Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 196
________________ श्रीधनविजयगणिप्रेषिता विज्ञप्तिका श्रीतातनाममत्रस्मरणासाधारणैककारणतः । यद्वदिनकरकिरणैस्सहस्रपत्राणि विकसन्ति ॥ ५६ ॥ अपरं चयन्नाममन्त्रस्मरणं सुधातोऽधिकं परिप्रत्यवधारयामि । आद्यं चिदानन्दकरं जनानां पीता सती तुष्टिकरा यतः सा ॥५॥ येनात्मरूपेण तृणीकृतः प्राक् , श्रीनन्दनः साधुजनोपगीः । भवाम्बकोद्भूतहिरण्यरेतसा, नो चेत् कथं दह्यत एव शीघ्रम् ॥ ५८ ॥ यद्वक्तु राकाशशिना समत्वं, सम्बिभ्रता चन्द्रमसा यदाप्तम् । दुश्चिह्नमद्यापि धनाश्रयस्थस्त्वदर्शयत् पङ्कमिषात् किमिन्दुः ॥ ५९॥ कैलासशैलोदरगौरकान्तियशो यदीयं नितरां भ्रमत् किम् । कृत्वा त्रिलोकीं धवलामवैमि मरुत्पथे, क्रीडति चन्द्रदम्भात् ॥ ६०॥ धर्मोपदेशावसरे यदीयमुखेन्दुसंसूतवचःसुधा यत् । निपीय केचित सुमनःस्वभावं, केचित् व्रजन्त्यक्षरतां च धन्याः॥६१ ॥ दृष्टेष्वनिष्टेषु च यस्य साम्यं, संवीक्ष्य दोषाः कृतरोषपोषाः । कुशिक्षशो(शै?)क्षा इव ते वदोषमज्ञायमाना हि परं प्रपन्नाः ॥ ६२॥ यस्योत्कटं ध्यानबलं विचार्य, दूरं गताः सप्त दरा भियेव । तेऽप्राप्यमाणा वसतिं जनेऽस्मिन् , यद्वैरिणां वासगृहं प्रविष्टाः ॥ ६३॥ येन खगत्या जिनराजहंसो, विलजितोऽगाद् वरमानसे किम् । यद्वक्त्रमित्रं कमलं निरीक्ष्य, वैरं स्मरन् चञ्चुपुटेन हन्ति ॥ ६४ ॥ निषेवतेऽयं जलधिस्समेत्य, पदोर्ध्वरेखाच्छलतः किमेषः । विज्ञप्तिकां कर्तुमितीश ! जह्यान्मे क्षारदोषं जगतामनिष्टम् ॥ ६५ ॥ योऽगाधसंसारपयोधिमध्ये, पतजनानां करुणास्पदानाम् । खवाक्तरण्यामधिरोप्य पारं, नयत्यजस्रं वरनाविको यथा ॥ ६६ ॥ कर्पूरपूरोपमया यदीयकीर्त्या त्रिविश्वं भृतमेवमन्ये । चेन्नैवमेषा जगति प्रपूर्णे, कुतोऽन्यथा प्राज्ञजनैः प्रगीयते ॥ ६७॥ सद्विद्यया वज्रमुनीश्वरस्य, लब्ध्येन्द्रभूतेस्तपसोबलेन । श्रीमजगच्चन्द्रमुनीशितुः सद्ध्यानेन च श्रीमुनिसुन्दरस्य ॥ ६८॥ श्रीसिद्धसेनस्य कवित्वशक्त्या, साम्येन च श्रीगुरुहीरसूरेः। षट्त्रिंशदाचार्यगुणैर्गरिष्ठो, यः साम्यमाबिभ्रति सूरिराजाम् ॥ ६९ ॥ गुणैकसद्रत्नसुरोहणानां, कृपारसप्रीणितसज्जनानाम् । वस्थैर्यतस्तर्जितमन्दराणां, गाम्भीर्यतो धिक्कृतसागराणाम् ॥ ७० ॥ श्रेयोवतां भाग्यवतां तपस्विनां, महात्मनां पुण्यवतां यशस्विनाम् । भक्त्योल्लसद्वासववन्दितानां, तेषां गुरूणां नयनन्दितानाम् ॥ ७१ ॥ वहस्तलिखितस्याशुलेखस्यागतिमुत्तमाम् । समीहते शिशुर्नित्यं मनःसन्तुष्टिपुष्टये ॥ ७२॥ तेन श्रीमद्गुरुभिर्गुणगुरुभिः प्रवरबुद्धिजितगुरुभिः । छन्दोऽलङ्कतितर्कागमशास्त्रे निहितनिजमतिभिः ॥ ७३ ॥ सौवश्रीसारवपुःपरिकरनैरुज्यसूचनाचतुराः । लेखाः प्रसादनीयाः प्रसद्य सद्यः खकीयशिशौ ॥ ७४॥ प्रणतिरवधारणीयौपवैणवं शैशवी विशेषेण । श्रीतातैरभ्रान्तैर्निष्णातैर्विश्वविख्यासैः ॥ ७५॥ 20 Jain Education Intemational ducation Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238