Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१७६
विज्ञप्तिलेखसंग्रह तत्रापि विगततन्द्राः श्रीमत्श्रीवाचका अमरचन्द्राः । श्रीतातचरणवारिजसेवारसरसिकमधुपेन्द्राः ॥७६ ॥
विबुधाः क्षिमादिविजया विबुधवरा रामविजयगणयश्च । प्राज्ञा विनीतविजया धृतहृदयाः परमगुरुकृत्ये ॥ ७७॥ सद्विद्या नयविजया विबुधा विबुधाश्च वीरविजयाह्वाः । मतिमन्तो मतिविजया विबुधवराः परमगुरुभक्ताः ॥ ७८ ॥ कृष्णविजयविबुधा अपि पण्डितमुख्याश्च शान्तिविजयाह्वाः । अमरविजयवरविबुधा [विबुध]वरा लीलचन्द्राश्च ॥७९॥ गणयोऽपि गङ्गविजया जसविजयगणिवराश्च गणयोऽपि । रामविजयनामानो गणयोऽपि च लालविजयाख्याः ॥ ८०॥ जयविजयाभिधगणयो गणिनी चम्पा तथा सती प्रेमा।
शीलवती च जयश्री-सु]मतिश्री सत्यशीलधरा ॥ ८१॥ इत्यादिसाधुसाध्वीवर्गाणां तातचरणभक्तानाम् । अनुनतिरपि प्रसाद्या सद्योबन्धैत्रिदशततिभिः ॥ ८२॥
अत्रत्या धीमन्तः प्रेमविजय-कुंअरविजयगणयश्च । सौभाग्य-सिङ्घविजयाः, तेजविजयगणिवरा अपि च ॥ ८३ ॥ सहजश्री-जयतश्रीप्रमुखाः प्रणमन्ति तातगुणरक्ताः।
सङ्घसकलोवत्यो विशेषतो भक्तितो नमति ॥ ८४ ॥ न्यक्षं विज्ञप्त्यनौचित्यं क्षन्तव्यं क्षन्तुमर्हितैः । हिताशिषः प्रसाद्याश्च विशेषोदन्तगर्मिताः ॥ ८५॥ नमतितरां वरभक्त्या विशेषतः सिङ्घविजयशिशुरणुकः । बाहुलबहुले पक्षे पञ्चम्यां सशिवमिति भद्रम् ॥ ८६ ॥
॥श्रीरस्तु ॥ ० ॥श्रीसूरतबन्दिरे । पूज्याराध्यसकलभट्टारकवृन्दवृन्दारकभद्दारकश्रीविजयदेवसूरीश्वरचरणेन्दीवराणां विज्ञप्तिरियम् । राजपुरात् उ० श्रीधनविजयगणिलेखः ॥ सम्बत् १७०४ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238