________________
१७४
.
विज्ञप्तिलेखसंग्रह .
यत्राब्जग् रत्ननिबद्धभित्तौ, सङ्क्रान्तमालोक्य निजं स्वरूपम् । निहन्ति पादेन रुषा सपत्नीबुद्ध्येति मन्ये दिवसावसाने ॥ ३२॥ यत्रागताः पान्थजना विशेष, विन्दन्ति नो घस्रनिशीथिनीनाम् । रत्नप्रदीपैश्च गृहे प्रदीप्रैर्वियत्प्रदीपैर्दलितान्धकारे ॥ ३३ ॥ यत्राईतश्चैत्यशिरःप्रदेशे, प्रोत्तम्भितं दण्डमवेक्ष्य मन्ये । श्रीतीर्थनाथद्विषतां निहन्तुं, किं वेधसोद्धीकृत एष दण्डः ॥ ३४ ॥ यस्मिन् नराणां च जिनेश्वराणां, नरेश्वराणां वरमन्दिराणि । खतोऽधिकान्येव विलोक्य जग्मुर्मन्ये सुरौकांसि विमानतां किम् ॥ ३५॥ सद्वर्णवर्ण्य वरशब्दयुक्तं, विभक्तिमन्मूर्खजनैरगम्यम् ।
बह्वर्थभुल्लक्षणवच्च यत्पुरं, विशारदैः संश्रितमेव भाति ॥ ३६ ॥ प्रद्वेषो यत्र पापे दृषदि कठिनता निर्दयत्वं कृपाणे, रुद्रत्वं व्योमकेशे दिनकरकिरणे तापकर्तृत्वमस्ति । जाड्यं न्यक्षे च वृक्षे कचवरनिचये बन्धनं वर्णिनीनां, दुष्टाचीणे विषादो बहलमलिनता कजले नैव लोके ॥३७॥
श्रीमत्तपागच्छगुरोः पदाब्जन्यासेन संपावितभूप्रदेशे। निरन्तरं साधुजनप्रवेशे, श्रियान्विते श्रीमति तत्र देशे ॥ ३८॥
॥ इति श्रीनगरवर्णनम् ॥ श्रीतातपादाहिपयोजसेवास्पृहालवः श्राद्धगणाः सुभक्ताः ।
वसन्ति यस्मिन् नगरे प्रकृष्टे, पुरात् ततो राजपुराभिधानात् ॥ ३९ ॥ संयोजितकरद्वन्द्वपद्मपेशलकुमलः । विनयनतसर्वाङ्गो धनादिविजयः शिशुः॥४०॥
सानन्दं सप्रमोदं च बहुमानपुरस्सरम् । सौत्सुक्यं सादरं जाग्रद्भक्तिसम्भारपूर्वकम् ॥ ४१॥ विनयनयाञ्चितचेता हर्षात्संवर्धमानभक्तिरसः । सातिशयं सौवाशयनिवेदनाय प्रकटवचसा ॥ ४२ ॥ योगाभिमतपदार्थैर्गणितावत्तैः सदा समभिवन्ध । प्रणयति विज्ञप्तिमिमां विधिवद् रोमाञ्चकञ्चकितः ॥ ४३॥
कार्यं यथा चात्र सहस्ररश्मौ समागते पूर्वगिरीन्द्रशृङ्गे।।
सदिभ्यसभ्यैः परिपूरितायामानन्दतः संसदि सङ्गतायाम् ॥ ४४ ॥ श्रूयमाणं सुधायानमिव श्रोतृसुखावहम् । श्रीमतः पञ्चमाङ्गस्य व्याख्यानं दुरितावहम् ॥४५॥ सिद्धान्तन्यायशास्त्रादेः पाठनं पठनं मुदा । योगोपधानयोर्नित्यमुद्वाहनमनेकधा ॥ ४६॥ भविनां नन्दिकृन्नन्दिभवनं विधिसंयुतम् । द्वादशव्रततुर्यादिव्रतस्योच्चारणं शुभम् ॥ ४७॥ इत्यादिदिनकृत्यानि निर्विघ्नानि समाधितः । सिद्धि प्राप्तानि सर्वाणि सञ्जायते स्म चाधुना ॥४८॥
क्रमागते श्रीमति सर्वपर्वगर्वान्धकारा(?) दिवसेश्वराभे ।
श्रीक.. पर्वणि सर्वदेवैः, कृतोत्सवे धर्मभराभिरामे ॥ ४९ ॥ खात्रं श्रीजिनसदने पूजा जिनपस्य सप्तदशभेदैः । गीतनृत्यादि(१) युक्ता पुस्तकपूजाऽङ्गपूजा च ॥५०॥ श्रोतृजनसेवकल्पितकल्पद्रुमकल्पकल्पसूत्रस्य । सक्षणनवक्षणैरपि व्याख्याऽखिलशास्त्रसारस्य ॥५१॥ षष्ठाष्टमवराष्टाहपक्षक्षपणमुख्याकः(१) । तपोविधिरष्टकर्मक्षपणप्रवणों ........ ॥५२॥ साधर्मिकजनपोषणमघसन्ततिशोषणं सुकृतकरणम् । बहुजिनगुरुगुणगायनमनुजानां द्रविणदानं च ॥ ५३॥ द्वादशदिनान्याव....."भयदानघोषपटुपटहः । चत्यपरिपाटिकायाः करण सङ्घाचेन चंव ॥५४॥ ___ इत्यादिपर्वकर्माणि ससौख्यानि निरन्तरम् । निरपायतया सम्यक् प्रावर्तन्त महोदयम् ॥ ५५ ॥
dain Education Intermational
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org