________________
श्रीधनविजयगणिप्रेषिता विज्ञप्तिका श्रीतातनाममत्रस्मरणासाधारणैककारणतः । यद्वदिनकरकिरणैस्सहस्रपत्राणि विकसन्ति ॥ ५६ ॥
अपरं चयन्नाममन्त्रस्मरणं सुधातोऽधिकं परिप्रत्यवधारयामि । आद्यं चिदानन्दकरं जनानां पीता सती तुष्टिकरा यतः सा ॥५॥
येनात्मरूपेण तृणीकृतः प्राक् , श्रीनन्दनः साधुजनोपगीः । भवाम्बकोद्भूतहिरण्यरेतसा, नो चेत् कथं दह्यत एव शीघ्रम् ॥ ५८ ॥ यद्वक्तु राकाशशिना समत्वं, सम्बिभ्रता चन्द्रमसा यदाप्तम् । दुश्चिह्नमद्यापि धनाश्रयस्थस्त्वदर्शयत् पङ्कमिषात् किमिन्दुः ॥ ५९॥ कैलासशैलोदरगौरकान्तियशो यदीयं नितरां भ्रमत् किम् । कृत्वा त्रिलोकीं धवलामवैमि मरुत्पथे, क्रीडति चन्द्रदम्भात् ॥ ६०॥ धर्मोपदेशावसरे यदीयमुखेन्दुसंसूतवचःसुधा यत् । निपीय केचित सुमनःस्वभावं, केचित् व्रजन्त्यक्षरतां च धन्याः॥६१ ॥ दृष्टेष्वनिष्टेषु च यस्य साम्यं, संवीक्ष्य दोषाः कृतरोषपोषाः । कुशिक्षशो(शै?)क्षा इव ते वदोषमज्ञायमाना हि परं प्रपन्नाः ॥ ६२॥ यस्योत्कटं ध्यानबलं विचार्य, दूरं गताः सप्त दरा भियेव । तेऽप्राप्यमाणा वसतिं जनेऽस्मिन् , यद्वैरिणां वासगृहं प्रविष्टाः ॥ ६३॥ येन खगत्या जिनराजहंसो, विलजितोऽगाद् वरमानसे किम् । यद्वक्त्रमित्रं कमलं निरीक्ष्य, वैरं स्मरन् चञ्चुपुटेन हन्ति ॥ ६४ ॥ निषेवतेऽयं जलधिस्समेत्य, पदोर्ध्वरेखाच्छलतः किमेषः । विज्ञप्तिकां कर्तुमितीश ! जह्यान्मे क्षारदोषं जगतामनिष्टम् ॥ ६५ ॥ योऽगाधसंसारपयोधिमध्ये, पतजनानां करुणास्पदानाम् । खवाक्तरण्यामधिरोप्य पारं, नयत्यजस्रं वरनाविको यथा ॥ ६६ ॥ कर्पूरपूरोपमया यदीयकीर्त्या त्रिविश्वं भृतमेवमन्ये । चेन्नैवमेषा जगति प्रपूर्णे, कुतोऽन्यथा प्राज्ञजनैः प्रगीयते ॥ ६७॥ सद्विद्यया वज्रमुनीश्वरस्य, लब्ध्येन्द्रभूतेस्तपसोबलेन । श्रीमजगच्चन्द्रमुनीशितुः सद्ध्यानेन च श्रीमुनिसुन्दरस्य ॥ ६८॥ श्रीसिद्धसेनस्य कवित्वशक्त्या, साम्येन च श्रीगुरुहीरसूरेः। षट्त्रिंशदाचार्यगुणैर्गरिष्ठो, यः साम्यमाबिभ्रति सूरिराजाम् ॥ ६९ ॥ गुणैकसद्रत्नसुरोहणानां, कृपारसप्रीणितसज्जनानाम् । वस्थैर्यतस्तर्जितमन्दराणां, गाम्भीर्यतो धिक्कृतसागराणाम् ॥ ७० ॥ श्रेयोवतां भाग्यवतां तपस्विनां, महात्मनां पुण्यवतां यशस्विनाम् ।
भक्त्योल्लसद्वासववन्दितानां, तेषां गुरूणां नयनन्दितानाम् ॥ ७१ ॥ वहस्तलिखितस्याशुलेखस्यागतिमुत्तमाम् । समीहते शिशुर्नित्यं मनःसन्तुष्टिपुष्टये ॥ ७२॥ तेन श्रीमद्गुरुभिर्गुणगुरुभिः प्रवरबुद्धिजितगुरुभिः । छन्दोऽलङ्कतितर्कागमशास्त्रे निहितनिजमतिभिः ॥ ७३ ॥ सौवश्रीसारवपुःपरिकरनैरुज्यसूचनाचतुराः । लेखाः प्रसादनीयाः प्रसद्य सद्यः खकीयशिशौ ॥ ७४॥ प्रणतिरवधारणीयौपवैणवं शैशवी विशेषेण । श्रीतातैरभ्रान्तैर्निष्णातैर्विश्वविख्यासैः ॥ ७५॥
20
Jain Education Intemational
ducation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org