________________
१७३
श्रीधनविजयगणिप्रेषिता विज्ञप्तिका गर्भे समागत्य जिनेन येन निर्धारिता दोषततिर्जनानाम् । सा तं समासादितमेव यत्तत् , तथ्याऽभवत् शम्भव इत्यभिख्या ॥१५॥ यदिष्टदानाम्बुदवर्षणेन, नृणां परिप्लावितदौःस्थ्यवृक्षाः । न ते प्ररोहन्ति पुनर्यथा सरित्पूरण सम्प्लावितपार्श्ववृक्षाः ॥ १६ ॥ संवेभि कालत्रयमेव तत्त्वत्रयं च विश्वत्रयमित्यवैमि। प्रज्ञापनाथे शिरसि खकीये छत्रत्रयं योऽत्र जिनो बभार ॥१७॥ सद्वर्ण............वा निरासीद्, यस्तीर्थराडित्यवधार्य येह । यत्पार्श्वतो भक्तिभृतां न चैवं, ज्ञानादिरत्नस्य कुतोऽन्यथाऽऽप्तिः ॥१८॥ सेनासतीकुक्षिसरोमरालंजितारिसर्वावनिनाथसूनुम् । तं तीर्थनेतारमनन्तसारं, प्रेम्णा प्रणम्यामलशम्भवाख्यम् ॥ १९ ॥
॥ इति श्रीदेववर्णनम् ॥ पुरं स्फुरत् सूर्यपुराभिधानं, मनुष्यरत्नप्रवरं निधानम् । कस्यास्ति नाह्लादकृते सुतेजश्चक्षुःपथस्थं हि यथा सुवर्णम् ॥ २०॥ वैडूर्यमुक्ताफलशङ्खशुक्तिप्रवालमुख्यैर्विविधैः पदार्थैः । भृशं भृतायाः पुरतो हि यस्या, जलावशेषत्वमवाप वार्द्धिः ॥ २१ ॥ श्रीमद्गुरूणां चरणारविन्दरजोम्भसा क्षालितभूतलायाः । अनेकसत्पुण्यजनाश्रिताया, यस्याः पुरस्तादलकाऽलकामा ॥२२॥ जाने दृशोहीदकरानानां, पुरं सुधाकुण्डमवेत्य यत् किम् । तद्रक्षणार्थ स्वयमेव मूर्तः, शेषोऽत्र वप्रच्छलतोऽभ्युपेतः ॥२३॥ पुराद् यतः श्रीनिलयादलक्ष्मीप्रवेशलेशप्रतिषेधनार्थम् । मन्येऽहमेवं विहिता विधात्रा, किं खातिका वारिभृता समन्तात् ॥ २४ ॥ यस्मिन् पुरासन्नवने निकामं, पिकाङ्गनानां मिषतस्समेताः । किं नाकनार्यः सुरलोकतो द्राक्, सङ्कीर्तयन्त्यः सुगुरोर्यशोऽत्र ॥ २५॥ अगण्यपुण्यप्रभवस्य लक्ष्मी, निरीक्ष्य यस्यामरपत्तनं किम् । . खर्गे निवासं व्यरचत् वितर्के, विषस्सचित्तं(?) घनलज्जयैव ॥ २६ ॥ चन्द्रानना वारिजपत्रनेत्रा, यत्राङ्गना वीक्ष्य गवाक्षसंस्थाः।
ऊहं दधुव्र इति पूर्णिपायामुदेति किं चन्द्रशतं रजन्याम् ॥ २७॥ तेनुः सकर्णाः प्रविलोक्य तक, यस्योपकण्ठे तपनात्मजां नदीम् । समागताऽस्तीति विलोकितुं किं, पितुः स्वकीयस्य पुरं प्रबर्हम् ॥ २८॥ सुश्रावकान् यत्र निरीक्ष्य मन्ये, जीवादिसत्तत्त्वविचारदक्षान् । खात्मानमाधाय सहस्रधा किं, समागतः स्वर्गिगुरुर्गरीयान् ॥ २९॥ सम्प्रेक्ष्य नारीददतीः सुदानं, मध्यंदिने यत्र गता मुनीशाः। कलौ युगे सन्ति न कल्पवल्यश्चक्रर्विचारं तदलीकमेव ॥३०॥ सुरालयात् स्वायतिसाधनाय, सुराङ्गना एव समागताः किम् । श्राद्धाङ्गनानां मिषतोऽत्र मन्ये, दानं ददन्त्यो व्रतिनां हि यत्र ॥ ३१॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org