SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ तपोगणपतिश्रीविजयप्रभसूरिं प्रति पं० लाभविजयप्रेषितो [१४] -- विज्ञप्ति लेखः । - ॥ श्रीमद्दामाजानिजन्मा जयति जयति ॥ वाग्देव्यै नमः । श्रीसद्गुरवे नमः ॥ खस्तिश्रीवनिताकटाक्षलहरीसञ्चारिसच्छङ्खपुर्नारीकण्ठविहारिहारिविलसद्धारोपमानः प्रभुः । । श्रीमत्पार्धजिनो बभस्ति सकले विश्वत्रये भास्करो, भव्याम्भोजविभासने शिवकरः श्रीआश्वसेनिर्जिनः ॥१॥ वस्तीन्दिरालिङ्गितचारुदेहः, समस्तगोपालकुलावतंसः । वशीकृतो येन महोरगेनः, श्रीपार्थराड् वः स जिनः श्रियेऽस्तु ॥ २॥ वाग्देवतायां जनको जनानां, सुखंकरः सृष्टिकरः स्वयंभूः । श्रीपार्श्वराट् शंखपुराधिराजो, ददातु सौख्यान्यखिलानि वो नः ॥३॥ शंभुः शिवेशः फणिसेवितोऽसौ, गणाधिनाथाभिनतांहिपद्मः । कन्दर्पदर्पापहको ददातु, वो नः श्रियं शङ्खपुरेशपार्थः ॥ ४ ॥ शङ्खादिपुर्नायकपार्श्वदेवो, देवासपुर्या कृतसन्निवासः ।। पूतीकृतं येन जगत्रयं स रातु श्रियं सर्वगुणाभिरामः ॥५॥ हाँ ॥ खस्ति रमां स जिनो मम दद्याद्, यत्पदकोकनदं समुपास्ते । अङ्कतया हरिणोऽम्बककान्त्या, निर्जित एष ततो जिनशान्तेः ॥६॥ लोचनकान्तितयापि मृगाक्ष्यो, मां जिनराज ! जयन्ति नितान्तम् । वक्तुमितीव मृगः पदसेवामातनुते किल किं मृगकेतोः ॥ ७॥ जिनवरेश ! कुरङ्ग इति प्रभो मदभिधानमिदं प्रवदन्ति यत् । अपनय त्वमितीव वदत्ययं, हरिणको हि यदीयपदम्बुजे ॥ ८॥ यदा जितः स्त्रीनयनैः पृथिव्यां, गत्वा खमिन्दुं किल संश्रितोऽहम् । तदा प्रभृत्येव वदन्ति लोका, मदीयसङ्गात् सकलङ्कमेतम् ॥ ९॥ अतः परं नाथ ! व्रजामि कुत्र, दीनो वराको बहुलजितश्च । इतीव विज्ञप्तिमसौ तनोति, मृगो यदीयांहिकजदयेऽरम् ॥१०॥ ही ॥ वस्तीन्दिरा सुन्दरमन्दिरं सद्धरेन्द्रदेवेन्द्रनतक्रमाब्जः। चतुर्मुखः सौख्यकरः स देवो, ददातु सौख्यं मुनिसुव्रताख्यः ॥११॥ सकलसेवकलोकसमीहितफलसमर्पणनाकितरूपमम् । यदमलांहिकजद्वयमुत्तमं जयति कूर्मवरान्वितमन्वहम् ॥ १२॥ चरणद्वितयं किल यस्य विभोर्भुवनत्रयसिद्धिमतिप्रवराम् । प्रददाति यदेतदिदं न किमु नितरामपि चित्रकरं सुधियाम् ॥ १३ ॥ यदीयपत्पद्ममुपेत्य कूर्ममिषान्मुरद्विद् किमितीव वक्ति। भवार्णवात्तारयसि त्वमीश ! सर्वांस्ततो मामपि तारयख ॥१४॥ 3यक्रमाम्बुजगन्धरसौघमत्ति(?) नाकिमनुजालिगणोऽरम् । यस्य पत्पयसि तस्य सुसेवां कुर्वते मुनिजनद्विजराजाः॥१५॥ खस्तिश्रियं यच्छतु वामवामासूनुर्मनूनद्युतिभासमानः। सुधाझरो भद्रकरः स पार्थ उक्केशपाटे कृतसन्निवासः ॥१६॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy