Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 194
________________ १७३ श्रीधनविजयगणिप्रेषिता विज्ञप्तिका गर्भे समागत्य जिनेन येन निर्धारिता दोषततिर्जनानाम् । सा तं समासादितमेव यत्तत् , तथ्याऽभवत् शम्भव इत्यभिख्या ॥१५॥ यदिष्टदानाम्बुदवर्षणेन, नृणां परिप्लावितदौःस्थ्यवृक्षाः । न ते प्ररोहन्ति पुनर्यथा सरित्पूरण सम्प्लावितपार्श्ववृक्षाः ॥ १६ ॥ संवेभि कालत्रयमेव तत्त्वत्रयं च विश्वत्रयमित्यवैमि। प्रज्ञापनाथे शिरसि खकीये छत्रत्रयं योऽत्र जिनो बभार ॥१७॥ सद्वर्ण............वा निरासीद्, यस्तीर्थराडित्यवधार्य येह । यत्पार्श्वतो भक्तिभृतां न चैवं, ज्ञानादिरत्नस्य कुतोऽन्यथाऽऽप्तिः ॥१८॥ सेनासतीकुक्षिसरोमरालंजितारिसर्वावनिनाथसूनुम् । तं तीर्थनेतारमनन्तसारं, प्रेम्णा प्रणम्यामलशम्भवाख्यम् ॥ १९ ॥ ॥ इति श्रीदेववर्णनम् ॥ पुरं स्फुरत् सूर्यपुराभिधानं, मनुष्यरत्नप्रवरं निधानम् । कस्यास्ति नाह्लादकृते सुतेजश्चक्षुःपथस्थं हि यथा सुवर्णम् ॥ २०॥ वैडूर्यमुक्ताफलशङ्खशुक्तिप्रवालमुख्यैर्विविधैः पदार्थैः । भृशं भृतायाः पुरतो हि यस्या, जलावशेषत्वमवाप वार्द्धिः ॥ २१ ॥ श्रीमद्गुरूणां चरणारविन्दरजोम्भसा क्षालितभूतलायाः । अनेकसत्पुण्यजनाश्रिताया, यस्याः पुरस्तादलकाऽलकामा ॥२२॥ जाने दृशोहीदकरानानां, पुरं सुधाकुण्डमवेत्य यत् किम् । तद्रक्षणार्थ स्वयमेव मूर्तः, शेषोऽत्र वप्रच्छलतोऽभ्युपेतः ॥२३॥ पुराद् यतः श्रीनिलयादलक्ष्मीप्रवेशलेशप्रतिषेधनार्थम् । मन्येऽहमेवं विहिता विधात्रा, किं खातिका वारिभृता समन्तात् ॥ २४ ॥ यस्मिन् पुरासन्नवने निकामं, पिकाङ्गनानां मिषतस्समेताः । किं नाकनार्यः सुरलोकतो द्राक्, सङ्कीर्तयन्त्यः सुगुरोर्यशोऽत्र ॥ २५॥ अगण्यपुण्यप्रभवस्य लक्ष्मी, निरीक्ष्य यस्यामरपत्तनं किम् । . खर्गे निवासं व्यरचत् वितर्के, विषस्सचित्तं(?) घनलज्जयैव ॥ २६ ॥ चन्द्रानना वारिजपत्रनेत्रा, यत्राङ्गना वीक्ष्य गवाक्षसंस्थाः। ऊहं दधुव्र इति पूर्णिपायामुदेति किं चन्द्रशतं रजन्याम् ॥ २७॥ तेनुः सकर्णाः प्रविलोक्य तक, यस्योपकण्ठे तपनात्मजां नदीम् । समागताऽस्तीति विलोकितुं किं, पितुः स्वकीयस्य पुरं प्रबर्हम् ॥ २८॥ सुश्रावकान् यत्र निरीक्ष्य मन्ये, जीवादिसत्तत्त्वविचारदक्षान् । खात्मानमाधाय सहस्रधा किं, समागतः स्वर्गिगुरुर्गरीयान् ॥ २९॥ सम्प्रेक्ष्य नारीददतीः सुदानं, मध्यंदिने यत्र गता मुनीशाः। कलौ युगे सन्ति न कल्पवल्यश्चक्रर्विचारं तदलीकमेव ॥३०॥ सुरालयात् स्वायतिसाधनाय, सुराङ्गना एव समागताः किम् । श्राद्धाङ्गनानां मिषतोऽत्र मन्ये, दानं ददन्त्यो व्रतिनां हि यत्र ॥ ३१॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238