति शुभम् ॥
पूज्याराध्यभट्टारकसभासरोजराजीराजीविनीजीवितेश्वरभट्टारकश्री १००८ श्रीविजयप्रभसूरीश्वर चरणसरोरुहाणामियं विज्ञप्तिः । श्रीजीर्णदुर्गमहानगरे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org