Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 198
________________ तपागच्छपतिभट्टारकश्रीविजयप्रभसूरि प्रति पं० श्रीउदयविजयगणिप्रेषिता [१६] - विज्ञप्ति का - खस्तिश्रीपार्श्वनाथस्य पादपद्मनखांशवः । विस्तारयन्ति तरणेः प्रकाशमिव भानवः ॥ १॥ त्रयी धर्मार्थकामानां यदुपास्ति लतासुमम् । तत्फलं पुनराख्यातं कैवल्याद्याः श्रियोऽखिलाः ॥२॥ श्रद्धामात्रमपि प्रोच्चैर्यत्र सौख्यनिबन्धनम् । तद्युक्ताया उपास्तेस्तु फलं केन प्रमीयते १ ॥३॥ ज्ञानदर्शनचारित्रत्रयी यस्मिन्ननावृता । इन्दौ द्योतित्वसौम्यत्वाह्लादकत्वत्रयी यथा ॥४॥ यस्मादाविरभूत् पापोपशामकगुणोऽद्भुतः । वादलानावृतस्यांशोरिव पङ्कप्रशोषिता ॥५॥ अनावरणरूपाय तस्मै भगवतेऽहते । श्रीमते पार्श्वनाथाय नमः शाश्वतसम्पदे ॥ ६॥ एनमेनस्तमःस्तोमनिराकरणभास्करम् । सर्वातिशयसम्पन्नं प्रणम्य परमाशयम् ॥७॥ धनं धान्य हिरण्यं च मणिमाणिक्यजातयः। पयांसीव प्रयोराशौ यत्रासंख्याः पदे पदे ॥८॥ गृहे गृहे विराजन्ते यत्र रामा रमा इव । ईहमाना यथाभीष्टं पुरुषोत्तममुत्सुकाः ॥९॥ परिभूता अपि परैरुचाः स्युरुपकारिणः । ध्वजाहतोऽपि यचैत्यात् कुम्भाभापूरकोंशुमान् ॥१०॥ चन्द्रकान्तगणाश्चन्द्रशालायां यत्र मण्डिताः । भृशं स्निग्धा इवाऽऽभान्ति राज्ञासिक्त्यः(१) किलामृतः ॥११॥ गगने च पुरे चापि तारकैर्मणिभिर्भूते । सौम्यो नीत्या च कौमुद्या राजा चित्तदृशोः प्रियः ॥ १२ ॥ यत्र कर्पूरकस्तूर्यश्चूर्णिता अपि भोगिभिः । कुर्वते भृशमामोदं महतां रीतिरीदृशी ॥ १३॥ टङ्कच्छिन्नं कषारूढं तापितं च पुनः पुनः । यत्र खर्ण महामूल्यं सेयं सुजातरूपता ॥ १४ ॥ निशायामपि रत्नानि सुप्रकाशानि यद्गृहे । व्यालुप्यन्ते न तमसा नूनं सेयममूल्यता ॥ १५॥ श्रावक-श्राविका यत्र धर्मकर्मणि कर्मठाः । चकोरा वा चकोर्यों वा श्रीपूज्यशशिदर्शने ॥१६॥ भरतैरवतप्रायाण्यन्यक्षेत्राणि मन्महे । श्रीपूज्यपावितं क्षेत्रं महाविदेहभरिव ॥१७॥ नियं धर्मार्थकामाव्ये श्रीपूज्यपदपाविते । तस्मिन् श्रीजीर्णदुर्गाख्ये व्यावण्ये पण्डितैरिति ॥ १८॥ अथ श्रीसिद्धपुरतः पुरतः सुखपूरकात् । अपूर्वचातुरीयुक्तश्राद्धलोकसमन्वितात् ॥ १९॥ अप्रमेयगुणापूर्णादसद्ध्येयविधिश्रितात् । बृह. पूज्ययुगलीपवित्रीकृतभूतलात् ॥२०॥ श्रीपूज्यानामिदानीं च दर्शनोत्सुकमानवात् । श्रावक-श्राविकादत्तयथासमयसौख्यतः ॥ २१ ॥ प्रीतचेता विनीतात्मा श्रीपूज्यगुणरागवान् । प्रेमपाथोधिरुद्वेल औत्सुक्यतरुवारिदः ॥ २२ ॥ द्वादशावर्तविधिनाऽभिवन्ध प्रणयाञ्चितः । प्रीत्या उदयविजयो विनीतात्मा तनोत्यमूम् ॥ २३॥ विज्ञप्ति ज्ञप्तिधर्तव्यां (१) सुदक्षजनकामिताम् । विनयादिगुणश्रेणीमणीमञ्जूषिकामिव ॥ २४ ॥ यथावत् कृत्यं चात्रव्यतिक्रान्ते निशाध्वान्ते घातिकर्मणि दूरतः । केवले प्रकटीभूते सूर्यालोके जगन्मुनेः ॥ २५ ॥ वनादनान्तरं यान्तः पक्षिणत्रिदशा इव । सूर्याशुकेवलोत्पत्तिं ख्यापयन्तीव सोधमाः ॥२६॥ प्रातस्त्यनूतनोदोघेहर्षकोलाहलोपमैः । अङ्कतैर्मधुपानां तु वीणादीनामिवारवैः ॥ २७ ॥- युग्मम् । इति घ्यावर्णनौचित्यमादधाने समन्ततः । प्रत्यूषसमये जाते दिक्कन्यानवयौवने ॥२८॥ वि. म.ले.२३ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238