SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७६ विज्ञप्तिलेखसंग्रह तत्रापि विगततन्द्राः श्रीमत्श्रीवाचका अमरचन्द्राः । श्रीतातचरणवारिजसेवारसरसिकमधुपेन्द्राः ॥७६ ॥ विबुधाः क्षिमादिविजया विबुधवरा रामविजयगणयश्च । प्राज्ञा विनीतविजया धृतहृदयाः परमगुरुकृत्ये ॥ ७७॥ सद्विद्या नयविजया विबुधा विबुधाश्च वीरविजयाह्वाः । मतिमन्तो मतिविजया विबुधवराः परमगुरुभक्ताः ॥ ७८ ॥ कृष्णविजयविबुधा अपि पण्डितमुख्याश्च शान्तिविजयाह्वाः । अमरविजयवरविबुधा [विबुध]वरा लीलचन्द्राश्च ॥७९॥ गणयोऽपि गङ्गविजया जसविजयगणिवराश्च गणयोऽपि । रामविजयनामानो गणयोऽपि च लालविजयाख्याः ॥ ८०॥ जयविजयाभिधगणयो गणिनी चम्पा तथा सती प्रेमा। शीलवती च जयश्री-सु]मतिश्री सत्यशीलधरा ॥ ८१॥ इत्यादिसाधुसाध्वीवर्गाणां तातचरणभक्तानाम् । अनुनतिरपि प्रसाद्या सद्योबन्धैत्रिदशततिभिः ॥ ८२॥ अत्रत्या धीमन्तः प्रेमविजय-कुंअरविजयगणयश्च । सौभाग्य-सिङ्घविजयाः, तेजविजयगणिवरा अपि च ॥ ८३ ॥ सहजश्री-जयतश्रीप्रमुखाः प्रणमन्ति तातगुणरक्ताः। सङ्घसकलोवत्यो विशेषतो भक्तितो नमति ॥ ८४ ॥ न्यक्षं विज्ञप्त्यनौचित्यं क्षन्तव्यं क्षन्तुमर्हितैः । हिताशिषः प्रसाद्याश्च विशेषोदन्तगर्मिताः ॥ ८५॥ नमतितरां वरभक्त्या विशेषतः सिङ्घविजयशिशुरणुकः । बाहुलबहुले पक्षे पञ्चम्यां सशिवमिति भद्रम् ॥ ८६ ॥ ॥श्रीरस्तु ॥ ० ॥श्रीसूरतबन्दिरे । पूज्याराध्यसकलभट्टारकवृन्दवृन्दारकभद्दारकश्रीविजयदेवसूरीश्वरचरणेन्दीवराणां विज्ञप्तिरियम् । राजपुरात् उ० श्रीधनविजयगणिलेखः ॥ सम्बत् १७०४ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy